"ऋग्वेदः सूक्तं ८.२७" इत्यस्य संस्करणे भेदः
Content deleted Content added
No edit summary |
No edit summary |
||
पङ्क्तिः ५८:
{{सायणभाष्यम्|
'अग्निरुक्थे ' इति द्वाविंशत्यृचं सप्तमं सूक्तम् । अत्रानुक्रमणिका– अग्निरुक्थे द्व्यधिका मनुर्वैवस्वतो वैश्वदेवं ह प्रागाथम्' इति । विवस्वतः पुत्रो मनुर्ऋषिः। प्रथमातृतीयाद्ययुजो बृहत्यो द्वितीयाचतुर्थादियुजः सतोबृहत्यः । इदमादीनां चतुर्णां सूक्तानां विश्वे देवा देवता । सूक्तविनियोगो लैङ्गिकः ॥
अ॒ग्निरु॒क्थे पु॒रोहि॑तो॒ ग्रावा॑णो ब॒र्हिर॑ध्व॒रे ।
ऋ॒चा या॑मि म॒रुतो॒ ब्रह्म॑ण॒स्पतिं॑ दे॒वाँ अवो॒ वरे॑ण्यम् ॥
अग्निः । उक्थे । पुरःऽहितः । ग्रावाणः । बर्हिः । अध्वरे ।
ऋचा। यामि । मरुतः । ब्रह्मणः । पतिम् । देवान् । अवः । वरेण्यम् ॥ १ ॥
मनुः प्रार्थयते । "उक्थे स्तोत्रशस्त्रात्मके "अध्वरे हिंसारहितेऽस्मिन् यज्ञे “अग्निः “पुरोहितः यज्ञार्थं पुरत उत्तरवेद्यामृत्विग्भिर्निहितोऽभूत् । तथा “ग्रावाणः च सोमाभिषवार्थं पुरतो निहिताः । “बर्हिः च पुरतो निहितमासादितम् । एवं सामग्र्यां सत्यां मरुतः एकोनपञ्चाशन्मरुद्गणान् "ब्रह्मणस्पतिं स्तोत्रस्य पालयितारमेतन्नामकं देवं "देवान् इन्द्रादींश्च एतान् सर्वान् देवान् "वरेण्यं वरणीयं भजनीयम् "अवः रक्षणम् "ऋचा सूक्तरूपया स्तुत्या "यामि मनुरहं याचामि। याचतेर्लटि रूपम् । वर्णलोपश्छान्दसः ॥
आ प॒शुं गा॑सि पृथि॒वीं वन॒स्पती॑नु॒षासा॒ नक्त॒मोष॑धीः ।
विश्वे॑ च नो वसवो विश्ववेदसो धी॒नां भू॑त प्रावि॒तारः॑ ॥
आ। पशुम् । गासि । पृथिवीम् । वनस्पतीन्। उषसा । नक्तम् । ओषधीः ।
विश्वे । च । नः । वसवः । विश्वऽवेदसः । धीनाम् । भूत। प्रऽअवितारः ॥ २ ॥
पूर्वार्धर्चेऽग्निः संबोध्यते पश्वादिशब्दसद्भावात् । हे अग्ने नोऽस्मदीये यज्ञे पशुम् अग्नीषोमीयं पशुं प्रति “आ “गासि आगच्छसि। गाङ् गतौ । व्यत्ययेन परस्मैपदम् । तथा “पृथिवीम् इदं देवसदनं प्रति किंच "वनस्पतीन् मथनसाधनानरणिरूपान् वनस्पतीन् प्रति तथा “उषासा होतव्यत्वेन उषःकालं तथा “नक्तं यष्टव्यतया रात्रिं च प्रति किंच "ओषधीः । ‘उष दाहे' अत्र मादनकर्मा । ओषन्ति माद्यन्त्यनेनेत्योषः सोमः । स धीयते निधीयते येष्वित्योषधयो ग्रावाणः । तान् प्रत्यागच्छसि । यद्वा । ओषध्यः फलपाकान्ता लताः । ताः प्रत्यायाहि। अथवा हे स्तोतः पश्वादीन्
आ गासि समन्तात् स्तुहि । ‘कै गै शब्दे' इति धातुः । ततो हे "वसवः वासयितारः "विश्ववेदसः सर्वधनाः सर्वज्ञाना वा हे "विश्वे सर्वेऽपि देवाः “नः अस्मदीयानां कर्मणां “प्रावितारः “भूत । अनेनाग्निना सह यूयं प्रकर्षेण रक्षका भवत ॥
प्र सू न॑ एत्वध्व॒रो॒३॒॑ऽग्ना दे॒वेषु॑ पू॒र्व्यः ।
आ॒दि॒त्येषु॒ प्र वरु॑णे धृ॒तव्र॑ते म॒रुत्सु॑ वि॒श्वभा॑नुषु ॥
प्र। सु । नः । एतु । अध्वरः । अग्ना। देवेषु । पूर्व्यः ।
आदित्येषु । प्र । वरुणे । धृतऽव्रते। मरुत्ऽसु । विश्वऽभानुषु ।। ३ ।।
