"ऋग्वेदः सूक्तं ५.४१" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ९२:
 
पू॒षा भगः॑ प्रभृ॒थे वि॒श्वभो॑जा आ॒जिं न ज॑ग्मुरा॒श्व॑श्वतमाः ॥
 
प्र । सक्षणः । दिव्यः । कण्वऽहोता । त्रितः । दिवः । सऽजोषाः । वातः । अग्निः ।
 
पूषा। भगः । प्रऽभृथे । विश्वऽभोजाः । आजिम् । न । जग्मुः । आश्वश्वऽतमाः ।। ४ ।।
अत्र लिङ्गोक्तदेवता: । प्र जग्मुरिति संबन्धः। "सक्षणः यज्ञं सेवमानः शत्रूणां सोढा वा "दिव्यः दिवि भवः "कण्वहोता । कण्वा ऋषयो मेधाविनो वा होतार आह्वातारो यस्य स तथोक्तः । “त्रितः त्रिषु क्षित्यादिस्थानेषु तायमानः “दिवः सूर्येण सह "सजोषाः समानगतिः समानप्रीतिर्वा "वातः उक्तलक्षणकः वायुः "अग्निः "पूषा पोषक एतन्नामा "भगः च “प्रभृथे प्रभरणवत्यस्मिन्यज्ञे उक्ताः सर्वदेवाः "विश्वभोजाः विश्वरक्षकाः कृत्स्नात्तारो वा “आश्वश्वतमाः प्रकृष्टगमनाश्ववतां श्रेष्ठाः सन्तः “आजिं "न संग्राममिव “प्र “जग्मुः प्रगच्छन्ति ।
 
 
प्र वो॑ र॒यिं यु॒क्ताश्वं॑ भरध्वं रा॒य एषेऽव॑से दधीत॒ धीः ।
 
सु॒शेव॒ एवै॑रौशि॒जस्य॒ होता॒ ये व॒ एवा॑ मरुतस्तु॒राणा॑म् ॥
 
प्र। वः । रयिम् । युक्तऽअश्वम् । भरध्वम् । रायः । एषे । अवसे । दधीत । धीः ।।
 
सुऽशेवः । एवैः । औशिजस्य । होता । ये । वः । एवाः । मरुतः । तुराणाम् ॥ ५॥
 
हे मरुतः वः यूयं "रयिं धनं "युक्ताश्वम् अश्वसहितमश्वयोग्यं पुत्रं वा “प्र “भरध्वं संपादयत । “रायः धनानि गवाश्वादिलक्षणानि “एषे प्राप्तुम् "अवसे । अव इत्यन्ननाम । अन्नाय प्राप्तानां धनानां रक्षणाय वा “धीः स्तोता "दधीत धारयति स्तुतिम् । स च "औशिजस्य कक्षीवतः "होता अत्रिः “एवैः गन्तव्यैः कामैर्गमनसाधनैरश्वैर्वा "सुशेवः । शेवमिति सुखनाम । सुसुखो भवतु । हे "मरुतः “तुराणां त्वरमाणानां "वः युष्माकं "ये “एवाः कामा अश्वा वा सन्ति तैरिति ॥ ॥ १३ ॥
 
 
‘प्र वो वायुम्' इति षष्ठी वायव्ये पशौ हविषो याज्या । ‘प्र वो वायुं रथयुजं कृणुध्वमुत त्वामदिते महि' ( आश्व. श्रौ. ३. ८) इति सूत्रितम् ॥
 
 
प्र वो॑ वा॒युं र॑थ॒युजं॑ कृणुध्वं॒ प्र दे॒वं विप्रं॑ पनि॒तार॑म॒र्कैः ।
 
इ॒षु॒ध्यव॑ ऋत॒साप॒ः पुरं॑धी॒र्वस्वी॑र्नो॒ अत्र॒ पत्नी॒रा धि॒ये धुः॑ ॥
 
प्र । वः । वायुम् । रथऽयुजम् । कृणुध्वम् । प्र । देवम् । विप्रम् । पनितारम् । अर्कैः ।।
 
इषुध्यवः । ऋतऽसापः । पुरम्ऽधीः । वस्वीः । नः । अत्र । पत्नीः। आ । धिये । धुरिति धुः ॥ ६ ॥
 
