"ऋग्वेदः सूक्तं १०.७६" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १३९:
 
{{टिप्पणी|
अस्य सूक्तस्य ऋषिः जरत्कर्णः ऐरावतः सर्पः अस्ति एवं देवता ग्रावाणः अस्ति। अन्यानां सूक्तानामपि देवता ग्रावाणः अस्ति। ऋग्वेद [[ऋग्वेदः सूक्तं १०.९४|१०.९४]] सूक्तस्य ऋषिः अर्बुदः काद्रवेयः सर्पः अस्ति एवं देवता ग्रावाणः अस्ति। ऋग्वेद [[ऋग्वेदः सूक्तं १०.१७५|१०.१७५]] सूक्तस्य ऋषिः ऊर्ध्वग्रावा सर्प आर्बुदिः अस्ति एवं देवता ग्रावाणः अस्ति। ऋग्वेदे यत्र - यत्र ग्रावा अथवा ग्रावाणः शब्दः प्रकटयति, तत्र तत्र प्रायः तस्य क्रिया वदति अस्ति (यथा ऋग्वेदः [[ऋग्वेदः सूक्तं १.८३|१.८३.६]] (ग्रावा यत्र वदति कारुरुक्थ्यः), [[ऋग्वेदः सूक्तं १.१३५|१.१३५.७]](यत्र ग्रावा वदति तत्र गच्छतं), [[ऋग्वेदः सूक्तं ५.३७|५.३७.२]](ग्रावाणो यस्येषिरं वदन्ति), [[ऋग्वेदः सूक्तं ८.३४|८.३४.२]](आ त्वा ग्रावा वदन्निह), [[ऋग्वेदः सूक्तं १०.२६|१०.२६.४]](ग्रावा वदन्नप रक्षांसि सेधतु), [[ऋग्वेदः सूक्तं १०.९४|१०.९४.१]](ग्रावभ्यो वाचं वदता वदद्भ्यः )। मैत्रायणी संहिता [https://sa.wikisource.org/s/1dwb ४.५.२] अनुसारेण - यज्ञमुखं ग्रावाणः । यागेषु सोमलतायाः पेषणाय ये प्रस्तराः भवन्ति, तेषां संज्ञा ग्रावाणः भवति। धान्यस्य वितुषीकरणार्थं ये उलूखल, मुसलाः भवन्ति, तेषां संज्ञा अपि ग्रावाणः भवति। कर्मकाण्डे, यदा मुसलस्य पतनं उलूखले धान्योपरि भवति, तदा ध्वन्याः जननं भवति । एषैव ग्राव्णः वदनम्। मुखे यदा भोजनस्य ग्रासः गच्छति, तस्य सम्पर्कं प्रथमतः दंष्ट्रैः सह भवति। दंष्ट्राणां संज्ञा अपि ग्रावाणः अस्ति। ऋग्वेदस्य [[ऋग्वेदः सूक्तं ८.९१|८.९१]] सूक्तस्य संदर्भे आख्यानमस्ति यत् अपाला आत्रेय्याः दन्तध्वनिं श्रुत्वा इन्द्रः आजगाम। अपालायाः दन्तध्वनिं श्रुत्वा इन्द्रः अचिन्तयत् यत् सा सोमस्य शोधनं करोति(जै.ब्रा. [[जैमिनीयं ब्राह्मणम्/काण्डम् १/२११-२२०|१.२२०]])। सार्वत्रिकं कथनं अस्ति यत् प्राणा वै ग्रावाणः(मा.श. [[शतपथब्राह्मणम्/काण्डम् १४/अध्यायः २/ब्राह्मण २|१४.२.२.२३]] आदि)। दन्तेषु मरुत्संज्ञकानां प्राणानां स्थितिः भवति। ग्रावाणः विशःरूपाः भवन्ति, यथा मरुतः, न राज्ञरूपाः। वीणायाः तन्त्रीणां झंकृतकर्तृकस्य प्रस्तरस्य संज्ञा अपि ग्रावा भवति(जै.ब्रा. [[जैमिनीयं ब्राह्मणम्/काण्डम् २/०६१-०७०|२.७०]])। व्यवहारे, ये व्यावहारिकाः उपस्कराः सन्ति, ते एव ग्रावाणः सन्ति। मम वस्त्राः, मम शय्या, मम भोजनम्, मम गृहं, मम लेखनी, पुस्तकं, मम भ्राता, माता, भगिनी, ते सर्वे ग्रावाणः सन्ति। किन्तु ते सर्वदा तूष्णीं भवन्ति, नैव किंचिदपि वदन्ति। ऐरावतस्य कार्यं तेषां ध्वन्याः श्रवणमस्ति। प्रस्तुते सूक्ते ऐरावतस्य विशेषणं जरत्कर्णः अस्ति। विष्णुधर्मोत्तर पुराणे [https://sa.wikisource.org/s/10d7 ३.५०.१२] कथनमस्ति यत् ऐरावणः अर्थस्य प्रतीकमस्ति, ऐरावतस्य दन्ताः मन्त्र शक्तीनां प्रतीकाः सन्ति। अन्यत्र कथनमस्ति यत् शब्दमात्रसमूहस्य स्वामी रामः अस्ति, अर्थमात्रसमूहस्य स्वामी लक्ष्मणः अस्ति। वाल्मीकि रामायणे [https://sa.wikisource.org/s/1q ६.४.१८] कथनमस्ति यत् यथा इन्द्रः ऐरावतोपरि आरूढः भवति, एवमेव रामः हनुमानोपरि आरोहणं कृत्वा रावणेन सह युद्धं कर्तुं अगमत्। अत्र हनुमतस्य उपमा ऐरावतेन सह अस्ति। अवशिष्टं [http://puranastudy.000space.com/pur_index10/gravstut.htm ग्रावस्तुतोपरि टिप्पण्यां] पठनीयमस्ति।
 
ऋग्वेदे सार्वत्रिकरूपेण ऊर्ध्वग्रावा शब्दः प्रकटयति(यथा [[ऋग्वेदः सूक्तं १०.७०|१०.७०.७]])। अयं अन्वेषणीयः अस्ति - किं अयं ऐरावतेश्वरस्य प्रतीकमस्ति यत्र ऐरावतेश्वरस्य देहे त्रयः ज्योतिर्लिङ्गाः प्रदर्शिताः सन्ति।
}}
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.७६" इत्यस्माद् प्रतिप्राप्तम्