"ऋग्वेदः सूक्तं १०.४" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ४८:
दूतः । देवानाम् । असि । मर्त्यानाम् । अन्तः । महान् । चरसि । रोचनेन ॥ २ ॥
 
हे "यविष्ठ युवतम अग्ने “यं “त्वा त्वां “जनासः जना यजमानाः फलप्राप्त्यर्थम् “अभि “संचरन्ति अभितः परिचरन्ति सेवन्ते। तत्र दृष्टान्तः । “गावः “उष्णमिव यथा गावः शीतार्ता • उष्णं शीतजनितदुःखापनोदनार्थमुष्णं “व्रजं गोष्ठमभिगच्छन्ति तद्वत्। स त्वं “देवानाम् इन्द्रादीनां “मर्त्यानां मनुष्याणां च “दूतः “असि हविष्प्रापणद्वारा। ततः “महान् त्वम् “अन्तः द्यावापृथिव्योर्मध्ये हवींष्यादाय “रोचनेन अन्तरिक्षेण लोकेन “चरसि गच्छसि । तं त्वां स्तुम इति शेषः ॥
 
 
पङ्क्तिः ५४:
 
धनो॒रधि॑ प्र॒वता॑ यासि॒ हर्य॒ञ्जिगी॑षसे प॒शुरि॒वाव॑सृष्टः ॥
 
शिशुम् । न । त्वा । जेन्यम् । वर्धयन्ती । माता । बिभर्ति । सचनस्यमाना।
 
धनोः । अधि । प्रऽवता । यासि । हर्यन् । जिगीषसे । पशुःऽइव । अवऽसृष्टः ॥ ३ ॥
 
हे अग्ने “जेन्यं जयशीलं “त्वा त्वां “शिशुं “न पुत्रमिव “वर्धयन्ती पोषयन्ती “माता पृथिवी "सचनस्यमाना संपर्कमिच्छन्ती सती “बिभर्ति धारयति । स त्वं “हर्यन् कामयमानः सन्नस्मिँल्लोके “धनोरधि । अधिः सप्तम्यर्थद्योतकः । अन्तरिक्षात् “प्रवता प्रवणेन मार्गेण “यासि यज्ञं प्रत्यागच्छसि । किंच त्वम् “अवसृष्टः यष्टृभिर्हविरादाय “जिगीषसे देवान् प्रति गन्तुमिच्छसि । कथमिव । “पशुरिव । यथा विमुक्तः पशुर्गोष्ठं प्रत्यागच्छति तद्वत् ॥
 
 
मू॒रा अ॑मूर॒ न व॒यं चि॑कित्वो महि॒त्वम॑ग्ने॒ त्वम॒ङ्ग वि॑त्से ।
 
शये॑ व॒व्रिश्चर॑ति जि॒ह्वया॒दन्रे॑रि॒ह्यते॑ युव॒तिं वि॒श्पति॒ः सन् ॥
 
मूराः । अमूर। न । वयम् । चिकित्वः । महिऽत्वम् । अग्ने । त्वम् । अङ्ग । वित्से ।
 
शये । वृव्रिः । चरति । जिह्वया । अदन् । रेरिह्यते । युवतिम् । विश्पतिः । सन् ॥ ४ ॥
 
हे “अमूर अमूढ अत एव “चिकित्वः चेतनवन् हे अग्ने “मूराः मूढाः “वयं तव माहात्म्यं “न जानीमः । किंतु हे अग्ने “त्वमङ्ग। अङ्गेति निपात एवार्थे । त्वमेव तव “महित्वं माहात्म्यं “वित्से जानासि । त्वत्तः कोऽन्यो वेदितुमर्हति । किंच “वव्रिः जीर्णः ओषधीसङ्गः “शये शेते। तिष्ठति । यद्वा । वव्रिरिति रूपनाम सामर्थ्याच्चान्तर्णीतमत्वर्थं द्रष्टव्यम्। अहवनीयाख्येन रूपेण रूपवान् शये चरति । अथ जिह्वया ज्वालाख्यया “अदन् हवींषि भक्षयन् “चरति । वाक्यभेदादनिघातः। किंच “विश्पतिः विशां स्वामी “सन् अग्निः “युवतिम् आत्मनो मिश्रयित्रीमाहुतिं दीर्घप्रसूतया ज्वालया जिह्वया “रेरिह्यते अत्यर्थं लेढि आस्वादयति ॥ ‘ लिह आस्वादने । यङि रूपम् । यद्वा । सोऽग्निर्युवतिं तरुणीं जीर्णौषधिकां पृथिवीमास्वादयति ॥
 
