"जैमिनीयं ब्राह्मणम्/काण्डम् २/३११-३२०" इत्यस्य संस्करणे भेदः

No edit summary
Use <div> to wrap multiple paragraphs.
पङ्क्तिः १:
<div style="font-size: 14pt; line-height: 170%">
<span style="font-size: 14pt; line-height: 170%">अथैते ऽष्टरात्राः। बृहस्पतिर् वा अकामयत - तेजस्वी ब्रह्मवर्चसी स्यां, यशो देवेषु गच्छेयम् इति। स एतम् अष्टरात्रं यज्ञम् अपश्यत्। तम् आहरत्। तेनायजत। ततो वै स तेजस्वी ब्रह्मवर्चस्य् अभवद्, यशो देवेष्व अगच्छत्। यशो ह्य् एष तद् अगच्छद् यद् एषां पुरोधाम् आश्नुत। तेजस्वी ब्रह्मवर्चसी भवति यशो देवेषु गच्छति, य एवं वेद। अथो आहुर् - आयुष्काम एवैनेन यजेतेति। प्राणो वै गायत्री। गायत्रीम् एष यज्ञो ऽभिसंपन्नः। तस्माद् उ हैनेनायुष्कामो यजेत। अथो आहुः पशुकाम एवैनेन यजेतेति। अष्टाक्षरा वै गायत्री। अष्टाशफाः पशवः। पशवो गायत्री। गायत्रीम् एष यज्ञो ऽभि संपन्नः। तस्माद् उ हैनेन पशुकामो यजेत। प्रजापतिर् वा अकामयत - अस्माल् लोकाद् अमुं लोकं गच्छेयम् इति। स एतम् अष्टरात्रं यज्ञम् अपश्यत्। तम् आहरत्। तेनायजत। ततो वै सो ऽस्माल् लोकाद् अमुं लोकम् आष्ट। यद् अस्माल् लोकाद् अमुं लोकम् आष्ट, तद् अष्टरात्राणाम् अष्टरात्रत्वम्। अष्टे हास्माल् लोकाद् अमुं लोकं, य एवं वेद। तद् आहुः - किम् अन्व् अष्टरात्र इति। दिश इति ब्रूयात्। दिशो ह वा अन्व अष्टरात्रः। चतस्रो दिशश् चत्वारो ऽवान्तरदेशाः। ऊर्ध्वा दिङ् नवमी। अष्टाव् एतान्य् अहानि भवन्ति, रात्रिर् नवमी। दिश एवैतेनर्ध्नोति, दिक्षु प्रतिष्ठाय स्वर्गं लोकम् एति॥2.311॥
 
 
Line ४९ ⟶ ५०:
 
अथ यस्यैतस्योर्ध्वष् षडह ऊर्ध्वस् त्र्यह, स्वर्गकामो हैतेन यजेत। ऊर्ध्वा एते स्तोमा भवन्त्य् - ऊर्ध्वो वै स्वर्गो लोक - स्वर्गस्यैव लोकस्य समष्ट्यै॥2.320॥
</spandiv>
 
</span>