"ऐतरेय ब्राह्मणम्/पञ्चिका १ (प्रथम पञ्चिका)" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ४७:
70
 
सोमाय क्रीताय प्रोह्यमाणायानुब्रूहीत्याहाध्वर्युर्भद्र ?ादभिप्रोह्यमाणायानुब्रूहीत्याहाध्वर्युर्भद्रादभि श्रेयः प्रेहीत्यन्वाहायं वाव लोको भद्र स्तस्मादसावेवभद्रस्तस्मादसावेव लोकः श्रेयान्स्वर्गमेव तल्लोकं यजमानं गमयति बृहस्पतिः पुरएता ते अस्त्विति ब्रह्म वै बृहस्पतिर्ब्रह्मैवास्मा एतत्पुरोगवमकः न वै ब्रह्मण्वद्रि ष्यत्यथेमव स्य वर आ पृथिव्या इति देवयजनं वै वरम्पृथिव्यै देवयजन एवैनं तदवसाययत्यारे शत्रून्कृणुहि सर्ववीर इति द्विषन्तमेवास्मै तत्पाप्मानम्भ्रातृव्यमपबाधतेऽधरम्पादयति सोम यास्ते मयोभुव इति तृचं सौम्यं गायत्रमन्वाह सोमे राजनि प्रोह्यमाणे स्वयैवैनं तद्देवतया स्वेन छन्दसा समर्धयति सर्वे नन्दन्ति यशसागतेनेत्यन्वाह यशो वै सोमो राजा सर्वो ह वा एतेन क्रीयमाणेन नन्दति यश्च यज्ञे लप्स्यमानो भवति यश्च न सभासाहेन सख्या सखाय इत्येष वै ब्राह्मणानां सभासाहः सखा यत्सोमो राजा किल्बिषस्पृदित्येष उ एव किल्बिषस्पृद्यो वै भवति यः श्रेष्ठतामश्नुते स किल्बिषम्भवति तस्मादाहुर्मानुवोचो मा प्रचारीः किल्बिषं नु मा यातयन्निति पितुषणिरित्यन्नं वै पितु दक्षिणा वै पितु तामेनेन सनोत्यन्नसनिमेवैनं तत्करोत्यरं हितो भवति वाजिनायेतीन्द्रि यं वै वीर्यं वाजिनमाजरसं हास्मै वाजिनं नापछिद्यते य एवं वेदागन्देव इत्यन्वाहागतो हि स तर्हि भवत्यृतुभिर्वर्धतु क्षयमित्यृतवो वै सोमस्य राज्ञो राजभ्रातरो यथा मनुष्यस्य तैरेवैनं तत्सहागमयति दधातु नः सविता सुप्रजामिषमित्याशिषमाशास्ते स नः क्षपाभिरहभिश्च जिन्वत्वित्यहानि वा अहानि रात्रयः क्षपा अहोरात्रैरेवास्मा एतामाशिषमाशास्ते प्रजावन्तं रयिमस्मे समिन्वत्वित्याशिषमेवाशास्ते या ते धामानि हविषा यजन्तीत्यन्वाह ता ते विश्वा परिभूरस्तु यज्ञं गयस्फानः प्रतरणः सुवीर इति गवां नः स्फावयिता प्रतारयितैधीत्येव तदाहावीरहा प्र चरा सोम दुर्यानिति गृहा वै दुर्या बिभ्यति वै सोमाद्र ?ाज्ञसोमाद्राज्ञ आयतो यजमानस्य गृहाः स यदेतामन्वाह शान्त्यैवैनं तच्छमयति सोऽस्य शान्तो न प्रजां न पशून्हिनस्तीमां धियं शिक्षमाणस्य देवेति वारुण्य परिदधाति वरुणदेवत्यो वा एष तावद्यावदुपनद्धो यावत्परिश्रितानि प्रपद्यते स्वयैवैनं तद्देवतया स्वेन छन्दसा समर्धयति शिक्षमाणस्य देवेति शिक्षते वा एष यो यजते क्रतुं दक्षं वरुण संशिशाधीति वीर्यम्प्रज्ञानं वरुण सं शिशाधीत्येव तदाह ययाति विश्वा दुरितातरेम सुतर्माणमधि नावं रुहेमेति यज्ञो वै सुतर्मा नौः कृष्णाजिनं वै सुतर्मा नौर्वाग्वै सुतर्मा नौर्वाचमेव तदारुह्य तया स्वर्गं लोकमभि संतरति ता एता अष्टावन्वाह रूपसमृद्धा एतद्वै यज्ञस्य समृद्धं यद्रू पसमृद्धं यत्कर्म क्रियमाणमृगभिवदति तासां त्रिः प्रथमामन्वाह त्रिरुत्तमां ता द्वादश सम्पद्यन्ते द्वादश वै मासाः संवत्सरः संवत्सरः प्रजापतिः प्रजापत्यायतनाभिरेवाभी राध्नोति य एवं वेद त्रिः प्रथमां त्रिरुत्तमामन्वाह यज्ञस्यैव तद्बर्सौ नह्यति स्थेम्ने बलायाविस्रंसाय॥1.13॥