"ऐतरेय आरण्यकम्/आरण्यक १/अध्यायः १" इत्यस्य संस्करणे भेदः

<span style="font-size: 14pt; line-height: 200%">भूमिमुपस्पृशेदग्न इळा नम इळ... नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
पङ्क्तिः १:
{{header
| title = [[ऐतरेय आरण्यकम्]]
| author = ''
| translator =
| section = अध्यायः १
| previous =
| next = [[ऐतरेय आरण्यकम्/आरण्यक १/अध्यायः २|अध्यायः २]]
| notes =
}}
 
 
<span style="font-size: 14pt; line-height: 200%">भूमिमुपस्पृशेदग्न इळा नम इळा नम ऋषिभ्यो मन्त्रकृद्भ्यो मन्त्रपतिभ्यो नमो वो अस्तु देवेभ्यः शिवा नः शंतमा भव सुमृळीका सरस्वति मा ते व्योम संदृशि ।। भद्रं कर्णेभिः शृणुयाम देवा भद्रं पश्येमाक्षभिर्यजत्राः । स्थिरैरङ्गैस्तुष्टुवांसस्तनूभिर्व्यशेम देवहितु यदायुः ।। शं न इन्द्राग्नी भवतामवोभिर्गीर्भिर्मित्रावरुणा रातहव्या । शमिन्द्रासोमा सुविताय शं योः शं न इन्द्रापूषणा वाजसातौ ।। स्तुषे जनं सुव्रतं नव्यसीभिर्गीर्भिर्मित्रावरुणा सुम्नयन्ता । त आगमन्तु त इह श्रुवन्तु सुक्षत्रासो वरुणो मित्रो अग्निः ।। कया नश्चित्र आभुवदूती सदावृधः सखा । कया शचिष्ठया वृता ।। कस्त्वा सत्यो मदानां मंहिष्ठो मत्सदन्धसः । दृह्ळाचिदारुजे वसु ।। अभी षु णः सखीनामविता जरितॄणाम् । शतं भवास्यूतिभिः ।। स्योना पृथिवि भवानृक्षरा निवेशनी । यच्छा नः शर्म सप्रथः ।। ओष्ठापिधाना नकुली दन्तैः परिवृता पविः । सर्वस्यै वाच ईशाना चारुमामिह वादयेदिति वाग्रसः ।।
ॐ शान्तिः शान्तिः शान्तिः ।