"पूर्व्यः पुरातनः । पूर्व्यान् पुरातनानिन्द्रादीन् देवान् प्रति क्रियमाणत्वात् यज्ञोऽपि पूर्व्यं इत्युच्यते । तादृशो मुख्यः "नः अस्मदीयः "अध्वरः यज्ञः "अग्ना। ‘सुपां सुलुक्' इति सप्तम्या डादेशः । अग्नौ । अग्निर्देवानां मुख्यत्वात् प्रथममभिहितः । तस्मिन्नग्नौ सर्वेष्वन्येषु "देवेषु च "सु सुष्ठु “प्र “एतु प्रकर्षेण गच्छतु । देवान् विशिनष्टि। "आदित्येषु अदितेः पुत्रेष्विन्द्रादिषु “धृतवते धृतकर्मणि "वरुणे च "विश्वभानुषु सर्वतो व्याप्ततेजस्केषु "मरुत्सु च “प्र एतु ॥
विश्वे॒ हि ष्मा॒ मन॑वे वि॒श्ववे॑दसो॒ भुव॑न्वृ॒धे रि॒शाद॑सः ।
अरि॑ष्टेभिः पा॒युभि॑र्विश्ववेदसो॒ यन्ता॑ नोऽवृ॒कं छ॒र्दिः ॥
विश्वे । हि। स्म । मनवे । विश्वऽवेदसः । भुवन् । वृधे। रिशादसः ।
अरिष्टेभिः । पायुऽभिः । विश्वऽवेदसः । यन्त । नः । अवृकम् । छर्दिः ॥ ४ ॥
“विश्ववेदसः सर्वतो व्याप्तधनाः । बहुधना इत्यर्थः। तादृशाः "रिशादसः रिशतां हिंसतां शत्रूणामसितार उपक्षपयितारो वा “विश्वे "हि “ष्म सर्वे खलु देवाः “मनवे । षष्ट्यर्थे चतुर्थी। मनोः "वृधे वर्धनाथ “भुवन् भवन्तु । स्तोत्रे मनुष्याय धनं दत्वा तं वर्धयन्तु इत्याशास्ते । ततो हे "विश्ववेदसः सर्वधनाः सर्वज्ञा वा देवाः "अरिष्टेभिः परैरहिंसितैः "पायुभिः पालनैः सह "अवृकम् । वृकः स्तेनः । तद्रहितम्। बाधारहितमित्यर्थः । तादृशं “छर्दिः गृहं "नः अस्मभ्यं "यन्त प्रयच्छत । शत्रून् हृत्वा गृहेष्वस्माभिः कर्माणि कारयतेत्यर्थः । यन्तेति यमेर्लोटि छान्दसो विकरणस्य लुक् । तस्य तबादेशः । तेनानुनासिकलोपाभावः ॥
आ नो॑ अ॒द्य सम॑नसो॒ गन्ता॒ विश्वे॑ स॒जोष॑सः ।
ऋ॒चा गि॒रा मरु॑तो॒ देव्यदि॑ते॒ सद॑ने॒ पस्त्ये॑ महि ॥
आ। नः । अद्य । सऽमनसः । गन्त । विश्वे । सऽजोषसः ।
ऋचा । गिरा। मरुतः । देवि । अदिते । सदने । पस्त्ये। महि ॥५॥
"समनसः सर्वेषु स्तोतृषु समानमनस्काः "विश्वे सर्वे देवा यूयं सजोषसः परस्परं संगताः सन्तः "गिरा। शुश्रूषुतया प्राप्तव्ययेत्यर्थः । तया “ऋचा सह "अद्य अस्मिन् यागदिने “नः यष्टॄन् अस्मान् “आ “गन्त आगच्छत । अनन्तरं हे “मरुतः "देवि द्योतमाने “महि महति देवानां मातृत्वान्महत्वयुक्ते हे "अदिते अदीने एतन्नामिके देवि "सदने स्थाने "पस्त्ये अम्मदीये गृहे स्तोतव्यतयोपविशत ॥ मरुत इत्यादेर्वाक्यभेदादनिघातः । उत्तरत्र पूर्वस्यामन्त्रितस्याविद्यमानवत्त्वेन वाक्यादित्वादनिघातः ॥ ॥ ३१ ॥
अ॒भि प्रि॒या म॑रुतो॒ या वो॒ अश्व्या॑ ह॒व्या मि॑त्र प्रया॒थन॑ ।
आ ब॒र्हिरिन्द्रो॒ वरु॑णस्तु॒रा नर॑ आदि॒त्यासः॑ सदन्तु नः ॥
अभि । प्रिया । मरुतः । या । वः । अश्व्या । हव्या । मित्र । प्रऽयाथन ।
आ। बर्हिः । इन्द्रः। वरुणः । तुराः । नरः । आदित्यासः । सदन्तु । नः ॥ ६॥
