"लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः १०७" इत्यस्य संस्करणे भेदः

सम्पादनसारांशरहितः
({{header | title = लक्ष्मीनारायणसंहिता - लक्ष्मीनारा... नवीन पृष्ठं निर्मीत अस्ती)
 
 
| notes =
}}
<poem><span style="font-size: 14pt; line-height:200%">श्रीलक्ष्मीरुवाच
गणेशस्य श्रुता नाथ ! कथा चित्रपराक्रमा ।
भाद्रे कृष्णे चतुर्थ्यां तु चन्द्रोदयाऽऽद्ययामके ॥ १ ॥
गणेशस्तु समुत्पन्नस्तदा तस्य व्रतं मतम् ।।
सांगदेवो निरंगो वा पूज्यः किं तत्तु मे वद ॥ २ ॥
श्रीनारायण उवाच--
पत्नीपुत्रवाहनैश्च सहितोऽर्च्यो गणेश्वरः ।
मातृपितृसमश्चापि सदा पूज्यो गणेश्वरः ।। ३ ।।
स्कन्दो गणपतिश्चैतौ मातापित्रोः सुखौ सुतौ ।।
तयोर्विवाहकार्यार्थं शिवाशंभू समूचतुः ॥ ४ ॥
विवाहश्च कथं कार्यः पुत्रयोरुभयोः शुभः ।।
षण्मुखः सेनयाऽऽप्तश्च गणेशो मे प्रियोज्झितः ।।५।।
गणेशस्य विवाहार्थं यत्नः कार्यः शुभो मतः ।
कार्तिकेयस्य वाञ्च्छाऽस्ति विवाहाय पुनस्तथा ॥ ६ ॥
हार्दं कन्याप्रदानाय विश्वरूपप्रजापतेः ।।
द्वाभ्यां कन्याद्वयं देयं वर्ततेऽतस्तथा भवेत् ॥ ७ ॥
किन्तु देयं गणेशाय कन्यारत्नद्वयं वरम् ।
कदाचित्तौ समाहूय कथयामासतुस्तदा ॥ ८ ॥
शृणुतं सुसुतौ प्रीत्या कथयावो यथार्थकम् ।।
एकः सदारो ज्येष्ठोऽसि गणेशो दारवर्जितः ॥ ९ ॥
युवयोर्वै विवाहस्य सुखदो नियमः कृतः ।
समौ द्वावपि सत्पुत्रौ विशेषो नाऽत्र लभ्यते ॥1.107.१०॥
तस्मात्पणः कृतः शंदः पुत्रयोरुभयोरपि ।
यश्चैव पृथिवीं सर्वां क्रान्त्वा पूर्वमुपाव्रजेत् ॥११॥
तस्यैव प्रथमं कार्यो विवाहः शुभलक्षणः ।।
श्रुत्वैतद्वचनं पित्रोः कार्तिकेयो महाबलः ॥१२॥
जगाम मन्दिरात्तूर्णं शिखिवाहनसंस्थितः ।।
पृथिव्यास्तु बहुवेगात् परिक्रमणहेतवे ॥१३॥
गणनाथस्तु तत्रैव संस्थितः सुविचार्य वै ।।
वाहनं मम तु पृथ्व्यां गतिमन्नैव धावति ॥१४॥
व्योममार्गेण गन्ता क्व क्वाहं पृथिवीमार्गगः ।।
किं कर्तव्यं क्व गन्तव्यं स्वयं स्थूलशरीरकः ॥१५॥
क्रोशमात्रं गते चाग्रे श्रमाद्गन्तुं न शक्यते ।
किं पुनः पृथिवीं क्रान्त्वा विजयाशा विडम्ब्यते ॥१६॥
इत्येवं सुविचार्यैव गृहं स्नात्वा प्रविश्य च ।।
प्रणम्य पितरौ देवो गणेशः समुवाच तौ ॥१७॥
