"ऋग्वेदः सूक्तं १०.१३४" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ९:
}}
 
<poem><span style="font-size: 14pt; line-height: 200%">
<div class="verse">
<pre>
उभे यदिन्द्र रोदसी आपप्राथोषा इव ।
महान्तं त्वा महीनां सम्राजं चर्षणीनां देवी जनित्र्यजीजनद्भद्रा जनित्र्यजीजनत् ॥१॥
Line २६ ⟶ २५:
पक्षेभिरपिकक्षेभिरत्राभि सं रभामहे ॥७॥
 
</prespan></poem>
</div>
{{ऋग्वेदः मण्डल १०}}
 
{{सायणभाष्यम्|
 
‘उभे यत्' इति सप्तर्चं षष्ठं सूक्तं युवनाश्वपुत्रस्य मान्धातुरार्षम् । 'पूर्वेण' इत्यर्धर्चसहितायाः सप्तम्यास्तु गोधा नाम ब्रह्मवादिन्यृषिः । सप्तमी पङ्क्तिः । शिष्टाः षळष्टका महापङ्क्तयः । इन्द्रो देवता । तथा चानुक्रान्तम्---'उभे यन्मान्धाता यौवनाश्वो महापाङ्क्तं पङ्क्तिरन्या तामध्यर्धा गोधापश्यत्' इति । गतः सूक्तविनियोगः । चतुर्विंशिकेऽहनि माध्यंदिनेऽच्छावाकस्याद्यस्तृचो वैकल्पिकः स्तोत्रियः । सूत्रितं च--- 'उभे यदिन्द्र रोदसी अव यत्त्वं शतक्रतो ' (आश्व. श्रौ. ७. ४) इति ॥
 
 
उ॒भे यदि॑न्द्र॒ रोद॑सी आप॒प्राथो॒षा इ॑व ।
 
म॒हान्तं॑ त्वा म॒हीनां॑ स॒म्राजं॑ चर्षणी॒नां दे॒वी जनि॑त्र्यजीजनद्भ॒द्रा जनि॑त्र्यजीजनत् ॥
 
उभे इति । यत् । इन्द्र । रोदसी इति । आऽपप्राथ । उषा:इव ।
 
महान्तम् । त्वा । महीनाम् । सम्ऽराजम् । चर्षणीनाम् ।। देवी । जनित्री। अजीजनत् । भद्रा । जनित्री । अजीजनत् ।। १ ।।
 
हे “इन्द्र उभे रोदसी द्यावापृथिव्यौ "यत् यस्त्वम् "आपप्राथ तेजसाप्रासि आपूरयसि । प्रा पूरणे'। आदादिकः । छान्दसो लिट् । "उषाइव यथोषाः स्वभासा सर्वं जगदापूरयति तद्वत् । तं "महीनां महतां देवानामपि "महान्तम् अधिकं चर्षणीनां मनुष्याणामपि सम्राजम् ईश्वरमिन्द्रं “त्वा त्वां देवी देवनशीला “जनित्री साधु जनयित्री अदितिः "अजीजनत् अजनयत् । जनेर्ण्यन्तात्, लुङि चङि रूपमैतत् । यस्मादेषा “जनित्री ईदृशं पुत्रम् अजीजनत् अतः कारणात् सा भद्रा कल्याणी प्रशस्ता जाता। जनेर्ण्यन्तात् साधुकारिणि तृन् । ' जनिता मन्त्रे' इतीयादौ णिलोपो निपत्यते।'ऋश्वेभ्यः' इति ङीप् ॥
 
 
अव॑ स्म दुर्हणाय॒तो मर्त॑स्य तनुहि स्थि॒रम् ।
 
अ॒ध॒स्प॒दं तमीं॑ कृधि॒ यो अ॒स्माँ आ॒दिदे॑शति दे॒वी जनि॑त्र्यजीजनद्भ॒द्रा जनि॑त्र्यजीजनत् ॥
 
अव । स्म । दुःऽहनायतः । मर्तस्य । तनुहि । स्थिरम् ।
अधःपदम् । तम् । ईम् । कृधि । यः । अस्मान् । आऽदिदेशति । देवी । जनित्री । अजीजनत् । भद्रा । जनित्री। अजीजनत् ॥ २ ॥
 
