"ऋग्वेदः सूक्तं ८.९७" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ९:
}}
 
<poem><span style="font-size: 14pt; line-height: 200%">
<div class="verse">
<pre>
या इन्द्र भुज आभरः स्वर्वाँ असुरेभ्यः ।
स्तोतारमिन्मघवन्नस्य वर्धय ये च त्वे वृक्तबर्हिषः ॥१॥
Line ४२ ⟶ ४१:
कदा न इन्द्र राय आ दशस्येर्विश्वप्स्न्यस्य स्पृहयाय्यस्य राजन् ॥१५॥
 
</prespan></poem>
</div>
{{ऋग्वेदः मण्डल ८}}
 
== ==
{{सायणभाष्यम्|
या इन्द्र इति पञ्चदशर्चं चतुर्थं सूक्तं काश्यपस्य रेभस्यार्षमैन्द्रम् । दशम्यतिजगती द्वापञ्चाशदक्षरा। एकादशीद्वादश्यावुपरिष्टाद्बृहत्यौ त्र्यष्टकान्तद्वादशकवत्यौ। त्रयोदश्यतिजगती । चतुर्दशी त्रिष्टुप् । पञ्चदशी जगती । शिष्टा बृहत्यः । तथा चानुक्रम्यते- या इन्द्र पञ्चोना रेभः काश्यपो बार्हतमतिजगत्युपरिष्टाद्बृहत्यावतिजगती त्रिष्टुब्जगतीत्यन्ततः' इति । सूक्तविनियोगो लैङ्गिकः । महाव्रते निष्केवल्ये बार्हततृचाशीतौ ' या इन्द्र' इत्यादिका नवर्चः । तथैव पञ्चमारण्यके सूत्र्यते ' या इन्द्र भुज आभर इति नव सूददोहाः' (ऐ. आ. ५. २. ४) इति । चातुर्विंशिकेऽहनि माध्यंदिनसवने ब्राह्मणाच्छंसिनो वैकल्पिकानुरूपतृचस्य ' या इन्द्र' इत्यादिके द्वे द्वितीयातृतीये । सूत्र्यते च--- तमिन्द्रं जोहवीमि या इन्द्र भुज आभर इत्येका द्वे च' (आश्व. श्रौ. ७. ४) इति ॥
 
 
या इ॑न्द्र॒ भुज॒ आभ॑र॒ः स्व॑र्वाँ॒ असु॑रेभ्यः ।
 
स्तो॒तार॒मिन्म॑घवन्नस्य वर्धय॒ ये च॒ त्वे वृ॒क्तब॑र्हिषः ॥
 
याः । इन्द्र । भुजः । आ । अभरः । स्वःऽवान् । असुरेभ्यः ।
स्तोतारम् । इत् । मघवन् । अस्य । वर्धय । ये । च । त्वे इति । वृक्तऽबर्हिषः ॥ १ ॥
 
ऋषिरिन्द्रं प्रार्थयते । हे इन्द्र स्वर्वान् सुखवान् स्वर्गवान् वा । अथवा स्वःशब्दः सर्वपर्यायः । सर्वं भूतजातम् । आत्मन एवोत्पन्नत्वात्तद्वान् । एवंगुणस्त्वं याः यानि भुजः भोक्तव्यानि धनानि असुरेभ्यः बलवद्भ्यो राक्षसेभ्यः आभरः आहरः तान् हत्वाहृतवानसि। हग्रहोः' इति भकारादेशः । अत एव हे मघवन् धनवन्निन्द्र अस्य । अन्वादेशेऽशादेशः । एतस्याहृतस्य धनस्य दानेन स्तोतारमित् तव स्तोत्रकारिणमेव वर्धय वृद्धिमन्तं कुरु। ये च अन्ये यष्टारः त्वे त्वदर्थं वृक्तबर्हिषः स्तीर्णबर्हिषो भवन्ति अतस्तांश्च धनेन वर्धय ॥
 