हे मदीया ऋत्विजः “वः यूयं “वायुं देवं “रथयुजं यज्ञगमनाय रथसंबद्धं “कृणुध्वं कुरुध्वम् । “प्र “देवं द्योतमानं “विप्रं विशेषेण कामानां पूरकं विप्रवत्पूज्यं वा “पनितारम् ॥ कर्मणि कर्तृप्रत्ययः ॥ स्तुत्यमित्यर्थः । फलप्रदातारं वा “अर्कैः अर्चनसाधनैर्मन्त्रैः “प्र कृणुध्वं स्तुत । किंच “इषुध्यवः गन्त्र्यः “ऋतसापः यज्ञस्पृशः “पुरंधीः पुरंध्यः स्त्रीरूपाः रूपवत्यो वा “वस्वीः प्रशंस्याः “पत्नीः देवपत्न्यः “अत्र अस्मिन् यज्ञे "नः अस्मदीयाय “धिये कर्मणे तन्निष्पत्तये “आ “धुः आगतवत्यः ।।
 
 
उप॑ व॒ एषे॒ वन्द्ये॑भिः शू॒षैः प्र य॒ह्वी दि॒वश्चि॒तय॑द्भिर॒र्कैः ।
 
उ॒षासा॒नक्ता॑ वि॒दुषी॑व॒ विश्व॒मा हा॑ वहतो॒ मर्त्या॑य य॒ज्ञम् ॥
 
उप । वः । एषे । वन्द्येभिः । शूषैः । प्र। यह्वी इति । दिवः । चितयत्ऽभिः । अर्कैः ।
 
उषसानक्ता । विदुषी इवेति विदुषीऽइव । विश्वम् । आ । ह। वहतः । मर्त्याय। यज्ञम् ॥७॥
 
हे "उषासानक्ता अहोरात्राभिमानिदेवते “यह्वी महत्यौ “वन्द्येभिः वन्दनार्हैरितरैर्देवैः सह “दिवः अन्तरिक्षादविशेषेण सर्वप्रदेशात् "वः युष्मभ्यम् “उप “प्र “एषे उपप्रापयामि हविः । ईषिः प्रापणकर्मा स्यादुपप्राभिः समन्वितः । “शूषैः सुखकरैः “चितयद्भिः ज्ञापयद्भिः "अर्कैः मन्त्रैः सहोपप्रापयामि । हे उक्तदेवते “विश्वं सर्वं कर्तव्यजातं “विदुषीइव जानत्याविव "मर्त्याय यजमानाय "यज्ञम् "आ “वहतः अभिमुखं प्रापयतः । हेति पूरणः । यद्वा । शूषैरित्यादीनि तृतीयाबहुवचनान्तानि वन्द्येभिरित्यस्य विशेषणानीति केचिदाहुः ॥
 
 
अ॒भि वो॑ अर्चे पो॒ष्याव॑तो॒ नॄन्वास्तो॒ष्पतिं॒ त्वष्टा॑रं॒ ररा॑णः ।
 
धन्या॑ स॒जोषा॑ धि॒षणा॒ नमो॑भि॒र्वन॒स्पतीँ॒रोष॑धी रा॒य एषे॑ ॥
 
अभि । वः । अर्चे । पोष्याऽव॑तः । नॄन् । वास्तोः । पतिम् । त्वष्टारम् । रराणः ।
 
धन्य । सऽजोषाः । धिषणा । नमःऽभिः । वनस्पतीन् । ओषधीः । रायः । एषे ॥ ८॥
 
अहं "पोष्यावतः बहुपोष्यजनयुक्तान् "नॄन् कर्मनेतॄन् “वः युष्मान् “अभि "अर्चे अभिपूजयामि स्तौमीत्यर्थः । के पुनस्ते यूयम् । उच्यते । "वास्तोष्पतिं “त्वष्टारं “रराणः स्तोत्रादिभिः क्रीडन् हविर्ददद्वा अहम् । “धन्या धनकरी "सजोषाः इतरदेवैः सह गच्छन्ती प्रीणयन्ती वा “धिषणा । वाङ्नामैतत् । वाग्देवता ॥ एता द्वितीयार्थे प्रथमाः ॥ उक्तलक्षणां वाणीं “वनस्पतीन् ओषधीः च “नमोभिः सह अर्चे इति संबन्धः । किमर्थम् । “राय “एषे धनानि प्राप्तुम् ॥
 