"दुर्हणायतः दुःखप्रदं हननमाचरतः "मर्तस्य मनुष्यस्य शत्रोः "स्थिरं दृढं बलम् "अव "तनुहि। अवततं नीचीनं कुरु। "स्म इति पूरकः । तं शत्रुम् "ईम् एनम् "अधस्पदं पादयोरधस्ताद्वर्तमानं "कृधि कुरु। “यः शत्रुः अस्मानादिदेशति जिघांसति । समानमन्यत् ॥
 
 
अव॒ त्या बृ॑ह॒तीरिषो॑ वि॒श्वश्च॑न्द्रा अमित्रहन् ।
 
शची॑भिः शक्र धूनु॒हीन्द्र॒ विश्वा॑भिरू॒तिभि॑र्दे॒वी जनि॑त्र्यजीजनद्भ॒द्रा जनि॑त्र्यजीजनत् ॥
 
अव । त्याः । बृहतीः । इषः । विश्वऽचन्द्राः । अमित्रऽहन् ।
 
शचीभिः । शक्र । धूनुहि । इन्द्र । विश्वाभिः । ऊतिऽभिः ।। देवी । जनित्री । अजीजनत् । भद्रा । जनित्री । अजीजनत् ।। ३ ।।
 
हे "अमित्रहन् अमित्राणां शत्रूणां हन्तर्हे "शक "इन्द्र शचीभिः आत्मीयाभिः शक्तिभिः आत्मीयैः कर्मभिर्वा "त्याः ताः प्रसिद्धाः "बृहतीः महतीः । बृहन्महतोरुपसंख्यानम्' इति ङीप उदात्तत्वम् । “विश्वश्चन्द्राः । विश्वानि सर्वाणि चन्द्राणि हिरण्यानि यासां तादृशीः । 'ह्रस्वाञ्चन्द्रोत्तरपदे मन्त्रे' इति सुडागमः। बहुव्रीहौ विश्वं संज्ञायाम्' इति पूर्वपदान्तोदात्तत्वम् । एवंभूताः “इषः अन्नानि "विश्वाभिः सर्वाभिः “ऊतिभिः रक्षाभिः सार्धम् "अव “धूनुहि अस्मास्ववाड्मुखं कम्पय । अस्मदभिमुखं गमयेत्यर्थः । गतमन्यत् ॥
 
 
चातुर्विंशिकेऽहनि माध्यंदिनेऽच्छावाकस्य 'अव यत्त्वम्' इति तृचो वैकल्पिकोऽनुरूपः । सूत्रं तु सूक्तादावुदाहृतम् ।।
 
अव॒ यत्त्वं श॑तक्रत॒विन्द्र॒ विश्वा॑नि धूनु॒षे ।
 
र॒यिं न सु॑न्व॒ते सचा॑ सह॒स्रिणी॑भिरू॒तिभि॑र्दे॒वी जनि॑त्र्यजीजनद्भ॒द्रा जनि॑त्र्यजीजनत् ॥
 
अव । यत् । त्वम् । शतक्रतो इति शतऽक्रतो । इन्द्र । विश्वानि । धूनुषे ।।
 
रयिम् । न । सुन्वते । सचा । सहस्रिणीभिः । ऊतिऽभिः ।। देवी । जनित्री । अजीजनत् । भद्रा । जनित्री । अजीजनत् ।।४।।
 
हे "शतक्रतो बहुकर्मन् बहुप्रज्ञ वा "इन्द्र "सुन्वते सोमाभिषवं कुर्वते । सुनोतेर्लटः शतृ । 'हुश्नुवोः सार्वधातुके' इति यण् । ‘शतुरनुमः' इति विभक्तेरुदात्तत्वम् । ईदृशाय यजमानाय “यत् यदा "त्वं “विश्वानि व्याप्तान्यन्नानि धनानि वा “अव “धूनुषे अभिगमयसि ददासीत्यर्थः । तदा "रयिं “न रयिं च पुत्ररूपं धनं च "सहस्रिणीभिः सहस्रसंख्यायुक्ताभिः “ऊतिभिः रक्षाभिः “सचा सह प्रदेहि । गतमन्यत् ॥
 
 
अव॒ स्वेदा॑ इवा॒भितो॒ विष्व॑क्पतन्तु दि॒द्यवः॑ ।
 
दूर्वा॑या इव॒ तन्त॑वो॒ व्य१॒॑स्मदे॑तु दुर्म॒तिर्दे॒वी जनि॑त्र्यजीजनद्भ॒द्रा जनि॑त्र्यजीजनत् ॥
 