 
कूचि॑ज्जायते॒ सन॑यासु॒ नव्यो॒ वने॑ तस्थौ पलि॒तो धू॒मके॑तुः ।
 
अ॒स्ना॒तापो॑ वृष॒भो न प्र वे॑ति॒ सचे॑तसो॒ यं प्र॒णय॑न्त॒ मर्ताः॑ ॥
 
कूऽचित् । जायते । सनयासु । नव्यः । वने । तस्थौ । पलितः । धूमकेतुः ।
 
अस्नाता। आपः । वृषभः । न । प्र। वेति । सऽचेतसः। यम्। प्रऽनयन्त । मर्ताः ॥५॥
 
“नव्यः नवतरः स्तुत्यो वाग्निः “कूचित् क्वचित् प्रदेशे “जायते । कुत्र। “सनयासु पुराणीषु जीर्णास्वोषधीष्वरण्योः । तथा “पलितः पालयिता श्वेतवर्णः “धूमकेतुः धूमप्रज्ञानोऽग्निः वने सर्वस्मिन्नरण्ये “तस्थौ तिष्ठति । यद्वा । वन उदके मेघगते विद्युदात्मना तिष्ठति च । “अस्नाता स्नानमकुर्वन्ननपेक्षितस्नानः सर्वदा शुद्धः सोऽग्निः “आपः । सुब्व्यत्ययः । अप उदकानि शान्त्यर्थं “प्र “वेति प्रगच्छति । तत्र दृष्टान्तः । “वृषभो “न । यथा वृषभस्तृष्णोपशमनार्थमरण्यमध्यस्थान्युकानि प्रगच्छति तद्वत् । "मर्ताः मनुष्या ऋत्विजः सचेतसः समानमनस्काः समानप्रज्ञानाः सन्तः "यम् अग्निं “प्रणयन्त हविर्भिः प्रीणयन्ति ।
 
 
त॒नू॒त्यजे॑व॒ तस्क॑रा वन॒र्गू र॑श॒नाभि॑र्द॒शभि॑र॒भ्य॑धीताम् ।
 
इ॒यं ते॑ अग्ने॒ नव्य॑सी मनी॒षा यु॒क्ष्वा रथं॒ न शु॒चय॑द्भि॒रङ्गैः॑ ॥
 
तनूत्यजाऽइव । तस्करा। वनर्गू इति । रशनाभिः । दशऽभिः । अभि । अधीताम् ।
 
इयम् । ते। अग्ने । नव्यसी । मनीषा। युक्ष्व। रथम् । न । शुचयत्ऽभिः । अङ्गैः ॥ ६ ॥
 
हे अग्ने “वनर्गू वनगामिनौ “तनूत्यजा चौर्ये मर्तुं कृतनिश्चयौ धृष्टौ “तस्करा तस्करौ यथा पथिकं मोषणार्थं रज्ज्वा बद्ध्वाकृष्य च क्वचित् प्रदेशे स्थापयतः तद्वत् । तथा यास्कः----’ तनूत्यक् तनूत्यक्ता वनर्गू वनगामिनावग्निमन्थनौ बाहू तस्कराभ्यामुपमिमीते ' (निरु. ३. १४ ) इत्यादि । अधीताम् ॥ दधातेर्लुङि सिचो लुकि ‘ छन्दस्युभयथा ' इति तस आर्धधातुकत्वेन ङित्त्वात् ‘घुमास्था इतीकारः । ततो हे अग्ने “ते त्वदर्थं “नव्यसी नवतरा “इयं मनीषा स्तुतिर्मया क्रियते । एतज्ज्ञात्वा “शुचयद्भिः सर्वं प्रकाशयद्भिरात्मीयैः “अङ्गैः तेजोभिः आत्मानं मदीयं यज्ञं प्रति “युक्ष्व योजय । कथमिव । “रथं “न । यथा रथमश्वैः संयोजयन्ति तद्वत् ॥
उखासंभरणीयेष्टावग्नेर्ब्रह्मण्वतो याज्या ‘ ब्रह्म च ते ' इत्येषा । सूत्रितं च--- ब्रह्म च ते जातवेदो नमश्च पुरूण्यग्ने पुरुधा त्वाया' (आश्व. श्रौ. ४. १) इति ॥
 
 
ब्रह्म॑ च ते जातवेदो॒ नम॑श्चे॒यं च॒ गीः सद॒मिद्वर्ध॑नी भूत् ।
 
रक्षा॑ णो अग्ने॒ तन॑यानि तो॒का रक्षो॒त न॑स्त॒न्वो॒३॒॑ अप्र॑युच्छन् ॥
 
ब्रह्म । च । ते । जातऽवेदः । नमः । च । इयम् । च । गीः । सदम् । इत् । वर्धनी । भूत् ।
 
रक्ष । नः । अग्ने । तनयानि । तोका । रक्ष । उत । नः । तन्वः । अप्रऽयुच्छन् ।। ७ ।।
 
हे “जातवेदः जातप्रज्ञाग्ने “ते त्वदर्थं “ब्रह्म अस्माभिर्दीयमानं हवीरूपमन्नं “वर्धनी वर्धनं "भूत् भवतु । तथा “नमः नमस्कारश्च । किंच “इयम् इदानीं क्रियमाणैषा स्तुतिः सदमित् सदैव “वर्धनी वर्धयित्री “भूत् भवतु । तस्माद्धे “अग्ने “नः अस्माकं “तनयानि पुत्रान् “तोका पौत्रांश्च “रक्ष पालय । "उत अपि च “अप्रयुछन् अप्रमाद्यंस्त्वं नः अस्माकं तन्वः अङ्गानि “रक्ष ॥ ॥ ३२ ॥
 
 
}}
</poem>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.४" इत्यस्माद् प्रतिप्राप्तम्