"ऋग्वेदः सूक्तं १.१०५" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १८४:
 
हे "देवासः देवाः "नव्यं नवतरम् "उक्थ्यं प्रशस्यं स्तुत्यर्हं "सुप्रवाचनं सुष्ठु ऋत्विग्भिर्वाचयितुं शक्यम् एवंभूतं “तत् भवदीयं बलं “हितं युष्मासु निहितम् । अतो युष्मदीयेन बलेन “सिन्धवः स्यन्दनशीला नद्यः “ऋतम् उदकम् "अर्षन्ति आलस्यराहित्येन सर्वदा प्रेरयन्ति । अशोष्याः सत्यः प्रवहन्तीत्यर्थः । तथा "सूर्यः "सत्यं सर्वदा विद्यमानं स्वकीयं तेजः "ततान आतनोति विस्तारयति । अन्यत् समानम् ॥ सुप्रवाचनम् । वच परिभाषणे ' । अस्मात् ण्यन्तात् 'अन्येभ्योऽपि दृश्यते 'इति स्वलर्थे युच् । अर्षन्ति । अतेर्लेटि • सिब्बहुलं लेटि' इति सिप् । गुणः । ततान । ‘अन्येषामपि दृश्यते' इति संहितायामभ्यासस्य दीर्घत्वम् ॥
अग्ने तव त्यदुक्थ्य देवेष्वस्त्याप्यम् । स नः सुत्तो मनुष्वदा देवान्यक्षि विदुष्टरो वित्तं मै अस्य रोदसी ॥ १३१२
 
 
 
Line १९५ ⟶ १९४:
 
सः । नः । सत्तः । मनुष्वत् । आ । देवान् । यक्षि । विदुःऽतरः । वित्तम् । मे । अस्य । रोदसी इति ॥ १३ ॥
 
हे अग्ने तव “उक्थ्यं प्रशस्यं “त्यत् श्रुतिप्रसिद्धम्' "आप्यम् । आपिर्बन्धुः । तस्य भावः । बान्धवं “देवेषु दानादिगुणयुक्तेष्विन्द्रादिषु "अन्ति विद्यते । तस्मात् “सः तादृशः “विदुष्टरः विद्वत्तरस्त्वं "नः अस्माकं यज्ञे सत्तः निषण्णः सन् 'देवान् तानिन्द्रादीन् “आ शास्त्रमर्यादया “यक्षि यज हविर्भिः पूजय । तत्र दृष्टान्तः । “मनुष्वत् । यथा मनूनां यज्ञे तद्वत् । अन्यत् पूर्ववत् ॥ आप्यम् । ‘ आप्लृ व्याप्तौ ' । अस्मात् ण्यन्तात् ' अच इः' इति इप्रत्ययः । ब्राह्मणादित्वात् ष्यन् । सत्तः । 'नसत्तनिषत्त' (पा. सू. ८. २. ६१ ) इति निपातनात् निष्ठानत्वाभावः । छान्दसो निशब्दलोपो द्रष्टव्यः । मनुष्वत् । मनेरौणादिक उसिप्रत्ययः । तत्र तस्येव' ( पा सू. ५. १. ११६) इति षष्ठ्यर्थे वतिः । ‘ नभोऽङ्गिरोमनुषां वत्युपसंख्यानम् ' (पा. सू. १. ४. १८. ३) इति भत्वेन पदत्वाभावात् रुत्वाद्यभावः । यक्षि । 'बहुलं छन्दसि ' इति शपो लुक् । व्रश्चादिपत्वे कुत्वषत्वे । विदुष्टरः । विद्वस्शब्दात् तरपि अयस्मयादिवेन भत्वात् ' वसोः संप्रसारणम्' इति संप्रसारणम् । ‘शासिवसिघसीनां च' इति षण्वम् ॥
 
 
Line २०० ⟶ २०१:
 
अ॒ग्निर्ह॒व्या सु॑षूदति दे॒वो दे॒वेषु॒ मेधि॑रो वि॒त्तं मे॑ अ॒स्य रो॑दसी ॥
 
सत्तः । होता । मनुष्वत् । आ । देवान् । अच्छ । विदुःऽतरः ।
 
अग्निः । हव्या । सुसूदति । देवः । देवेषु । मेधिरः । वित्तम् । मे। अस्य । रोदसी इति ॥ १४ ॥
 
"मनुष्वत् मनोरिवास्माकं यज्ञे "सत्तः निषण्णः “होता देवानामाह्वाता “विदुष्टरः विद्वत्तरः “देवः दानादिगुणयुक्तः "देवेषु सर्वेष्विन्द्रादिषु मध्ये "मेधिरः मेधावी एवंभूतः "अग्निः तान् "देवान् "अच्छ आभिमुख्येन “हव्या हव्यानि अस्मदीयानि हवींषि । मर्यादायामाकारः । शास्त्रमर्यादया यथाशास्त्रं “सुषूदति प्रेरयतु । अन्यत् समानम् ॥ सुषूदति । ‘षूद क्षरणे' । लेटि अडागमः । ‘ बहुलं छन्दसि ' इति शपः श्लुः । मेधिरः । मेधारथाभ्यामिरनिरची वक्तव्यौ ' ( पा. सू. ५. २. १०९. ३ ) इति मत्वर्थीय इरन् ।
 
