"तैत्तिरीयारण्यकम्(विस्वर)/प्रपाठकः ४" इत्यस्य संस्करणे भेदः

<span style="font-size: 14pt; line-height: 200%">प्रवर्ग्यमन्त्राः 4.1 अनुवा... नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
पङ्क्तिः १९८:
4.41 अनुवाक ४१
 
पृथिवी समित् । तामग्निः समिन्धे । साऽग्निँ समिन्धे । तामहँ समिन्धे । सा मा समिद्धा । आयुषा तेजसा । वर्चसा श्रिया । यशसा ब्रह्मवर्चसेन । अन्नाद्येन समिन्ताँ स्वाहा १ अन्तरिक्षँ समित् । (१)
तां वायुः समिन्धे । सा वायुँ समिन्धे । तामहँ समिन्धे । सा मा समिद्धा । आयुषा तेजसा । वर्चसा श्रिया । यशसा ब्रह्मवर्चसेन । अन्नाद्येन समिन्ताँ स्वाहा २ द्यौः समित् । तामादित्यः समिन्धे ।(२)
सादित्यँ समिन्धे । तामहँ समिन्धे । सा मा समिद्धा । आयुषा तेजसा । वर्चसा श्रिया । यशसा ब्रह्मवर्चसेन । अन्नाद्येन समिन्ताँ स्वाहा ३ प्राजापत्या मे समिदसि सपत्नक्षयणी । भ्रातृव्यहा मेऽसि स्वाहा ४ अग्ने व्रतपते व्रतं चरिष्यामि । (३)
तच्छकेयं तन्मे राध्यताम् । वायो व्रतपत आदित्य व्रतपते । व्रतानां व्रतपते व्रतं चरिष्यामि । तच्छकेयं तन्मे राध्यताम् ५ द्यौः समित् । तामादित्यः समिन्धे । सादित्यँ समिन्धे । तामहँ समिन्धे । सा मा समिद्धा । आयुषा तेजसा ।(४)
वर्चसा श्रियायशसा ब्रह्मवर्चसेन । अन्नाद्येन समिन्ताँ स्वाहा । अन्तरिक्षँ समित् । तां वायुः समिन्धेसा वायुँ समिन्धे । तामहँ समिन्धे । सा मा समिद्धा । आयुषा तेजसा । वर्चसा श्रिया ।(५)
यशसा ब्रह्मवर्चसेन । अन्नाद्येन समिन्ताँ स्वाहा । पृथिवी समित् । तामग्निः समिन्धे । साऽग्निँ समिन्धे । तामहँ समिन्धे । सा मा समिद्धा । आयुषा तेजसा । वर्चसा श्रिया । यशसा ब्रह्मवर्चसेन । (६)
अन्नाद्येन समिन्ताँ स्वाहा । प्राजापत्या मे समिदसि सपत्नक्षयणी । भ्रातृव्यहा मेऽसि स्वाहा । आदित्य व्रतपते व्रतमचारिषम् । तदशकं तन्मेऽराधि । वायो व्रतपतेऽग्ने व्रतपते । व्रतानां व्रतपते व्रतमचारिषम् । तदशकं तन्मेऽराधि ६ समित्समिन्धे व्रतं चरिष्यामि (७)
समित्समिन्धे व्रतं चरिष्यामि तेजसा श्रिया यशसा ब्रह्मवर्चसेनाष्टौ च
 
4.42 अनुवाक ४२
 
शं नो वातः पवतां मातरिश्वा शं नस्तपतु सूर्यः । अहानि शं भवन्तु नः शं रात्रिः प्रति धीयताम् १ शमुषा नो व्यच्छतु । शमादित्य उदेतु नः । शिवा नः शंतमा भव सुमृडीका सरस्वति । मा ते व्योम संदृशि २ इडायै वास्त्वसि वास्तुमद्वास्तुमन्तो भूयास्म मा वास्तोश्छित्स्म ह्यवास्तुः स भूयाद्योऽस्मान्द्वेष्टि यं च वयं द्विष्मः ३ प्रतिष्ठाऽसि प्रतिष्ठावन्तो भूयास्म मा प्रतिष्ठायाश्छित्स्म ह्यप्रतिष्ठः स भूयाद्योऽस्मान्द्वेष्टि यं च वयं द्विष्मः ४ आ वात वाहि भेषजं वि वात वाहि यद्र पः । त्वँ हि विश्वभेषजो देवानां दूत ईयसे ५ द्वविमौ वातौ वात आ सिन्धोरा परावतः । (१)

दक्षं मे अन्य आवातु पराऽन्यो वातु यद्र पः ६ यददो वात ते गृहेऽमृतस्य निधिर्हितः । ततो नो देहि जीवसे ततो नो धेहि भेषजम् । ततो नो मह आ वह ७ वात आ वातु भेषजँ शंभूर्मयोभूर्नो हृदे । प्र ण आयूँ षि तारिषत् ८ इन्द्र स्य गृहोऽसि तं त्वा प्रपद्ये सगुः साश्वः । सह यन्मे अस्ति तेन ९ भूः प्रपद्ये भुवः प्रपद्ये सुवः प्रपद्ये भूर्भुवः सुवः प्रपद्ये वायुं प्रपद्येऽनार्तां देवतां प्रपद्येऽश्मानमाखणं प्रपद्ये प्रजापतेर्ब्रह्मकोशं ब्रह्म प्रपद्य ॐ प्रपद्ये १० अन्तरिक्षं म उर्वन्तरं बृहदग्नयः पर्वताश्च यया वातः स्वस्त्या स्वस्ति मां तया स्वस्त्या स्वस्ति मानसानि ११ प्राणापानौ मृत्योर्मा पातं प्राणापानौ मा मा हासिष्टम् १२ मयि मेधां मयि प्रजां मय्यग्निस्तेजो दधातु मयि मेधां मयि प्रजां मयीन्द्र इन्द्रि यंइन्द्रियं दधातु मयि मेधां मयि प्रजां मयि सूर्यो भ्राजो दधातु १३(२)