 
तु॒जे न॒स्तने॒ पर्व॑ताः सन्तु॒ स्वैत॑वो॒ ये वस॑वो॒ न वी॒राः ।
 
प॒नि॒त आ॒प्त्यो य॑ज॒तः सदा॑ नो॒ वर्धा॑न्न॒ः शंसं॒ नर्यो॑ अ॒भिष्टौ॑ ॥
 
तुजे । नः । तने । पर्वताः । सन्तु । स्वऽएतवः । ये । वसवः । न । वीराः ।
 
पनितः । आप्त्यः । यजतः । सदा । नः । वर्धात् । नः । शंसम् । नर्यः । अभिष्टौ ।।९।।
 
“पर्वताः पर्ववन्तः पूरणवन्तो वा मेघाः “तने विस्तृते “तुजे दाने । यद्वा । तनेति पुत्रनाम ॥ षष्ट्यर्थे चतुर्थी ॥ पुत्रस्य दान इत्यर्थः । अथवा “नः तुजे पुत्रे तने तत्पुत्रे च “स्वैतवः शोभनगमनाः “सन्तु भवन्तु । कीदृशास्ते । “ये “वसवः जगतो वासयितारः “वीराः “न वीरा इव । किंच “पनितः स्तुतः "आप्त्यः आप्तव्यः सर्वैः "यजतः यजनीय आदित्यः “सदा सर्वदा “नः “शसम् अस्माकं स्तुतिं “नर्यः नरेभ्यो हितो देवः “अभिष्टौ अभित एषणेऽभिगमने वा सति “वर्धात् वर्धयेत् ॥
 
 
वृष्णो॑ अस्तोषि भू॒म्यस्य॒ गर्भं॑ त्रि॒तो नपा॑तम॒पां सु॑वृ॒क्ति ।
 
गृ॒णी॒ते अ॒ग्निरे॒तरी॒ न शू॒षैः शो॒चिष्के॑शो॒ नि रि॑णाति॒ वना॑ ॥
 
वृष्णः । अस्तोषि । भूम्यस्य । गर्भम् । त्रितः । नपातम् । अपाम् । सुऽवृक्ति ।
 
गृणीते । अग्निः । एतरि । न । शूषैः । शोचिःऽकेशः । नि। रिणाति । वना ।। १० ।।
“भूम्यस्य । भूमिः अन्तरिक्षम् । तदर्हस्य । तादृशस्य “वृष्णः वर्षकस्य पर्जन्यस्य । अथवा भूम्यो भूमेरेवार्हः तदुचितवृष्टिप्रदानात् । तादृशस्य मेघस्य “गर्भं गर्भस्थानीयम् “अपां “नपातं रक्षकं वैद्युतमग्निं “सुवृक्ति । स्तोत्रकर्मैतत् । शोभनपापादिवर्जनवता स्तोत्रेण “अस्तोषि स्तुतवानहम् । सः “त्रितः तीर्णतमः त्रिषु स्थानेष्वन्येषु त्रित्वापन्नेषु तायमानः “अग्निः “एतरि गन्तरि मयि “शूषैः सुखकरैः रश्मिभिः “न “गृणीते न गरणं कुरुते न क्रुध्यतीत्यर्थः । किंतु "शोचिष्केशः प्रदीप्तरश्मिः सन् “वना वनानि “नि “रिणाति हिनस्ति दहतीत्यर्थः ॥ ॥ १४ ॥
 
 
क॒था म॒हे रु॒द्रिया॑य ब्रवाम॒ कद्रा॒ये चि॑कि॒तुषे॒ भगा॑य ।
 
आप॒ ओष॑धीरु॒त नो॑ऽवन्तु॒ द्यौर्वना॑ गि॒रयो॑ वृ॒क्षके॑शाः ॥
 
कथा । महे । रुद्रियाय । ब्रवाम । कत् । राये । चिकितुषे । भगाय ।
 
आपः । ओषधीः । उत । नः । अवन्तु । द्यौः । वना । गिरयः । वृक्षऽकेशाः ॥ ११ ॥
 
वयमत्रयः "कथा केन प्रकारेण "महे महते "रुद्रियाय रुद्रपुत्राय मरुद्गणाय “ब्रवाम स्तुतीः । “कत् किं च स्तोत्रं “राये धनलाभाय “चिकितुषे सर्वं जानते “भगाय एतन्नामकाय देवाय ब्रवाम । “उत अपि च "आपः अब्देवताः “ओषधीः ओषधयः “द्यौः द्युदेवता “वना वनानि “गिरयो “वृक्षकेशाः । वृक्षा एव केशस्थानीया येषां ते । एता उक्ता देवताः “नः अस्मान् “अवन्तु रक्षन्तु ॥
 
