"ऋग्वेदः सूक्तं १.१०५" इत्यस्य संस्करणे भेदः
Content deleted Content added
No edit summary |
No edit summary |
||
पङ्क्तिः १७२:
ते । सेधन्ति । पथः । वृकम् । तरन्तम् । यह्वती । अपः । वित्तम् । मे। अस्य । रोदसी इति ॥११॥
"सुपर्णाः । रश्मिनामैतत् । शोभनपतनाः "एते सूर्यरश्मयः "आरोधने सर्वस्यावरके व्याप्ते “दिवः अन्तरिक्षस्य "मध्ये "आसते वर्तन्ते । "ते सूर्यरश्मयः पथः मार्गात् "वृकम् अरण्यश्वानं “सेधन्ति निषेधन्ति निवारयन्ति । कीदृशम् । "यह्वतीः महतीः "अपः तरन्तम् अतिक्रामन्तम् । कूपपतनात्पूर्वं त्रितं दृष्टा एनं भक्षयितुं कश्चिदरण्यश्वा महतीं नदीं तितीर्षुः आजगाम । स च सूर्यरश्मीन् दृष्ट्वा अयमवसरो न भवतीति निववृते । अतो रश्मयो वृकं निषेधन्तीत्युच्यते । यास्कपक्षे तु आप इत्यन्तरिक्षनाम। यह्वतीरपो महदन्तरिक्षं पथः पथा द्वादशराश्यात्मना मार्गेण तरन्तं वृकं चन्द्रमसं सूर्यरश्मयो निषेधन्ति । अहनि हि सूर्यरश्मिभिः निरुद्धश्चन्द्रमा निष्प्रभो दृश्यते । अतो निष्प्रभं कुर्वन्तीत्यर्थः ॥ आरोधने। आरुध्यते आव्रियतेऽनेनेति आरोधनम् । करणे ल्युट्। सेधन्ति । ‘षिधु गत्याम्'। अयं केवलोऽपि निपूर्वार्थे द्रष्टव्यः । पथः । पञ्चम्येकवचने • भस्य टेर्लोपः' इति टिलोपः । उदात्तनिवृत्तिस्वरेण विभक्तेरुदात्तत्वम् । यास्कपक्षे तु तृतीयार्थे व्यत्ययेन पञ्चमी । यह्वतीः । यह्व इति महन्नाम । अस्मादाचारार्थे ‘
|