"ऋग्वेदः सूक्तं १.२५" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ५५:
== ==
{{सायणभाष्यम्|
‘यच्चित्' इति एकविंशत्यृचं द्वितीयं सूक्तम् । तथा चानुक्रान्तम्-'यच्चित्सैका' इति। ‘ऋषिश्चान्यस्मात् ' इति परिभाषया शुनःशेप एव ऋषिः । ‘आदौ गायत्रम्' इति परिभाषितत्वात् गायत्री छन्दः । ‘वारुणं तु ' इति पूर्वोक्तत्वात् तुह्यादिपरिभाषया ( अनु. १२. ३ ) वरुणो देवता । विनियोग उक्तः शौनःशेपाख्याने । विशेषविनियोगस्तु-अभिप्लवषडहे इदं सूक्तं होत्रकशस्त्रे स्तोमनिमित्तमावापार्थम् । ‘अभिप्लवपृष्ठ्याहानि ' इति खण्डे तथैव सूत्रितं- यच्चिद्धि ते विश इति वारुणमेतस्य तृचमावपेत मैत्रावरुणः ' ( आश्व. श्रौ. ७. ५) इति ॥
 
 
यच्चि॒द्धि ते॒ विशो॑ यथा॒ प्र दे॑व वरुण व्र॒तम् ।
 
मि॒नी॒मसि॒ द्यवि॑द्यवि ॥
 
यत् । चित् । हि। ते । विशः । यथा ।प्र। देव । वरुण । व्रतम्।
 
मिनीमसि । द्यविऽद्यवि ॥१॥
 
हे "वरुण "यथा लोके "विशः प्रजाः कदाचित् प्रमादं कुर्वन्ति तथा वयमपि "ते तव संबन्धि "यच्चिद्धि यदेव किंचित् "व्रतं कर्म “द्यविद्यवि प्रतिदिनं “प्र “मिनीमसि प्रमादेन हिंसितवन्तः । तदपि व्रतं प्रमादपरिहारेण साङ्गं कुरु इति शेषः । यथा । लित्स्वरेण आद्युदात्तत्वे प्राप्ते यथेति पादान्ते' ( फि. सू. ८५ ) इति सर्वानुदात्तत्वम् । मिनीमसि । “ मीञ् हिंसायाम्'। 'इदन्तो मसि' । " क्र्यादिभ्यः श्ना' ।' मीनातेर्निगमे' (पा. सू. ७. ३. ८१ ) इति ह्रस्वत्वम् । ‘ई हल्यघोः ' (पा. सू. ६. ४. ११३ ) इति ईकारः । ‘सतिशिष्टस्वरबलीयस्त्वमन्यत्र विकरणेभ्यः' इति वचनात् तिङ एव स्वरः शिष्यते । यद्वृत्तयोगात् निघाताभावः ॥
 
 
मा नो॑ व॒धाय॑ ह॒त्नवे॑ जिहीळा॒नस्य॑ रीरधः ।
 
मा हृ॑णा॒नस्य॑ म॒न्यवे॑ ॥
 
मा । नः । वधाय । हत्नवे। जिहीळानस्य । रीरधः ।
 
मा । हृणानस्य । मन्यवे ॥२॥
 
हे वरुण "जिहीळानस्य अनादरं कृतवतः "हत्नवे हन्तुः पापिहननशीलस्य तव संबन्धिने त्वत्कर्तृकाय “वधाय नः अस्मान् "मा "रीरधः संसिद्धान् विषयभूतान् मा कुरु । "हृणानस्य हृणीयमानम्य क्रुद्धस्य तव "मन्यवे क्रोधाय मा अस्मान् रीरधः ॥ वधाय ।' हनश्च वधः' (पा. सू. ३. ३. ७६) इति अबन्तो वधशब्दः । उञ्छादिषु पाठादन्तोदात्तः । हत्नवे । 'हन हिंसागत्योः । ‘कृहनिभ्यां क्नुः' ( उ. सू. ३. ३१० ) इति क्नुप्रत्ययः; धातोर्नकारस्य तकारः । जिहीळानस्य। 'हेडृ अनादरे'। अस्मात् लिटः कानच् । द्विर्भावहलादिशेषह्रस्वचुत्वजश्त्वानि। एकारस्य ईकारादेशश्छन्दसः। ‘चितः' इत्यन्तोदात्तत्वम् । रीरधः । ‘राध साध संसिद्धौ' । चङि णिलोपे उपधाह्रस्वत्वम् । द्विर्वचनहलादिशेषह्रस्वत्वसन्वद्भावेत्वाभ्यासदीर्घाः । ‘न माङयोगे' इति अडभावः । हृणानस्य । ‘हृणीङ् लज्जायम्' । अस्मात् शानचि पृषोदरादित्वात् अभिमतरूपसिद्धिः । ।
 