माता पृथ्वी पिता स्वर्गं गौस्तु ब्रह्माण्डमुच्यते ।
माता मे पार्वती देवी पिता मे शंकरः प्रभुः ॥१८॥
गौस्तयोर्वाहनं चास्ति वृषभोऽयं सुधर्मराट् ।
गौस्तु पृथ्वीस्वरूपा मे माताऽपीलास्वरूपिणी ॥१९॥
पिता मे शंकरस्तस्य शरीरं वसुधा मता ।।
पूजा त्रयाणां कर्तव्या मया यात्रासुसिद्धये ॥1.107.२०॥
आसने स्थापिते चात्र पूजार्थं भवतोस्तथा ।।
अतिष्ठतं गुरू चात्र पूरयतं मनोगतम् ॥२१॥
इतिश्रुत्वा वचस्तस्य तत्पूजाग्रहणाय तौ ।।
अस्थातामासने तौ च पुपूज गणनायकः ॥२२॥
प्रदक्षिणं तयोः सप्तवारं पुत्रेण सत्कृतम् ।।
प्रणामाश्चापि विहिताः सप्त एवार्पितं ततः ॥२३॥
गणेशः प्राह मातर्मे शीघ्रं विवाहनं कुरु ।।
माता प्राह द्रुतं पुत्र पृथ्वीप्रदक्षिणां कुरु ॥२४॥
कुमारात्पूर्वमायाहि विवाहः प्रथमो भवेत् ।।
गणेशः प्राह रे मातः श्रूयतां वचनं मम ॥२५॥
मया तु पृथिवी क्रान्ता सप्तवारं पुनः पुनः ।।
माता प्राह कदा पुत्र त्वया क्रान्ता वसुन्धरा ॥२६॥
गणेशः प्राह भवतोः कृतं प्रदक्षिणं मया ।
तेन वै सा समुद्रान्ता मया प्रदक्षिणीकृता ।।२७॥
माता धरा पिता द्यौश्च द्वयोर्धर्मस्वरूपता।
वृषभो वाहनं धर्मस्तस्य वामाधर्क तु गौः ॥२८॥
इत्युक्त्वा वृषभं तातं मातरं च प्रदक्षिणाम् ।
चक्रे तेन तदा जातं पृथ्वीप्रदक्षिणं ततः ॥२९॥
पितरावूचतुः हृष्टौ बाढं पुत्र त्वया कृतम् ।
प्राप्तं तेन समग्रायाः पृथ्व्याः प्रदक्षिणाफलम् ॥1.107.३०॥
श्रद्धयाऽवाप्यते धर्मः श्रद्धयाऽवाप्यते हरिः ।
श्रद्धयाऽवाप्यते सिद्धिः श्रद्धयाऽवाप्यते फलम् ॥३१॥
माता पिता गृहे तीर्थं गंगा तु गृहिणी सदा ।
यदि श्रद्धा न तत्राऽस्ति व्यर्थं सर्वं कृतं भवेत् ॥३२॥
पित्रोस्तु पूजनं कृत्वा प्रक्रान्तिं च करोति यः ।।
तस्य वै पृथिवीक्रान्तिजन्यं सम्पद्यते फलम् ॥३३॥
अपहाय गृहे यो वै पितरौ तीर्थमाव्रजेत् ।
न तीर्थफलभागी स्यादसेवादोषभाग् भवेत् ॥३४॥
पुत्रस्यात्र महत्तीर्थं पित्रोश्चरणपंकजम् ।
इदं सन्निहितं तीर्थं सुलभं धर्मसाधनम् ॥३५॥
पत्न्यास्तीर्थं पतिः प्रोक्तः पुत्रस्य पितरौ तथा ।।
पत्युः पतिव्रता पत्नी तीर्थानि तारकाणि वै ॥३६॥
यदि सत्यं शास्त्रदृष्टं सदा पृथ्वीप्रदक्षिणम् ।
जातं प्राह गणेशो मे न चेच्छास्त्रमसत्यकम् ॥३७॥
