"ऋग्वेदः सूक्तं १०.१५१" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः २५:
 
{{सायणभाष्यम्|
श्रद्धया' इति पञ्चर्चं त्रयोविंशं सुकसूक्तमानुष्टुभं श्रद्धादेवत्यम्। कामगोत्रजा श्रद्धा नामर्षिका । तथा चानुक्रम्यते—श्रद्धया श्रद्धा कामायनी श्राद्धमानुष्टुभं तु ' इति । लैङ्गिको विनियोगः ॥
 
 
श्र॒द्धया॒ग्निः समि॑ध्यते श्र॒द्धया॑ हूयते ह॒विः ।
 
श्र॒द्धां भग॑स्य मू॒र्धनि॒ वच॒सा वे॑दयामसि ॥
 
श्रद्धया। अग्निः । सम् । इध्यते । श्रद्धया । हूयते । हविः ।।
 
श्रद्धाम् । भगस्य । मूर्धनि । वचसा । आ । वेदयामसि ।। १ ।।
 
पुरुषगतोऽभिलाषविशेषः श्रद्धा । तथा “श्रद्धया “अग्निः गार्हपत्यादिः “समिध्यते संदीप्यते । यदा हि पुरुषे श्रद्धाग्निगोचर आदरातिशयो जायते तदैष पुरुषोऽग्नीन् प्रज्वालयति नान्यदा । “श्रद्धया एव हविः पुरोडाशादिहविश्च “हूयते । आहवनीये प्रक्षिप्यते । यद्वा । अस्य सूक्तस्य द्रष्ट्या श्रद्धाख्ययाग्निः समिध्यते । “श्रद्धाम् उक्तलक्षणायाः श्रद्धाया अभिमानिदेवता “भगस्य भजनीयस्य धनस्य “मूर्धनि प्रधानभूते स्थानेऽवस्थितां “वचसा वचनेन स्तोत्रेण आ “वेदयामसि अभितः प्रख्यापयामः । इदन्तो मसिः ॥
 
 
प्रि॒यं श्र॑द्धे॒ दद॑तः प्रि॒यं श्र॑द्धे॒ दिदा॑सतः ।
 
प्रि॒यं भो॒जेषु॒ यज्व॑स्वि॒दं म॑ उदि॒तं कृ॑धि ॥
 
प्रियम् । श्रद्धे। ददतः । प्रियम् । श्रद्धे । दिदासतः ।।
 
प्रियम् । भोजेषु । यज्वऽसु । इदम् । मे। उदितम् । कृधि ।। २ ।।
 
हे “श्रद्धे “ददतः चरुपुरोडाशादीनि प्रयच्छतो यजमानस्य “प्रियम् अभीष्टफलं कुरु । “दिदासतः दातुमिच्छतश्च हे “श्रद्धे "प्रियं कुरु । “मे मम संबन्धिषु “भोजेषु भोक्तृषु भोगार्थिषु “यज्वसु कृतयज्ञेषु जनेषु च “इदम् “उदितम् उक्तं “प्रियं “कृधि कुरु ।
 
 
यथा॑ दे॒वा असु॑रेषु श्र॒द्धामु॒ग्रेषु॑ चक्रि॒रे ।
 
ए॒वं भो॒जेषु॒ यज्व॑स्व॒स्माक॑मुदि॒तं कृ॑धि ॥
 
यथा । देवाः । असुरेषु । श्रद्धाम् । उग्रेषु । चक्रिरे ।।
 
एवम् । भोजेषु । यज्वऽसु । अस्माकम् । उदितम् । कृधि ॥ ३ ॥
 
“देवाः इन्द्रादयः असुरेषु उद्गूर्णबलेषु “यथा “श्रद्धां “चक्रिरे अवश्यमिमे हन्तव्या इत्यादरातिशयं कृतवन्तः “एवं श्रद्धावत्सु "भोजेषु भोक्तृषु भोगार्थिषु “यज्वसु यष्टृषु “अस्माकम् अस्मत्संबन्धिषु तेषु “उदितं तैरुक्तं प्रार्थितं फलजातं कृधि कुरु ॥
 
 
श्र॒द्धां दे॒वा यज॑माना वा॒युगो॑पा॒ उपा॑सते ।
 
श्र॒द्धां हृ॑द॒य्य१॒॑याकू॑त्या श्र॒द्धया॑ विन्दते॒ वसु॑ ॥
 
श्रद्धाम् । देवाः । यजमानाः । वायुऽगोपाः । उप । आसते ।।
 
श्रद्धाम् । हृदय्यया । आऽकूत्या । श्रद्धया । विन्दते । वसु ।। ४ ।।
 
“देवा “यजमाना मनुष्याश्च “वायुगोपाः वायुर्गोपा रक्षिता येषां ते तादृशाः सन्तः “श्रद्धां देवीम् “उपासते प्रार्थयन्ते । हृदय्यया । हृदये भवा हृदय्या। तथाविधया “आकूत्या संकल्परूपया क्रियया “श्रद्धाम् एव परिचरन्ति सर्वे जनाः । कुत इत्यत आह । यतः कारणात् “श्रद्धया हेतुभूतया “वसु धनं “विन्दते लभते श्रद्धावाञ्जनः । तत इत्यर्थः ।।
 
 
श्र॒द्धां प्रा॒तर्ह॑वामहे श्र॒द्धां म॒ध्यंदि॑नं॒ परि॑ ।
Line ४५ ⟶ ७६:
श्र॒द्धां सूर्य॑स्य नि॒म्रुचि॒ श्रद्धे॒ श्रद्धा॑पये॒ह नः॑ ॥
 
श्रद्धाम् । प्रातः । हवामहे । श्रद्धाम् । मध्यंदिनम् । परि ।।
 
श्रद्धाम् । सूर्यस्य । निऽम्रुचि । श्रद्धे । श्रत् । धापय । इह । नः ॥ ५ ॥
 
“श्रद्धां देवीं प्रातः पूर्वाह्ने हवामहे । तथा “मध्यंदिनं परि । लक्षणे परेः कर्मप्रवचनीयत्वम् । मध्यंदिनं परिलक्ष्य । मध्यंदिन इत्यर्थः । मध्याह्नेऽपि तां “श्रद्धां आह्वयामहे । “सूर्यस्य सर्वस्य प्रेरकस्यादित्यस्य “निम्रुचि अस्तमयवेलायां सायं समयेऽपि तामेव “श्रद्धाम् आह्वयामहे । ईदृग्रूपे हे “श्रद्धे “नः
अस्मान् इह लोके कर्मणि “श्रद्धापय श्रद्धावतः कुरु ॥ ॥९॥ ॥११॥
 
}}
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.१५१" इत्यस्माद् प्रतिप्राप्तम्