 
वि मृ॑ळी॒काय॑ ते॒ मनो॑ र॒थीरश्वं॒ न संदि॑तम् ।
 
गी॒र्भिर्व॑रुण सीमहि ॥
 
वि। मृळीकाय । ते । मनः। रथीः । अश्वम् । न । सम्ऽदितम् ।
 
गीःऽभिः । वरुण । सीमहि ॥३॥
 
हे "वरुण "मृळीकाय अस्मत्सुखाय "ते तव "मनः “गीर्भिः स्तुतिभिः "वि “सीमहि विशेषण बध्नीमः प्रसादयाम इत्यर्थः । तत्र दृष्टान्तः । "रथीः रथस्वामी "संदितं सम्यक् खण्डितं दूरगमनेन श्रान्तम् “अश्व “न अश्वमिव । यथा स्वामी श्रान्तमश्वं घासप्रदानादिना प्रसादयति तद्वत् ॥ रथीः । मत्वर्थीय ईकारः। संदितम् । ‘दो अवखण्डने'। निष्ठा ' इति क्तः । ‘द्यतिस्यतिमास्थाम् ' (पा. सू. ७. ४. ४०) इति इकारान्तादेशः । ‘गतिरनन्तरः' इति गतेः प्रकृतिस्वरत्वम् । गीर्भिः । ‘सावेकाचः०' इति भिस उदात्तत्वम् । सीमहि । “षिवु तन्तुसताने'। व्यत्ययेनात्मनेपदम्। 'बहुलं छन्दसि' इति विकरणस्य लुक् । वलि लोपः (पा. सू. ६. १. ६६) । यद्वा । ‘षिञ् बन्धने ' इत्यस्मात् विकरणस्य लुक् । दीर्घश्छन्दसः ।।
 
 
परा॒ हि मे॒ विम॑न्यव॒ः पत॑न्ति॒ वस्य॑इष्टये ।
 
वयो॒ न व॑स॒तीरुप॑ ॥
 
परा । हि। मे। विऽमन्यवः । पतन्ति । वस्यःऽइष्टये।
 
वयः । न । वसतीः । उप ॥ ४ ॥
 
हे वरुण "मे मम शुनःशेपस्य "विमन्यवः क्रोधरहिता बुद्धयः “वस्यइष्टये वसीयसः अतिशयेन वसुमतो जीवनस्य प्राप्तये "परा “पतन्ति पराङ्मुखाः पुनरावृत्तिरहिताः प्रसरन्ति । हिशब्दः अस्मिन्नर्थे सर्वजनप्रसिद्धिमाह । परापतने दृष्टान्तः । "वयो "न । पक्षिणो यथा वसतीः निवासस्थानानि "उप सामीप्येन प्राप्नुवन्ति तद्वत् ॥ पतन्ति । पादादित्वात् निघाताभावः । वस्यइष्टये । वसुमच्छब्दात् ‘विन्मतोर्लुक्' इति मतुपो लुकि टिलोपे ईयसुनो यकारलोपश्छान्दसः । वसतीः । ‘शतुरनुमः' इति ङीप उदात्तत्वम् ।।
 
 
क॒दा क्ष॑त्र॒श्रियं॒ नर॒मा वरु॑णं करामहे ।
 
मृ॒ळी॒कायो॑रु॒चक्ष॑सम् ॥
 
कदा । क्षत्रऽश्रियम् । नरम् । आ । वरुणम् । करामहे ।
 
मृळीकाय । उरुऽचक्षसम् ॥५॥
 
"मृळीकाय अस्मत्सुखाय “वरुणं "कदा कस्मिन् काले “आ "करामहे अस्मिन् कर्मणि आगतं करवाम । कीदृशम् । "क्षत्रश्रियं बलसेविनं "नरं नेतारं "उरुचक्षसं बहूनां द्रष्टारम् । क्षत्रश्रियम् । क्षत्राणि श्रयतीति क्षत्रश्रीः । क्विब्वचि° ' ( पा. ३. २. १७८, २) इत्यादिना क्विप् दीर्घश्च । कृदुत्तरपदप्रकृतिस्वरत्वम् । नरम् ।' ऋदोरप्' इति अबन्तः आद्युदात्तः । करामहे । करोतेः व्यत्ययेन शप्। उरुचक्षसम् । ‘चक्षेर्बहुलं शिच्च' (उ. सू. ४.६७२) इत्यसुन् । शिद्वद्भावात् ख्याञादेशाभावः ॥ ॥१६॥
 
 
तदित्स॑मा॒नमा॑शाते॒ वेन॑न्ता॒ न प्र यु॑च्छतः ।
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.२५" इत्यस्माद् प्रतिप्राप्तम्