अव । स्वेदाःऽइव । अभितः । विष्वक् । पतन्तु । दिद्यवः ।
 
दूर्वायाःऽइव । तन्तवः । वि । अस्मत् । एतु । दुःऽमतिः । देवी । जनित्री । अजीजनत् । भद्रा । जनित्री । अजीजनत् ।। ५ ।।
 
“स्वेदाइव गात्रात् स्वेदबिन्दव इव “अभितः सर्वतः दिद्यवः द्योतमानान्यायुधानीन्द्रस्य दीप्तयो वा "विष्वक् नानामुखाः "अव “पतन्तु निपतन्तु । "दूर्वायाइव "तन्तवः । यथा दूर्वाकाण्डा बहुशः प्ररोहन्ति एवं बहुशो विस्तृता दृश्यन्ते। “दुर्मतिः दुष्टाभिसंधिः शत्रुः अस्मत् अस्मत्तः “वि “एतु वियुत्य गच्छतु । गतमन्यत् ॥
 
 
दी॒र्घं ह्य॑ङ्कु॒शं य॑था॒ शक्तिं॒ बिभ॑र्षि मन्तुमः ।
 
पूर्वे॑ण मघवन्प॒दाजो व॒यां यथा॑ यमो दे॒वी जनि॑त्र्यजीजनद्भ॒द्रा जनि॑त्र्यजीजनत् ॥
 
दीर्घम् । हि। अङ्कुशम् । यथा । शाक्तिम् । बिभर्षि । मन्तुऽमः ।
 
पूर्वेण । मघवन् । पदा। अजः । वयाम् । यथा । यमः ।।
 
देवी । जनित्री । अजीजनत् । भद्रा । जनित्री । अजीजनत् ॥ ६ ॥
 
"दीर्घम् आयतम् "अङ्कुशं सृणिं "यथा “बिभर्षि एवमायतां शक्तिं हे "मन्तुमः। मन्तुर्ज्ञानम्। तद्वन् ।' मतुवसो रुः' इति संबुद्धौ नकारस्य रुत्वम् । ईदृशेन्द्र “बिभर्षि धारयसि ।' डुभृञ् धारणपोषणयोः। जौहोत्यादिकः । श्लौ भृञामित्' इत्यभ्यासस्येत्वम् । हे "मघवन् धनवन्निन्द्र यथा “पूर्वेण देहस्य पूर्वभागे वर्तमानेन “पदा पदेन अजः छागः “वयाँ शाखामाकर्षति तथा पूर्वोक्तया शक्त्याकृष्य "यमः शत्रून् नियच्छसि । यमेर्लेट्यागमः। 'बहुलं छन्दसि” इति शपो लुक् । गतमन्यत् ॥
 
 
नकि॑र्देवा मिनीमसि॒ नकि॒रा यो॑पयामसि मन्त्र॒श्रुत्यं॑ चरामसि ।
 
प॒क्षेभि॑रपिक॒क्षेभि॒रत्रा॒भि सं र॑भामहे ॥
 
नकिः । देवाः । मिनीमसि । नकिः । आ । योपयामसि । मन्त्रऽश्रुत्यम् । चरामसि ।।
 
पक्षेभिः । अपिऽकक्षेभिः । अत्र । अभि । सम् । रभामहे ॥ ७ ॥
 
हे "देवाः इन्द्रादयः युष्मद्विषये "नकिः “मिनीमसि न किमपि हिंस्मः। मीङ् हिंसायाम् । क्रैयादिकः । मीनातेर्निगमे' इति ह्रस्वः । इदन्तो मसिः । आकारः समुच्चये। "नकिः न किंच “योपयामसि योपयामः। अननुष्ठानेन विमोहयामः । युप विमोहने । किं तर्हि । “मन्त्रश्रुत्यं मन्त्रेण स्मार्यं श्रुतौ विधिवाक्ये प्रतिपाद्यं युष्मद्विषयं कर्म तत् “चरामसि आचरामः । अनुतिष्ठामः। अपि च पक्षेभिः पक्षैः पक्षस्थानीयैः स्तुतशस्त्रैः “अपिकक्षेभिः । अपिकक्षो नाम बाह्वोर्मध्यभागः । यज्ञस्य अपिकक्षभूतैर्हविर्भिः “अत्र अस्मिन् यज्ञेऽभितः सर्वतो युष्मान् “सं “रभामहे सम्यगवलम्बामहे ॥ ॥ २२ ॥
 
}}
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.१३४" इत्यस्माद् प्रतिप्राप्तम्