"लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः ०८९" इत्यस्य संस्करणे भेदः

सम्पादनसारांशरहितः
({{header | title = लक्ष्मीनारायणसंहिता - लक्ष्मीनारा... नवीन पृष्ठं निर्मीत अस्ती)
 
 
| notes =
}}
<poem><span style="font-size: 14pt; line-height:200%">श्रीलक्ष्मीरुवाच--
भगवान् सर्वहृद्वास सर्वज्ञ बहुरूपधृक् ।।
धन्वन्तरिस्तृतीयो वै जज्ञे रत्नाकरात्कथम् ॥ १ ॥
तां कथां श्रावय स्वामिन्नारायण जगद्गुरो ।
श्रुत्वा पतिमुखाद् वार्तां नैव तृप्यामि मोक्षदाम् ॥ २ ॥
श्रीनारायण उवाच--
द्वापरे तु युगे चान्ते यदा सर्वेऽल्पबुद्धयः ।
स्वार्थसाधनमात्रार्था अतृप्तस्वस्ववृत्तयः ॥ ३ ॥
लोभमानाद्यधर्मांशव्याप्ता देवाश्च मानवाः ।।
आसँस्तदा युगे चेन्द्रो राज्याभिमानवानपि ॥ ४ ॥
राजसेन तु भावेन समाविष्टः पुरन्दरः ।।
तर्कयामास मनसा दृष्ट्वा काले सदूषणम् ॥५॥
अहो सत्यं तथा त्रेता कीदृशौ समयौ शुभौ ।
व्यतीतौ सुभगौ सर्वसम्पत्प्रदौ यथेष्टदौ ॥ ६ ॥
द्वापरे गम्यमानेऽत्र मानसानि फलन्ति न ।
नेष्टं च प्राप्यते किंचित् दुरापं जायते मुहुः ॥ ७ ॥
दोषोऽत्र न प्रजानां स्याद् यथा राजा तथा प्रजा ।
अतोऽत्राऽऽहूय दिक्पालान् शास्मि कालस्य शुद्धये ॥ ८॥
राज्ञोऽपि वा कियान् दोषो राजानो गुरुशासिताः ।
गुरवोऽत्र तु दृश्यन्ते लुब्धाः स्वार्थपरायणाः ॥ ९ ॥
तस्माद् दण्ड्याश्च गुरवः कालशुद्धिस्ततो भवेत् ।
यादृशा राज्यगुरवस्तादृशा राज्यपालकाः ॥1.89.१०॥
तस्मादाहूय सर्वान् वै केनाऽप्युत्सवछद्मना ।
विज्ञापयामि सौख्यार्थं स्थेयं सत्ययुगे यथा ॥११॥
कालः कलुषतां नेयात् वर्तन्तां तत्तथैव हि ।
एवं विचार्य शक्रेण स्वर्गे ह्याकारिता सभा ॥१२॥
श्रावितं च त्रिलोक्यां वै स्वर्गे चेन्द्रसभागृहे ।।
समागन्तव्यमानागमर्त्यदेवमुनीश्वरैः
समाजे चात्र देवानां भविष्यति महोत्सवः ।।
नरोत्पन्नाऽप्सरसां तु नवं नृत्यं भविष्यति ॥१४॥
धर्मस्य पत्न्यां मूर्त्यां यौ जातौ नरनरायणौ ।।
पित्रोराज्ञामनुप्राप्य तपोऽर्थं कृतमानसौ ॥१५॥
तपतस्तौ विघ्नकर्तुं मयेन्द्रेण प्रणोदिताः ।।
अप्सरसो मोहनार्थं तदा नरेण चाज्ञया ।।१६।।
नारायणस्याऽऽम्रपुष्पैरूर्वशी प्रकटीकृता ।
सुरूपा यौवनव्याप्ता रूपमूर्धन्यभास्वरा ॥१७॥