द्युभिरक्तुभिः परि पातमस्मानरिष्टेभिरश्विना सौभगेभिः । तन्नो मित्रो वरुणो मामहन्तामदितिः सिन्धुः पृथिवी उत द्यौः १४ कया नश्चित्र आभुवदूती सदावृधः सखा । कया शचिष्ठया वृता १५ कस्त्वा सत्यो मदानां मँ हिष्ठो मत्सदन्धसः । दृढा चिदारुजे वसु १६ अभी षु णः सखीनामविता जरितृऋणाम् । शतं भवास्यूतिभिः १७ वयः सुपर्णा उपसेदुरिन्द्रं प्रियमेधा ऋषयो नाधमानाः । अप ध्वान्तमूर्णुहि पूर्धि चक्षुर्मुमुग्ध्यस्मान्निधयेव बद्धान् १८ (३)

शं नो देवीरभिष्टय आपो भवन्तु पीतये । शं योरभि स्रवन्तु नः १९ ईशाना वार्याणां क्षयन्तीश्चर्षणीनाम् । अपो याचामि भेषजम् २० सुमित्रा न आप ओषधयः सन्तु दुर्मित्रास्तस्मै भूयासुर्यो स्मान्द्वेष्टि यं च वयं द्विष्मः २१ आपो हि ष्ठा मयोभुवस्ता न ऊर्जे दधातन । महे रणाय चक्षसे २२ यो वः शिवतमो रसस्तस्य भाजयतेह नः । उशतीरिव मातरः २३ तस्मा अरङ्गमाम वो यस्य क्षयाय जिन्वथ ।(४)

आपो जनयथा च नः २४ पृथिवी शान्ता साग्निना शान्ता सा मे शान्ता शुचँ शमयतु २५ अन्तरिक्षँ शान्तं तद्वायुना शान्तं तन्मे शान्तँ शुचँ शमयतु २६ द्यौः शान्ता सादित्येन शान्ता सा मे शान्ता शुचँ शमयतु २७ पृथिवी शान्तिरन्तरिक्षँ शान्तिर्द्यौः शान्तिर्दिशः शान्तिरवान्तरदिशाः शान्तिरग्निः शान्तिर्वायुः शान्तिरादित्यः शान्तिश्चन्द्र माः शान्तिर्नक्षत्राणि शान्तिरापः शान्तिरोषधयः शान्तिर्वनस्पतयः शान्तिर्गौः शान्तिरजा शान्तिरश्वः शान्तिः पुरुषः शान्तिर्ब्रह्म शान्तिर्ब्राह्मणः शान्तिः शान्तिरेव शान्तिः शान्तिर्मे अस्तु शान्तिः २८ तयाहँ शान्त्या सर्वशान्त्या मह्यं द्विपदे चतुष्पदे च शान्तिङ् करोमि शान्तिर्मे अस्तु शान्तिः २९ एह श्रीश्च ह्रीश्च धृतिश्च तपो मेधा प्रतिष्ठा श्रद्धा सत्यां धर्मश्चैतानि मोत्तिष्ठन्तमनूत्तिष्ठन्तु मा माँ श्रीश्च ह्रीश्च धृतिश्च तपो मेधा प्रतिष्ठा श्रद्धा सत्यं धर्मश्चैतानि मा मा हासिषुः ३० उदायुषा स्वायुषोदोषधीनाँ रसेनोत्पर्जन्यस्य शुष्मेणोदस्थाममृताँ अनु ३१ तच्चक्षुर्देवहितं पुरस्ताच्छुक्रमुच्चरत् । पश्येम शरदः शतं जीवेम शरदः शतं नन्दाम शरदः शतं मोदाम शरदः शतं भवाम शरदः शतं शृणवाम शरदः शतं प्र ब्रवाम शरदः शतं अजीताः स्याम शरदः शतं ज्योक्च सूर्यं दृशे ३२ य उदगान्महतोऽर्णवाद्विभ्राजमानः सरिरस्य मध्यात्स मा वृषभो लोहिताक्षः सूर्यो विपश्चिन्मनसा पुनातु ३३ ब्रह्मणः श्चोतन्यसि ब्रह्मण आणी स्थो ब्रह्मण आवपनमसि धारितेयं पृथिवी ब्रह्मणा मही धारितमेनेन महदन्तरिक्षं दिओवं दाधार पृथिवीँ सदेवां यदहं वेद तदहं धारयाणि मा मद्वेदोऽधि वि स्रसत् ३४ मेधामनीषे माविशताँ समीची भूतस्य भव्यस्यावरुद्ध्यै सर्वमायुरयाणि सर्वमायुरयाणि ३५ आभिर्गीर्भिर्यदतो न ऊनमाप्यायय हरिवो वर्धमानः । यदा स्तोतृभ्यो महि गोत्रा रुजासि भूयिष्ठभाजो अध ते स्याम ३६ ब्रह्म प्रावादिष्म तन्नो मा हासीत् । ॐ शान्तिः शान्तिः शान्तिः ३७ परावतो
दधातु बद्धाञ् जिन्वथ दृशे सप्त च (५) 4.42