"ऋग्वेदः सूक्तं १.२६" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १०:
 
{{ऋग्वेदः मण्डल १}}
<poem><span style="font-size: 14pt; line-height:200%">
<poem>
{|
|
वसिष्वा हि मियेध्य वस्त्राण्यूर्जां पते ।
सेमं नो अध्वरं यज ॥१॥
Line ३३ ⟶ ३१:
विश्वेभिरग्ने अग्निभिरिमं यज्ञमिदं वचः ।
चनो धाः सहसो यहो ॥१०॥
</span></poem>
|
== ==
{{सायणभाष्यम्|
‘वसिष्व ' इति दशर्चं तृतीयं सूक्तम् । अत्रानुक्रम्यते- वसिष्व दशाग्नेयं तु ' इति । शुनःशेपः ऋषिः । गायत्री छन्दः । इदमुत्तरं च सूक्तम् आग्नेयम् । प्रातरनुवाके आग्नेये क्रतौ गायत्रे छन्दसि एतदादिसूक्तद्वयमनुवक्तव्यम् । तथा च सूत्रितं-’वसिष्वा हीति सूक्तयोरुत्तमामुद्धरेत् ' ( आश्व. श्रौ. ४, १३ ) इति ॥
 
 
वसि॑ष्वा॒ हि मि॑येध्य॒ वस्त्रा॑ण्यूर्जां पते ।
 
सेमं नो॑ अध्व॒रं य॑ज ॥
 
वसिष्व । हि। मियेध्य । वस्त्राणि । ऊर्जाम्। पते ।
 
सः । इमम् । नः । अध्वरम्। यज ॥१॥
 
वरुणेन अग्निस्तुतौ प्रेरितः शुनःशेपः एतदादिसूक्तद्वयेन अग्निमस्तौत् । तया च आम्नायते-’तं वरुण उवाचाग्निर्वै देवानां मुखं सुहृदयतमस्तं नु स्तुह्यथ त्वोत्स्रक्ष्याम इति सोऽग्निं तुष्टावात उत्तराभिर्द्वाविंशत्या' (ऐ. ब्रा. ७.१६ ) इति । हे "मियेध्य मेधस्य यज्ञस्य योग्य "ऊर्जां “पते अन्नानां पालकाग्ने “वस्त्राणि आच्छादकानि तेजांसि “वसिष्व आच्छादय । प्रज्वलितस्तेजसा भवेत्यर्थः । “हि यस्मात् प्रज्वलितः तस्मात् सः तादृशस्त्वं "नः अस्मदीयम् “इमम् "अध्वरं यज निष्पादय ॥ वसिष्व। ‘वस आच्छादने'। लोटि ‘थासः से'।“ सवाभ्यां वामौ'। ‘छन्दस्युभयथा' इति आर्धधातुकत्वात् ‘आर्धधातुकस्येड्वलादेः' ( पा. सू. ७. २. ३५) इति इडागमः । लसार्वधातुकानुदात्तत्वे धातुस्वरः । ‘अन्येषामपि दृश्यते' इति संहितायां दीर्घः । मियेध्य । मकारैकारयोर्मध्ये इयागमश्छान्दसः । ऊर्जां पते । ‘सुबामन्त्रिते' इति पराङ्गवद्भावात् षष्ठ्यामन्त्रितस्य समुदायस्य आष्टमिको निघातः । सेमम् । ‘सोऽचि लोपे चेत्पादपूरणम्' इति सोर्लोपः ॥
 
 
नि नो॒ होता॒ वरे॑ण्य॒ः सदा॑ यविष्ठ॒ मन्म॑भिः ।
 
अग्ने॑ दि॒वित्म॑ता॒ वच॑ः ॥
 
आ हि ष्मा॑ सू॒नवे॑ पि॒तापिर्यज॑त्या॒पये॑ ।
 
सखा॒ सख्ये॒ वरे॑ण्यः ॥
 
आ नो॑ ब॒र्ही रि॒शाद॑सो॒ वरु॑णो मि॒त्रो अ॑र्य॒मा ।
 
सीद॑न्तु॒ मनु॑षो यथा ॥
 
पूर्व्य॑ होतर॒स्य नो॒ मन्द॑स्व स॒ख्यस्य॑ च ।
 
इ॒मा उ॒ षु श्रु॑धी॒ गिर॑ः ॥
 
यच्चि॒द्धि शश्व॑ता॒ तना॑ दे॒वंदे॑वं॒ यजा॑महे ।
 
त्वे इद्धू॑यते ह॒विः ॥
 
प्रि॒यो नो॑ अस्तु वि॒श्पति॒र्होता॑ म॒न्द्रो वरे॑ण्यः ।
 
प्रि॒याः स्व॒ग्नयो॑ व॒यम् ॥
 
स्व॒ग्नयो॒ हि वार्यं॑ दे॒वासो॑ दधि॒रे च॑ नः ।
 
स्व॒ग्नयो॑ मनामहे ॥
 
अथा॑ न उ॒भये॑षा॒ममृ॑त॒ मर्त्या॑नाम् ।
 
मि॒थः स॑न्तु॒ प्रश॑स्तयः ॥
 
विश्वे॑भिरग्ने अ॒ग्निभि॑रि॒मं य॒ज्ञमि॒दं वच॑ः ।
चनो॑ धाः सहसो यहो ॥
|}
</poem>
 
चनो॑ धाः सहसो यहो ॥
 
|}}
*[[ऋग्वेद:]]
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.२६" इत्यस्माद् प्रतिप्राप्तम्