"ऋग्वेदः सूक्तं १.२५" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ११६:
 
धृ॒तव्र॑ताय दा॒शुषे॑ ॥
 
तत् । इत्। समानम् । आशाते इति । वेनन्ता। न । प्र। युच्छतः।
 
धृतऽव्रताय । दाशुषे ॥६॥
 
“धृतव्रताय अनुष्ठितकर्मणे “दाशुषे हविर्दत्तवते यजमानाय वेनन्तौ कामयमानौ मित्रावरुणाविति शेषः । तावुभौ "समानं साधारणं “तदित् अस्माभिर्दत्तं तदेव हविः "आशाते अश्नुवाते। “न “प्र "युच्छतः कदाचिदपि प्रमादं न कुरुतः ॥ आशाते । अश्नोतेर्लिटि द्विर्भावहलादिशेषौ । ‘अत आदेः ' (पा. सू. ७. ४. ७० ) इति आत्वम् । ‘अनित्यमागमशासनम्' इति वचनात् “ अश्नोतेश्च ' ( पा. सू. ७. ४. ७२ ) इति नुडभावः । वेनन्ता। वेनतिः कान्तिकर्मा ।' सुपां सुलुक् ' इति आकारः। प्र युच्छतः । 'युच्छ प्रमादे'। दाशुषे ।' दाशृ दाने' इत्यस्मात् दाश्वान् साह्वान्' इति क्वसुप्रत्ययो निपातितः । वसोः संप्रसारणम्' इति संप्रसारणम् । शासिवसिघसीनां च ' इति षत्वम् ॥
 
 
वेदा॒ यो वी॒नां प॒दम॒न्तरि॑क्षेण॒ पत॑ताम् ।
 
वेद॑ ना॒वः स॑मु॒द्रिय॑ः ॥
 
वेद । यः । वीनाम् । पदम् । अन्तरिक्षेण । पतताम् ।
 
वेद । नावः । समुद्रियः ॥७॥
 
"अन्तरिक्षेण “पतताम् आकाशमार्गेण गच्छतां "वीनां पक्षिणां पदं यः वरुणः "वेद । तथा “समुद्रियः समुद्रेऽवस्थितः वरुणः "नावः जले गच्छन्त्याः पदं “वेद जानाति सोऽस्मान् बन्धनान्मोचयत्विति शेषः ॥ वेद । ‘विद ज्ञाने'। ‘विदो लटो वा ' ( पा. सू. ३. ४. ८३ ) इति तिपो णल् । लित्स्वरेणाद्युदात्तत्वम् । ‘द्व्यचोऽतस्तिङः' इति संहितायां दीर्घः। वीनाम् । ' नामन्यतरस्याम् ' इति नाम उदात्तत्वम् । पतताम् । शपः पित्त्वादनुदात्तत्वम् । शतुश्च लसार्वधातुकस्वरेण धातुस्वरः । नावः। सावेकाचः' इति षष्ठ्या उदात्तत्वम् । समुद्रियः । भवार्थे ' समुद्राभ्राद्धः' (पा. सू. ४. ४. ११८) इति घप्रत्ययः ॥
 
 
वेद॑ मा॒सो धृ॒तव्र॑तो॒ द्वाद॑श प्र॒जाव॑तः ।
 
वेदा॒ य उ॑प॒जाय॑ते ॥
 
वेद । मासः । धृतऽव्रतः । द्वादश । प्रजाऽव॑तः ।
 
वेद । यः । उपऽजायते ॥ ८ ॥
 
“धृतव्रतः स्वीकृतकर्मविशेषो यथोक्तमहिमोपेतो वरुणः “प्रजावतः तदा तदोत्पद्यमानप्रजायुक्तान् “द्वादश "मासः चैत्रादीन् फाल्गुनान्तान् “वेद जानाति । “यः त्रयोदशोऽधिकमासः “उपजायते संवत्सरसमीपे स्वयमेवोत्पद्यते तमपि “वेद। वाक्यशेषः पूर्ववत् ॥ मासः।‘पद्दन्°' (पा. सू. ६. १.६३) इत्यादिना मासशब्दस्य मास् इति आदेशः । ऊडिदम्' इत्यादिना शस उदात्तत्वम् । द्वादश। द्वौ च दश च इति द्वन्द्वः । 'द्व्यष्टनः संख्यायाम् ' (पा. सू. ६. ३. ४७) इति आत्वम् । ‘संख्या' (पा. सू. ६.२.३५) इति सूत्रेण पूर्वपदप्रकृतिस्वरत्वम् । प्रजावतः । “जनी प्रादुर्भावे'। प्रपूर्वात् जनसनखनक्रमगमो विट्प्रत्ययः (पा. सू. ३. २. ६७)। *विड्वनोः०' (पा. सू. ६. ४. ४१) इति आत्वम् । कृदुत्तरपदप्रकृतिस्वरत्वम् । प्रजा एषां सन्तीति तदस्यास्त्यस्मिन्निति मतुप्' (पा. सू. ५. ३. ९४ )। मादुपधायाः० ' ( पा. सू. ८. २. ९) इति मतुपो वत्वम् । उपजायते । जनेः कर्मकर्तरि लट् । कर्मवद्भावात् आत्मनेपदं यक् (पा. सू. ३. १. ८७ )। जनादीनामुपदेश एवात्वं वक्तव्यम् ' ( पा. सू. ६. १. १९५. ३) इति वचनात् “ अचः कर्तृयकि' (पा. सू. ६. १. १९५ ) इत्याद्युदात्तत्वम् । ‘तिङि चोदात्तवति' (पा. सू. ८. १. ७१ ) इति उपसर्गस्य निघातः । न च ‘तिङ्ङतिङः' इति निघातः, “ यद्वृत्तान्नित्यम्' इति प्रतिषेधात् ॥
 