यदग्रेऽन्याः कृष्णवर्णा निस्तेजस्का इवाऽभवन् ।
सैवोर्वशी तु मे दत्ता सा वै नृत्यं करिष्यति ॥१८॥
तद्दर्शनाय सर्वैस्तु समागन्तव्यमेव ह ।।
इत्युद्घोषयित्वेन्द्रेण कृता स्वर्गे महासभा ॥१९॥
नृत्यं करोत्यूर्वशी च नृत्ये रूपे च मोहिता ।।
कण्ठस्वरे प्रलीना च ह्यमाना त्वभवत्सभा ॥1.89.२०॥
लोकपालाश्च देवाश्च ऋषयोऽप्सरसस्तथा ।।
गन्धर्वाश्च तथा सिद्धा विद्याध्राश्चारणादयः ॥२१॥
देव्यश्चापि तदा सर्वा मुग्धास्तल्लग्नमानसाः ।।
अभवँस्तावदागच्छद् देवराजगुरुः सुधीः ॥२२॥
बहुशिष्यैः परिवृतो बृहस्पतिरुदारधीः ।
नृत्ये संवर्तमानेऽत्र सभाक्षोभो भवेदतः ॥२३॥
इन्द्रस्तत्राऽऽगतं पश्यन् गुरुं वाचस्पतिं द्विजम् ।
नोवाच किंचिद् दुर्मेधा वचो मानपुरःसरम् ॥२४॥
नाऽऽह्वानं नाऽऽसनं तस्य सत्कारं नाऽकरोत्तदा ।
देवास्तु सहसा दृष्ट्वा प्रणेमुस्तमुपस्थितम् ॥२५॥
तदोर्वशी स्वयं तत्र गुरुं ज्ञात्वा बृहस्पतिम् ।
ननाम नृत्यं संत्यज्य सभाक्षोभोऽभवत्तदा ॥२६॥
इन्द्र उत्थाय यावद्वै कालः शुभो भवेद् यथा
भवेद् यदि शुभो राजा सोऽपि स्याद् चेत् शुभो गुरुः ॥२७॥
शुभेन गुरुणा राजा प्रजा कालः शुभा मताः ।।
इत्युपदिशति तावत् सुराचार्यों रुषान्वितः ॥२८॥
ज्ञात्वा शक्रं प्रमत्तं च मदाद् राज्यस्य दुर्मतिम् ।।
तिरोधानमनुप्राप्तः क्व गतो नैव भालितः ॥२९॥
गते देवगुरौ तस्मिन् वैमनस्यं गताः सुराः ।।
यक्षनागाश्च गन्धर्वा अप्सरस द्विजर्षयः ॥1.89.३०॥
नृत्यगानाऽवसाने तु हरिः प्राह सुराँस्तदा ।।
क्व गतोऽयं देवगुरुर्नारदः प्राह तं तदा ॥३१॥
त्वया कृता ह्यवज्ञा वै गुरोर्मानं तु न कृतम् ।।
गुरोरवज्ञया राज्यं लीयते भयमागतम् ॥३२॥
नरो यतते सौख्यार्थं तदेव दु.खकृद् भवेत् ।।
सोऽयं कालस्य संवेगो न राजा कालकारणम् ॥३३॥
न गुरुर्न प्रजा हेतुर्युगः कालस्य कारणम् ।
युगः पर्यावर्तयति मानसानि महात्मनाम् ॥३४॥
तथापि भद्रसन्तत्यै यतितव्यं यथाबलम् ।।
गुरुः क्षमापनीयो वै सर्वभावेन तु त्वया ॥३५॥
नारदस्य वचः श्रुत्वा सदःस्थै परिवारितः ।।
आसनात्सहसोथायाऽगच्छद् गेहं बृहस्पतेः ॥३६॥
दृष्ट्वा तारां प्रणम्याह क्व गतो हि महातपाः ।
न जानामीत्युवाचेत्थं तारा देवान् गृहस्थिता ॥३७॥