पितृभक्तिरसत्या स्यात् सर्वा सा निष्फला भवेत् ।
मातृभक्तिर्गवां भक्तिः सर्वथा निष्फला भवेत् ॥३८॥
तस्मात् प्रदक्षिणं पृथ्व्याः सर्वथाऽत्र मया कृतम् ।
शीघ्रं च भवितव्यो मे विवाहः क्रियतां शुभः ॥३९॥
इति श्रुत्वा वचस्तस्य प्रसन्नौ पितरौ च तम् ।।
प्राहतुः पुत्र शास्त्रज्ञ बुद्धिस्ते शास्त्रगामिनी ॥1.107.४०॥
कैरपि शास्त्रमर्यादाऽन्यथाकर्तुं न शक्यते ।
उपस्थिते त्वगम्ये वै कार्ये श्रद्धा तु शास्त्रजा ।।४१॥
युज्यते च तथा दुःखे यस्य बुद्धिर्विशिष्यते ।।
तस्य दुःखं विनश्येत्तु बुद्धिप्रज्ञाप्रभावतः ॥४२॥
बुद्धिर्यस्य बलं तस्य निर्बुद्धेस्तु कुतो बलम् ।
कूपे सिंहो मदोन्मत्तो गोमायुना निपातितः ॥४३॥
सम्यक् कृतं त्वया पुत्र पृथ्वीप्रदक्षिणं कृतम् ।
गोमातृपितृक्रमणात् कृतं धर्मस्य पालनम् ॥४४॥
कार्तिकस्तु न चायाति पराधावति वेगतः ।
मार्गे त्वग्रे मूषकस्थं यान्तं पश्यति चानुजम् ॥४५॥
यतो गणेशः पित्रोस्तु यदाऽकरोत्प्रदक्षिणाम् ।
तस्य पुण्यस्य लाभेन गणेशस्याऽन्यरूपकम् ॥४६॥
भूत्वा धावति चाग्रे वै कार्तिकेयस्य वेगतः ।।
कार्तिकेयस्तु तद्दृष्ट्वा शुशोच परमं तदा ॥४७॥
अहोऽयमुन्दुरुः स्वल्पस्तत्र स्थूलो गणेशकः ।
कीदृशेन च वेगेन त्वग्रे प्राग्रे प्रधावति ॥४८॥
मया मयूरबर्हाणि कशया वायुना तथा ।।
पातितानि हि सर्वाणि वेगार्थं ताडितो मुहुः ॥४९॥
मयूरोऽपि तथा यावद्बलेनोड्डीयतेऽधुना ।।
तथापि न गणेशं वै संप्राप्नोमि क्रमेत कः ॥1.107.५०॥
उल्लंघनं प्राग्गमनं स्वप्नेऽपि नैव दृश्यते ।
तस्मान्नाऽयं विवाहोऽन्यो मया कार्यः शपे त्विति ॥५१॥
इति कृत्वा परावृत्याऽगच्छद् यत्र गृहं स्वकम् ।
शान्तो भूत्वा प्रविश्य सेनया श्रममपानुदत् ॥५२॥
गणेशस्य विवाहार्थं पितरावुद्यतौ तदा ।।
कार्तिकेयस्य मार्गं च प्रतीक्षन्तौ प्रतिष्ठतः ॥५३॥
इतिश्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने गणेशकार्तिकेयविवाहे गणेशेन पृथिवीप्रदक्षिणाफलार्थं मातापितृगोप्रदक्षिणा कृतेत्यादिनिरूपणनामा सप्ताधिकशत
तमोऽध्यायः ॥ १०७ ॥
 
</span></poem>
३१,९७३

सम्पादन

"https://sa.wikisource.org/wiki/विशेषः:MobileDiff/150726" इत्यस्माद् प्रतिप्राप्तम्