 
यमि॑न्द्र दधि॒षे त्वमश्वं॒ गां भा॒गमव्य॑यम् ।
 
यज॑माने सुन्व॒ति दक्षि॑णावति॒ तस्मि॒न्तं धे॑हि॒ मा प॒णौ ॥
 
यम् । इन्द्र । दधिषे । त्वम् । अश्वम् । गाम् । भागम् । अव्ययम् ।
 
यजमाने । सुन्वति । दक्षिणाऽवति । तस्मिन् । तम् । धेहि । मा । पणौ ॥ २ ॥
 
हे इन्द्र त्वं यम् अश्वं गमनसाधनान् हरीन् गाम् अग्निहोत्रकर्मणि पयःप्रदानेनोपकारिका गाः अव्ययं व्ययरहितमविनश्वरं भाग भजनीयं धनम्। सर्वत्रैकत्वमविवक्षितम् । एतान् शत्रुभ्य आहृत्य दधिषे बिभर्षि तं सर्वं सुन्वति सोमाभिषवं कुर्वति दक्षिणावति यज्ञ ऋत्विग्भ्यो दक्षिणादेयत्वेन तद्वति यजमाने यागं कुर्वाणे तस्मिन् त्वं धेहि। सर्वत्र धनादिदानं मा कुर्वित्याह। मा पणौ ।' पण व्यवहारे'। द्रव्यव्यवहारादयष्टा जनः पणिः । तस्मिन्नेतत् सर्वं मा देहि ॥
 
 
य इ॑न्द्र॒ सस्त्य॑व्र॒तो॑ऽनु॒ष्वाप॒मदे॑वयुः ।
 
स्वैः ष एवै॑र्मुमुर॒त्पोष्यं॑ र॒यिं स॑नु॒तर्धे॑हि॒ तं ततः॑ ॥
 
यः । इन्द्र । सस्ति । अव्रतः । अनुऽस्वापम् । अदेवऽयुः ।
 
स्वैः । सः । एवैः । मुमुरत् । पोष्यम् । रयिम् । सनुतः । धेहि। तम् । ततः ॥ ३ ॥
 
हे इन्द्र अदेवयुः देवान् युष्मानकामयमानः अव्रतः व्रतरहितः कर्मरहितो भूत्वा अनुस्वापम् अनुवृत्तस्वप्नं यथा भवति तथा यः सस्ति स्वपिति । ‘षस स्वापे'। आदादिकः । सः जनः स्वैः आत्मीयैः एवैः गमनैरेव पोष्यं पोषणयं रयिं स्वीयं धनं मुमुरत् मारयतु विनाशयतु । अमार्गैर्द्यूतादिभिस्तस्य धनं नश्यतु न तु देवानां हविष्प्रदानेनेति । ततः त्वं तम् अयष्टारं जनम् । सनुतरित्यन्तर्हितनाम । सनुतः अन्तर्हिते कर्मरहिते कस्मिश्चिद्देशे धेहि स्थापय ॥
 
 
यच्छ॒क्रासि॑ परा॒वति॒ यद॑र्वा॒वति॑ वृत्रहन् ।
 
अत॑स्त्वा गी॒र्भिर्द्यु॒गदि॑न्द्र के॒शिभिः॑ सु॒तावाँ॒ आ वि॑वासति ॥
 
यत् । शक्र । असि । पराऽवति । यत् । अर्वाऽवति । वृत्रऽहन् ।
 
अतः । त्वा । गीःऽभिः । द्युऽगत् । इन्द्र । केशिऽभिः । सुतऽवान्। आ । विवासति ॥४॥
 
हे शक्र शत्रुहननसमर्थेन्द्र यत् यदा परावति विप्रकृष्टेऽतिदूरे द्युलोके देशे असि विद्यसे हे वृत्रहन् वृत्रस्य हन्तरिन्द्र यत् यदि अर्वावति अर्वाचीने तस्मादधस्तात्स्थिते तदपेक्षया समीपे देशेऽन्तरिक्षे भवसि तस्मादपि अतः अस्माद्भूलोकाद्वा द्युगत् ।' गम्लृ गतौ'। क्विपि 'गमः क्वौ' इत्यनुनासिकलोपः । तुक् ।' सुपां सुलुक्' इति लुक् । द्युलोकं प्रति गच्छद्भिः स्वभासा सर्वतो गच्छद्भिः केशिभिः केशवद्भिर्हरिभिरिव स्थिताभिः गीर्भिः स्तुतिभिः वा त्वां सुतवान् अभिषुतसोमवान् यजमानः आ विवासति । आत्मीयं यज्ञं प्रत्यागमयति त्वामेतैः स्तोत्रैः परिचरतीति वा ॥
 
