"ऐतरेय ब्राह्मणम्/पञ्चिका १ (प्रथम पञ्चिका)" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः २६:
 
 
यस्तेजो ब्रह्मवर्चमिच्छेत्प्रयाजाहुतिभिः प्राङ् स इयात्तेजोवै ब्रह्मवर्चसं प्राची दिक्। तेजस्वी ब्रह्मवर्चसी भवति य एवं विद्वान्प्राङेति। यो ऽन्नाद्यमिच्छेत्प्रयाजाहुतिभिर्दक्षिणा स इयादन्नादो वा एषो ऽन्नपतिर्यदग्निः। अन्नादो ऽन्नपतिर्भवत्यश्नुते प्रजया ऽन्नाद्यं य एवं विद्वान्दक्षिणैति। यः पशूनिच्छेत्प्रयाजाहुतिभिः प्रत्यङ् स इयात्पशवो वा एते यदापः। पशुमान्भवति य एवं विद्वान्प्रत्यङ्ङेति। यः सोमपीथमिच्छेत्प्रयाजाहुतिभिरुदङ् स इयादुत्तरा ह वै सोमो राजा। प्र सोमपीथमाप्नोति य एवं विद्वानुदङ्ङेति। स्वर्ग्यैवोर्ध्वा दिक्सर्वासु दिक्सर्वासु दिक्षु राध्नोति। सम्यञ्चो वा इमे लोकाः सम्यञ्चो ऽस्मा इमे लोकाः श्रियै दीद्यति य एवं वेद। पथ्यां यजति यत्पथ्यां यजति वाचमेव तद्यज्ञमुखे संभरति। प्राणापानावग्नीषोमौ प्रसवाय सविता प्रतिष्ठित्या अदितिः। पथ्यामेव यजति यत्पथ्यामेव यजति वाचैव तद्यज्ञं पन्थामपि नयति। चक्षुषी एवाग्नीषोमौ प्रसवाय सविता प्रतिष्ठित्या अदितिः। चक्षुषा वै देवा यज्ञं प्राजानंश्चक्षुषा वा एतत्प्रज्ञायते यदप्रज्ञेयं तस्मादपि मुग्धश्चरित्वा यदैवानुष्ठ्या चक्षुषा प्रजानात्यथ प्रजानाति। यद्वै तद्देवा यज्ञं प्राजानन्नस्या वाव तत्प्राजानन्नस्यां समभरन्नस्यै वै यज्ञस्तायते ऽस्यै क्रियते ऽस्यै संभ्रियत इयं ह्यदितिस्यतदुत्तमामदितिंह्यदितिस्तदुत्तमामदितिं यजति यदुत्तमामदितिं यजति यज्ञस्य प्रज्ञात्यै स्वर्गस्य लोकस्यानुक्यात्यै॥1.8॥