 
शृ॒णोतु॑ न ऊ॒र्जां पति॒र्गिर॒ः स नभ॒स्तरी॑याँ इषि॒रः परि॑ज्मा ।
 
शृ॒ण्वन्त्वाप॒ः पुरो॒ न शु॒भ्राः परि॒ स्रुचो॑ बबृहा॒णस्याद्रेः॑ ॥
 
शृणोतु । नः । ऊर्जाम् । पतिः । गिरः । सः । नभः । तरीयान् । इषिरः । परिऽज्मा ।
 
शृण्वन्तु । आपः । पुरः । न । शुभ्राः । परि । स्रुचः । बबृहाणस्य । अद्रेः ॥ १२ ॥
 
“नः अस्माकं “गिरः स्तुतीः “शृणोतु । कः । “ऊर्जा बलानां “पतिः वायुः । अथवा ऊर्जामन्नानां पतिः । प्राणोपाधिकस्य वायोः कृत्स्नात्तृत्वं प्रसिद्धम् । श्रुतिश्च भवति-- प्राणस्यान्नमिद सर्वं प्रजापतिरकल्पयत्' (मनु. ५. २८) इति । “स "नभः नभसि चारी “तरीयान् तरितव्यः “इषिरः गमनशीलः "परिज्मा परितो गन्ता । किंच "आपः “शृण्वन्तु गिरः । कीदृश्यस्ता:। “पुरो “न पुराणीव “शुभ्राः दीप्ताः “बबृहाणस्य वर्धमानस्य “अद्रेः मेघस्य वा पर्वतस्य वा “परि परितः “स्रुचः सरणशीलाः ॥
 
 
वि॒दा चि॒न्नु म॑हान्तो॒ ये व॒ एवा॒ ब्रवा॑म दस्मा॒ वार्यं॒ दधा॑नाः ।
 
वय॑श्च॒न सु॒भ्व१॒॑ आव॑ यन्ति क्षु॒भा मर्त॒मनु॑यतं वध॒स्नैः ॥
 
विद । चित् । नु । महान्तः । ये । वः । एवाः । ब्रवाम । दस्माः । वार्यम् । दधानाः ।
 
वयः । चन । सुऽभ्वः। आ । अव । यन्ति । क्षुभा । मर्तम् । अनुऽयतम् । वधऽस्नैः ॥१३॥
 
हे “महान्तः मरुतः “नु क्षिप्रं यूयं “विद जानीथ स्तोत्रम् । हे "दस्माः दर्शनीयाः “वः युष्मान् "ये “एवाः गन्तारो युष्मान् भजमानाः “वार्यं वरणीयं हविः “दधानाः ददाना धारयन्तो वा वयं “ब्रवाम स्तुतिम् । यद्वा । ये वो यूयमित्यर्थः । ये यूयमेवाः अस्मद्यज्ञमभिगन्तारस्ते विद । चिदिति पूरणः । “वयश्चन आगन्तारश्चैते मरुतः “सुभ्वः सुष्ठु भवन्तः प्रवृद्धाः “आ अस्मदभिमुखम् “अव “यन्ति गच्छन्ति । किं कुर्वन्तः । “क्षुभा क्षोभकेण सहितं “मर्तं मरणधर्माणं वैरिणम् “अनुयतम् अभिगतं “वधस्नैः आयुधैः परिहरन्तः अव यन्ति ॥
 
 
आ दैव्या॑नि॒ पार्थि॑वानि॒ जन्मा॒पश्चाच्छा॒ सुम॑खाय वोचम् ।
 
वर्ध॑न्तां॒ द्यावो॒ गिर॑श्च॒न्द्राग्रा॑ उ॒दा व॑र्धन्ताम॒भिषा॑ता॒ अर्णाः॑ ॥
 
आ। दैव्यानि । पार्थिवानि । जन्म । अपः । च । अच्छ । सुऽमखाय । वोचम् ।
 
वर्धन्ताम् । द्यावः । गिरः । चन्द्रऽअग्राः । उदा। वर्धन्ताम् । अभिऽसाताः । अर्णाः ॥१४॥
 
 
प॒देप॑दे मे जरि॒मा नि धा॑यि॒ वरू॑त्री वा श॒क्रा या पा॒युभि॑श्च ।
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_५.४१" इत्यस्माद् प्रतिप्राप्तम्