"ऋग्वेदः सूक्तं १.१०५" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १७०:
सुऽपर्णाः । एते । आसते । मध्ये । आऽरोधने । दिवः ।
 
ते । सेधन्ति । पथः । वृकम् । तरन्तम् । यह्वती । अपः । वित्तम् । मे। अस्य । रोदसी इति ॥१३॥॥११॥
 
"सुपर्णाः । रश्मिनामैतत् । शोभनपतनाः "एते सूर्यरश्मयः "आरोधने सर्वस्यावरके व्याप्ते “दिवः अन्तरिक्षस्य "मध्ये "आसते वर्तन्ते । "ते सूर्यरश्मयः पथः मार्गात् "वृकम् अरण्यश्वानं “सेधन्ति निषेधन्ति निवारयन्ति । कीदृशम् । "यह्वतीः महतीः "अपः तरन्तम् अतिक्रामन्तम् । कूपपतनात्पूर्वं त्रितं दृष्टा एनं भक्षयितुं कश्चिदरण्यश्वा महतीं नदीं तितीर्षुः आजगाम । स च सूर्यरश्मीन् दृष्ट्वा अयमवसरो न भवतीति निववृते । अतो रश्मयो वृकं निषेधन्तीत्युच्यते । यास्कपक्षे तु आप इत्यन्तरिक्षनाम। यह्वतीरपो महदन्तरिक्षं पथः पथा द्वादशराश्यात्मना मार्गेण तरन्तं वृकं चन्द्रमसं सूर्यरश्मयो निषेधन्ति । अहनि हि सूर्यरश्मिभिः निरुद्धश्चन्द्रमा निष्प्रभो दृश्यते । अतो निष्प्रभं कुर्वन्तीत्यर्थः ॥ आरोधने। आरुध्यते आव्रियतेऽनेनेति आरोधनम् । करणे ल्युट्। सेधन्ति । ‘षिधु गत्याम्'। अयं केवलोऽपि निपूर्वार्थे द्रष्टव्यः । पथः । पञ्चम्येकवचने • भस्य टेर्लोपः' इति टिलोपः । उदात्तनिवृत्तिस्वरेण विभक्तेरुदात्तत्वम् । यास्कपक्षे तु तृतीयार्थे व्यत्ययेन पञ्चमी । यह्वतीः । यह्व इति महन्नाम । अस्मादाचारार्थे ‘ सर्वप्रातिपदिकेभ्यः''(पा. म. ३. १. ११. ३) इति क्विप् । ततो लटः शतृ ।' उगितश्च' इति ङीप् । आगमानुशासनस्यानित्यत्वात नुमभावः । ‘शतुरनुमः' इति नदीस्वरो व्यत्ययेन न प्रवर्तते ॥
 
 
Line १७७ ⟶ १७८:
 
ऋ॒तम॑र्षन्ति॒ सिन्ध॑वः स॒त्यं ता॑तान॒ सूर्यो॑ वि॒त्तं मे॑ अ॒स्य रो॑दसी ॥
 
नव्यम् । तत् । उक्थ्यम् । हितम् । देवासः । सुऽप्रवाचनम् ।
 
ऋतम् । अर्षन्ति । सिन्धवः । सत्यम् । ततान । सूर्यः । वित्तम् । मे। अस्य । रोदसी इति ॥१२॥
 
हे "देवासः देवाः "नव्यं नवतरम् "उक्थ्यं प्रशस्यं स्तुत्यर्हं "सुप्रवाचनं सुष्ठु ऋत्विग्भिर्वाचयितुं शक्यम् एवंभूतं “तत् भवदीयं बलं “हितं युष्मासु निहितम् । अतो युष्मदीयेन बलेन “सिन्धवः स्यन्दनशीला नद्यः “ऋतम् उदकम् "अर्षन्ति आलस्यराहित्येन सर्वदा प्रेरयन्ति । अशोष्याः सत्यः प्रवहन्तीत्यर्थः । तथा "सूर्यः "सत्यं सर्वदा विद्यमानं स्वकीयं तेजः "ततान आतनोति विस्तारयति । अन्यत् समानम् ॥ सुप्रवाचनम् । वच परिभाषणे ' । अस्मात् ण्यन्तात् 'अन्येभ्योऽपि दृश्यते 'इति स्वलर्थे युच् । अर्षन्ति । अतेर्लेटि • सिब्बहुलं लेटि' इति सिप् । गुणः । ततान । ‘अन्येषामपि दृश्यते' इति संहितायामभ्यासस्य दीर्घत्वम् ॥
अग्ने तव त्यदुक्थ्य देवेष्वस्त्याप्यम् । स नः सुत्तो मनुष्वदा देवान्यक्षि विदुष्टरो वित्तं मै अस्य रोदसी ॥ १३ ॥
 
 
 
Line १८२ ⟶ १९१:
 
स नः॑ स॒त्तो म॑नु॒ष्वदा दे॒वान्य॑क्षि वि॒दुष्ट॑रो वि॒त्तं मे॑ अ॒स्य रो॑दसी ॥
 
अग्ने । तव । त्यत् । उक्थ्यम् । देवेषु । अस्ति । आप्यम् ।
 
सः । नः । सत्तः । मनुष्वत् । आ । देवान् । यक्षि । विदुःऽतरः । वित्तम् । मे । अस्य । रोदसी इति ॥ १३ ॥
 
 
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.१०५" इत्यस्माद् प्रतिप्राप्तम्