 
Line २०५ ⟶ २१२:
 
व्यू॑र्णोति हृ॒दा म॒तिं नव्यो॑ जायतामृ॒तं वि॒त्तं मे॑ अ॒स्य रो॑दसी ॥
 
ब्रह्म । कृणोति । वरुणः । गातुऽविदम् । तम् । ईमहे ।
 
वि । ऊर्णोति । हृदा । मतिम् । नव्यः । जायताम् । ऋतम् । वित्तम् । मे । अस्य । रोदसी इति ॥ १५ ॥
 
यः “वरुणः अनिष्टस्य निवारयिता देवः "ब्रह्म परिवृढं तद्रक्षणरूपं कर्म "कृणोति करोति "तं तादृशं "गातुविदं गातोर्मार्गस्य दुःखनिवारकस्य लम्भयितारं वरुणम् “ईमहे अभिमतफलं याचामहे । ईमहे इति याञ्चाकर्मा। तस्मै वरुणाय अयमस्मदीयः स्तोता हृदा हृदयेन “मतिं मननीयां स्तुतिं व्यूर्णोति विवृणोति प्रकाशयति उच्चारयतीत्यर्थः। सोऽयं "नव्यः स्तुत्यो वरुणोऽस्माकम् “ऋतं “जायतां सत्यभूतोऽस्तु ॥ ब्रह्म। ‘ अन्येषामपि दृश्यते ' इति सांहितिको दीर्घः । गातुविदम् ।' विद्लृ लाभे'। अन्तर्भावितण्यर्थात् क्विप् । ईमहे ।' ईङ् गतौ '।' बहुलं छन्दसि ' इति विकरणस्य लुक् । हृदा । ‘पदन्' इत्यादिना हृदयशब्दस्य हृदादेशः ॥ ॥ २२ ॥
 
 
 
Line २१० ⟶ २२४:
 
न स दे॑वा अति॒क्रमे॒ तं म॑र्तासो॒ न प॑श्यथ वि॒त्तं मे॑ अ॒स्य रो॑दसी ॥
 
असौ । यः । पन्थाः । आदित्यः । दिवि । प्रऽवाच्यम् । कृतः ।।
 
न । सः । देवाः । अतिऽक्रमे । तम् । मर्तासः । न । पश्यथ । वित्तम् । मे । अस्य । रोदसी इति ॥ १६ ॥
 
“पन्थाः सततगामी । यद्वा । ब्रह्मलोकं गच्छतामुपासकानां मार्गभूतः । सूर्यद्वारेण ते विरजाः प्रयान्ति' (मु. उ. १. २. ११ ) इति श्रुतेः । एवंभूतः “यः “असौ "आदित्यः दिवि द्युलोके "प्रवाच्यं प्रकर्षण वचनं यथा भवति तथा “कृतः निर्मितः । यथा सर्वैः प्राणिभिर्दृश्यते तथा वर्तमानः इत्यर्थः । हे देवाः सः अयमादित्यो युष्माभिरपि “न ”अतिक्रमे अतिक्रमितुं न शक्यः । युष्मज्जीवनस्य तदायत्तत्वात् । सति हि सूर्ये वसन्तादयः काला निष्पद्यन्ते । कालेषु च यागाः क्रियन्ते । यागेषु च सत्सु भवतां जीवनम् । अतो युष्माभिरप्यसौ नातिक्रमितव्यः । एवं च सति हे मर्तासः पापकृतो मनुष्याः तं महानुभावं सूर्यं “न “पश्यथ सूर्यं न जानीथ। एतच्च कूपे पातयित्वा निर्गतौ एकतद्वितौ प्रति निन्दनम् । अहमेव मन्त्रद्रष्टा तं सूर्यं जानामि पापकृतौ युवां न जानीथः इति । पन्थाः ।' पत्लृ गतौ'। 'पतेस्थ च' इति इनिप्रत्ययः । “पथिमथ्यृभुक्षामात्' इति आत्वम् । ‘इतोऽत्सर्वनामस्थाने' (पा. सू. ७. १.८६) इति अत्वम् इकारस्य ।' थो न्यः' (पा. सू. ७. १. ८७)। 'पथिमथोः सर्वनामस्थाने' इत्याद्युदातत्वम्। प्रवाच्यम् । वक्तेर्ण्यन्तात् ‘अचो यत्' इति भावे यत् ।' यतोऽनावः' इत्याद्युदात्तत्वम् । अतिक्रमे । ‘ क्रमु पदविक्षेपे '। ‘कृत्यार्थं तवैकेन्' इति केन्प्रत्ययः । नित्त्वादाद्युदात्तत्वम् ।।
 
 
Line २१५ ⟶ २३५:
 
तच्छु॑श्राव॒ बृह॒स्पतिः॑ कृ॒ण्वन्नं॑हूर॒णादु॒रु वि॒त्तं मे॑ अ॒स्य रो॑दसी ॥
 
त्रितः । कूपे । अवऽहितः । देवान् । हवते । ऊतये ।
 
तत् । शुश्राव। बृहस्पतिः। कृण्वन् । अंहूरणात् । उरु। वित्तम् । मे। अस्य । रोदसी इति ॥१७॥
 
 
 
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.१०५" इत्यस्माद् प्रतिप्राप्तम्