 
यद्वासि॑ रोच॒ने दि॒वः स॑मु॒द्रस्याधि॑ वि॒ष्टपि॑ ।
 
यत्पार्थि॑वे॒ सद॑ने वृत्रहन्तम॒ यद॒न्तरि॑क्ष॒ आ ग॑हि ॥
 
यत् । वा। सि । रोचने । दिवः । समुद्रस्य । अधि । विष्टपि ।
 
यत् । पार्थिवे । सदने । वृत्रहन्ऽतम । यत् । अन्तरिक्षे । आ । गहि ॥ ५ ॥
 
हे इन्द्र यद्वा यदि वा दिवः द्युलोकस्य रोचने दीपनशीले स्थाने भवसि । यद्वा समुद्रस्य मध्ये अधि अधिगते विष्टपि विष्टपे तत्संबद्धे कस्मिंश्चित् स्थाने भवसि । हे वृत्रहन्तम अतिशयेन वृत्रस्यासुरस्य पापस्य वा हन्तरिन्द्र यत् यदि वा पार्थिवे पृथिव्यां भवे सदने स्थाने विद्यसे । यदि वा अन्तरिक्षे तस्मिँल्लोके वर्तसे । यत्रकुत्र भवसि तथाप्यस्मदीयं यज्ञं प्रति आ गहि आगच्छ ॥ ॥ ३६॥
 
 
स न॒ः सोमे॑षु सोमपाः सु॒तेषु॑ शवसस्पते ।
 
मा॒दय॑स्व॒ राध॑सा सू॒नृता॑व॒तेन्द्र॑ रा॒या परी॑णसा ॥
 
मा न॑ इन्द्र॒ परा॑ वृण॒ग्भवा॑ नः सध॒माद्यः॑ ।
 
त्वं न॑ ऊ॒ती त्वमिन्न॒ आप्यं॒ मा न॑ इन्द्र॒ परा॑ वृणक् ॥
 
अ॒स्मे इ॑न्द्र॒ सचा॑ सु॒ते नि ष॑दा पी॒तये॒ मधु॑ ।
 
कृ॒धी ज॑रि॒त्रे म॑घव॒न्नवो॑ म॒हद॒स्मे इ॑न्द्र॒ सचा॑ सु॒ते ॥
 
न त्वा॑ दे॒वास॑ आशत॒ न मर्त्या॑सो अद्रिवः ।
 
विश्वा॑ जा॒तानि॒ शव॑साभि॒भूर॑सि॒ न त्वा॑ दे॒वास॑ आशत ॥
 
विश्वा॒ः पृत॑ना अभि॒भूत॑रं॒ नरं॑ स॒जूस्त॑तक्षु॒रिन्द्रं॑ जज॒नुश्च॑ रा॒जसे॑ ।
 
क्रत्वा॒ वरि॑ष्ठं॒ वर॑ आ॒मुरि॑मु॒तोग्रमोजि॑ष्ठं त॒वसं॑ तर॒स्विन॑म् ॥
 
समीं॑ रे॒भासो॑ अस्वर॒न्निन्द्रं॒ सोम॑स्य पी॒तये॑ ।
 
स्व॑र्पतिं॒ यदीं॑ वृ॒धे धृ॒तव्र॑तो॒ ह्योज॑सा॒ समू॒तिभिः॑ ॥
 
ने॒मिं न॑मन्ति॒ चक्ष॑सा मे॒षं विप्रा॑ अभि॒स्वरा॑ ।
 
सु॒दी॒तयो॑ वो अ॒द्रुहोऽपि॒ कर्णे॑ तर॒स्विन॒ः समृक्व॑भिः ॥
 
तमिन्द्रं॑ जोहवीमि म॒घवा॑नमु॒ग्रं स॒त्रा दधा॑न॒मप्र॑तिष्कुतं॒ शवां॑सि ।
 
मंहि॑ष्ठो गी॒र्भिरा च॑ य॒ज्ञियो॑ व॒वर्त॑द्रा॒ये नो॒ विश्वा॑ सु॒पथा॑ कृणोतु व॒ज्री ॥
 
त्वं पुर॑ इन्द्र चि॒किदे॑ना॒ व्योज॑सा शविष्ठ शक्र नाश॒यध्यै॑ ।
 
त्वद्विश्वा॑नि॒ भुव॑नानि वज्रि॒न्द्यावा॑ रेजेते पृथि॒वी च॑ भी॒षा ॥
 
तन्म॑ ऋ॒तमि॑न्द्र शूर चित्र पात्व॒पो न व॑ज्रिन्दुरि॒ताति॑ पर्षि॒ भूरि॑ ।
 
क॒दा न॑ इन्द्र रा॒य आ द॑शस्येर्वि॒श्वप्स्न्य॑स्य स्पृह॒याय्य॑स्य राजन् ॥
 
}}
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_८.९७" इत्यस्माद् प्रतिप्राप्तम्