तदा चिन्तान्वितो भूत्वा शक्रः स्वालयमाव्रजत् ।
ऐरावतं समारुह्य गुरोर्मार्गणकाम्यया ॥३८॥
व्योममार्गात्पृथिव्यां वै यावदागच्छति द्रुतम् ।।
मार्गे मुनिर्महाक्रोधो दुर्वासा रुद्रकांशजः ॥३९॥
पारिजातप्रसूनानां मालामादाय चागतः ।।
गुरोश्चिन्तनजान्मोहाद् भाविभाग्यपरिक्षयात् ॥1.89.४०॥
कालावेगात्तथा तत्र तुराषाण्न ननाम तम् ।
तथापि ऋषिणा राज्ञः सत्कार्यधर्मगौरवात् ॥४१॥
माला व्योम्नैव मार्गेण त्विन्द्रकण्ठे समर्पिता ।।
इन्द्रस्तां तु समुत्तार्य दत्तवान् हस्तिमस्तके ॥४२॥
हस्तिना सा करेणैव फालिता निहिता पदे ।।
कच्चरिता मर्दिता च दृष्ट्वा चुक्रोध तां मुनिः ॥४३॥
क्रोधज्वालापरीतांगो विकरालभयंकरः ।।
ओष्ठौ दशन् गरं नेत्रे दर्शयन् स्फारयन् थरन् ।।४४॥
उवाच दुष्ट देवेश दूरे तिष्ठतु माननम् ।
प्रत्युत मानितोऽपि त्वं मालां गणयसे नहि ॥४५॥
विदित्वा देवराजं त्वां पूजयित्वा तथापि वै ।।
शठराजः प्रभूत्वा मन्मालां क्षिपसि भूतले ॥४६॥
मर्दनं हस्तिपादेन कारयस्यवमाननम् ।
पुष्पे पुष्पे तु रत्नानि लक्ष्म्यो वसन्ति मद्बलात् ॥४७॥
वैकुण्ठाच्छ्रीहरेः प्रासादिकी लब्धाऽर्पिताऽत्र ते ।
सा प्रदत्ता मया तां त्वं कच्चरयसि पत्तले ।
रत्नानां लक्ष्मीनां चापि नाशं करोषि मौढ्यतः ॥४८॥
तस्मात् त्रिलोकिराज्यं ते विनाशं यातु सर्वथा ।
सम्पदः स्मृद्धयो लक्ष्म्यो रत्नानि विविधानि च ॥४९॥
लयं यान्तु महावार्धौ त्वमनिद्रो भव क्षणात् ।
दुर्वासा एवमुक्तैव कैलासमगमत् ततः ।।1.89.५०॥
अम्बालिकाध्वजस्तत्रैवाऽपतद्भूतले ततः ।
मुकुटोऽप्यपतन्मूर्ध्नः क्षौति स्म च करी तदा ॥५१॥
अंकुशं वै विगलितं हस्तात् हस्तिपकस्य तु ।।
एतस्मिन्नन्तरे स्वर्गे त्वनिष्टान्यभवन्क्षणात् ॥५२
ऐरावतश्चालितोऽपि स्वर्गं प्रति न गच्छति ।
उन्मत्तः सन् देवराजं द्रावयत्येव चाभितः ॥५३॥
इतिश्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने नरनारायणोत्पादितोर्वश्या नर्तनोत्सवसमाजे बृहस्पतेरवमाननं दुर्वाससोऽवमानं राज्यलक्ष्मीनाशकशापश्चेन्द्रस्येत्यादिनिरूपणनामा एकोननवतितमोऽध्यायः ॥ ८९॥
 
</span></poem>
३६,७३१

सम्पादन

"https://sa.wikisource.org/wiki/विशेषः:MobileDiff/150038" इत्यस्माद् प्रतिप्राप्तम्