"तैत्तिरीयारण्यकम्(विस्वर)/प्रपाठकः ५" इत्यस्य संस्करणे भेदः

<span style="font-size: 14pt; line-height: 200%">प्रपाठक ५ प्रवर्ग्यब्राह्... नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
पङ्क्तिः ५७:
5.12 अनुवाक १२
 
सविता भूत्वा प्रथमेऽहन्प्र वृज्यते । तेन कामाँ एति । यद्द्वितीयेऽहन्प्रवृज्यते । अग्निर्भूत्वा देवानेति । यत्तृतीयेऽहन्प्रवृज्यते । वायुर्भूत्वा प्राणानेति । यच्चतुर्थेऽहन्प्रवृज्यते । आदित्यो भूत्वा रश्मीनेति । यत्पमेयत्पञ्चमे हन्प्रवृज्यते । चन्द्र माचन्द्रमा भूत्वा नक्षत्राण्येति १ यत्षष्ठेऽहन्प्रवृज्यते । ऋतुर्भूत्वा संवत्सरमेति । यत्सप्तमेऽहन्प्रवृज्यते । धाता भूत्वा शक्वरीमेति । यदष्ठमेऽहन्प्रवृज्यते । बृहस्पतिर्भूत्वा गायत्रीमेति । यन्नवमेऽहन्प्रवृज्यते । मित्रो भूत्वा त्रिवृत इमाँ लोकानेति । यद्दशमेऽहन्प्रवृज्यते । वरुणो भूत्वा विराजमेति २ यदेकादशेऽहन्प्रवृज्यते । इन्द्रो भूत्वा त्रिष्टुभमेति । यद्द्वादशेऽहन्प्रवृज्यते । सोमो भूत्वा सुत्यामेति । यत्पुरस्तादुपसदां प्रवृज्यते । तस्मादितः पराङ् अमूँ लोकाँ स्तपन्नेति । यदुपरिष्टादुपसदां प्रवृज्यते । तस्मादमुतोऽर्वाङ् इमाङ् लोकाँ स्तपन्नेति । य एवं वेद । ऐव तपति ३ नक्षत्राण्येति विराजमेति
तपति शं नः तन्नो मा हासीत्