 
वेद॒ वात॑स्य वर्त॒निमु॒रोरृ॒ष्वस्य॑ बृह॒तः ।
 
वेदा॒ ये अ॒ध्यास॑ते ॥
 
वेद । वातस्य । वर्तनिम्। उरोः । ऋष्वस्य । बृहतः ।
वेद । ये । अधिऽआसते ॥९॥
 
“उरोः, विस्तीर्णस्य “ऋष्वस्य दर्शनीयस्य “बृहतः गुणैरधिकस्य “वातस्य वायोः वर्तनिं मार्गं “वेद वरुणो जानाति । "ये देवाः "अध्यासते उपरि तिष्ठन्ति तानपि “वेद जानाति ॥ वातस्य । ‘असिहसि' इत्यादिना तन्प्रत्ययान्तो वातशब्दो नित्त्वादाद्युदात्तः । वर्तनिम्। वर्ततेऽनेनेति । ‘वर्तनिः स्तोत्रे (पा. सू. ६.१.१६०.ग.) इति स्तोत्रवाचकस्य वर्तनिशब्दस्य अन्तोदात्तत्वसिद्ध्यर्थम् उञ्छादिषु पाठात् अस्य प्रत्ययस्वरेण मध्योदात्तत्वे प्राप्ते व्यत्ययेनान्तोदात्तत्वम् । बृहतः । बृहन्महतोरुपसंख्यानम् ' इति ङस उदात्तत्वम् । अध्यासते । लसार्वधातुकानुदात्तत्वे सति धातुस्वरः ॥
 
 
नि ष॑साद धृ॒तव्र॑तो॒ वरु॑णः प॒स्त्या॒३॒॑स्वा ।
 
साम्रा॑ज्याय सु॒क्रतु॑ः ॥
 
नि । ससाद । धृतऽव्रतः । वरुणः । पस्त्यासु । आ ।
 
साम्राज्याय । सुऽक्रतुः ॥ १० ॥
 
“धृतव्रतः पूर्वोक्तः वरुणः “पस्त्यासु दैवीषु प्रजासु “आ “नि “षसाद आगत्य निषण्णवान् । किमर्थम् । प्रजानां साम्राज्यसिद्ध्यर्थं सुक्रतुः शोभनकर्मा ॥ नि षसाद । सदिरप्रतेः ' ( पा. सू. ८. ३. ६६ ) इति षत्वम् । साम्राज्याय । सम्राजो भावः साम्राज्यम् । ‘गुणवचनब्राह्मणादिभ्यः (पा. सू. ५. १. १२४ ) इति ष्यञ् । ञ्नित्यादिर्नित्यम्' इत्याद्युदात्तत्वम् । सुक्रतुः । ‘क्रत्वादयश्च ' इत्युत्तरपदाद्युदात्तत्वम् ॥ ॥ १७ ॥
 
 
अतो॒ विश्वा॒न्यद्भु॑ता चिकि॒त्वाँ अ॒भि प॑श्यति ।
 
कृ॒तानि॒ या च॒ कर्त्वा॑ ॥
 
अतः । विश्वानि । अद्भुता । चिकित्वान् । अभि । पश्यति ।
 
कृतानि । या । च। कर्त्वा ॥११॥
 
“अतः अस्मात् वरुणात् "विश्वानि "अद्भुता सर्वाण्याश्चर्याणि “चिकित्वान् प्रज्ञावान् “अभि “पश्यति सर्वतोऽवलोकयति “या “कृतानि यान्याश्चर्याणि पूर्वं वरुणेन संपादितानि । चकारात् अन्यानि यान्याश्चर्याणि "कर्त्वा इतः परं कर्तव्यानि तानि सर्वाण्यभिपश्यतीति पूर्वत्रान्वयः ॥ अद्भुता । ‘शेश्छन्दसि बहुलम् ' ( पा. सू. ६. १. ७० ) इति शेर्लोपः । प्रत्ययलक्षणेन ‘ नपुंसकस्य झलचः (पा. सू. ७. १. ७२ ) इति नुम् । नलोपः । चिकित्वान् । कित ज्ञाने'। लिटः क्वसुः । अभ्यासहलादिशेषचुत्वानि ।' वेस्वेकाजाद्धसाम्' इति नियमात् इडभावः । रुत्वानुनासिकावुक्तौ संहितायाम् । पश्यति । पाघ्रा ' इत्यादिना दृशेः पश्यादेशः । कर्त्वा । ‘कृत्यार्थे तवैकेन्केन्यत्वनः' (पा. सू. ३. ४. १४ ) इति करोतेः त्वन् । नित्त्वादाद्युदात्तत्वम् । पूर्ववत् शेर्लोपः ॥
 
 
स नो॑ वि॒श्वाहा॑ सु॒क्रतु॑रादि॒त्यः सु॒पथा॑ करत् ।
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.२५" इत्यस्माद् प्रतिप्राप्तम्