हे मरुतः "प्रिया प्रियाणि "या यानि “वः युष्माकम् "अश्व्या अश्व्यानि प्रियानश्वसंघान् “अभि "प्रयाथन अस्मद्यज्ञं प्रति प्रापयत । यूयमश्वैर्युक्ताः सन्त आगच्छतेत्यर्थः । अथ हे "मित्र। मित्रशब्देनान्ये वरुणादयोऽप्युच्यन्ते । हे मित्रादयो देवाः "हव्या हव्यानि हवनयोग्यानि हवींषि स्वीकर्तुमागच्छतेत्यर्थः। स्तूयमाना आगच्छत । प्रपूर्वाद्यातेर्लोटि तप्तनप्तनथनाश्च' इति थनादेशः । आगत्य च "इन्द्रो "वरुणः इन्द्रावरुणौ "तुराः संग्रामे शत्रुवधार्थं त्वरमाणाः "नरः नेतारः “आदित्यासः अदितेः पुत्रा मरुदादयो देवाश्च "नः अस्मदीये यज्ञे "बर्हिः बर्हिषि आसादिते "आ “सदन्तु आसीदन्तु प्रविशन्तु । सदेः सीदादेशाभावश्छन्दसः ।।
व॒यं वो॑ वृ॒क्तब॑र्हिषो हि॒तप्र॑यस आनु॒षक् ।
सु॒तसो॑मासो वरुण हवामहे मनु॒ष्वदि॒द्धाग्न॑यः ॥
वयम् । वः । वृक्तऽबर्हिषः । हितऽप्रयसः । आनुषक् ।
सुतऽसोमासः । वरुण। हवामहे । मनुष्वत् । इद्धऽअग्नयः ॥ ७ ॥
हे वरुण वरुणादयो हे देवाः “वृक्तबर्हिषः ऋत्विजः "वयम् "आनुषक् स्रुगादिष्वनुषक्तं यथा भवति तथा “हितप्रयसः । प्रीणातीति प्रयोऽन्नम् । तेषु निहितहविष्काः सन्तः "वः युष्मान् “हवामहे एतानि हवींष्यादातुमाह्वयामः । कीदृशाः । "सुतसोमासः अभिषुतसोमाः "इद्धाग्नयः आहुतिभिः समिद्धाग्नयो वयमाह्वयामः । तत्र दृष्टान्तः । "मनुष्वत् । मनुर्यथा यज्ञे युष्मानाजुहाव तद्वत् ॥
आ प्र या॑त॒ मरु॑तो॒ विष्णो॒ अश्वि॑ना॒ पूष॒न्माकी॑नया धि॒या ।
इन्द्र॒ आ या॑तु प्रथ॒मः स॑नि॒ष्युभि॒र्वृषा॒ यो वृ॑त्र॒हा गृ॒णे ॥
आ। प्र । यात। मरुतः । विष्णो इति। अश्विना । पूषन् । माकीनया। धिया ।
इन्द्रः । आ । यातु। प्रथमः । सनिष्युऽभिः । वृषा । यः । वृत्रऽहा । गृणे ॥ ८ ॥
हे विश्वे देवाः “प्र “यात प्रकर्षेणास्मदीयकर्मण्यागच्छत । हे "मरुतः हे "विष्णो स्वबलेन सर्वतो व्याप्तैतन्नामक देव हे "अश्विना अश्विनौ "पूषन् । स्तोतॄन् धनादिना पोषयतीति पूषा । एतन्नामक देव मरुदादयो हे देवाः "माकीनया मामकीनया। अस्मच्छब्दात् ' युष्मदस्मदोः' (पा. सू. ४, ३,१) इति खञ् शैषिकः । एकवचने ' तवकममकौ ' इति ममकादेशः । वर्णलोपश्छन्दसः । मया क्रियमाणया “धिया स्तुत्या सहास्मद्यज्ञं प्रत्यागच्छत । मरुदादेरामन्त्रितस्य वाक्यभेदादनिघातः । किंच "प्रथमः देवानां मुख्यः सः "इन्द्रः च “आ "यातु । "वृषा कामाना सेक्ता "यः इन्द्रः "सनिष्युभिः । सनिः संभजनम् । तदात्मन इच्छद्भिः स्तोतृभिः "वृत्रहा अपामावरकस्य वृत्रासुरस्य हन्तेति "गृणे स्तूयते ।' गॄ शब्दे' इत्यस्य कर्मणि लिटि छान्दसो विकरणः ॥
वि नो॑ देवासो अद्रु॒होऽच्छि॑द्रं॒ शर्म॑ यच्छत ।
न यद्दू॒राद्व॑सवो॒ नू चि॒दन्ति॑तो॒ वरू॑थमाद॒धर्ष॑ति ॥
वि। नः । देवासः । अदुहः । अच्छिद्रम् । शर्म । यच्छत ।
न । यत् । दूरात् । वसवः । नु । चित् । अन्तितः । वरूथम् । आऽदधर्षति ॥ ९॥
हे अद्रुहः स्तोतॄणामद्रोग्धारः । यद्वा । द्रुहेरौणादिकः कर्मणि क्विप् । शत्रुभिरहिंस्याः । हे "देवासः मरुदादयो देवाः "अच्छिद्रं बाधकरहितं साधीयो वा "शर्म । शृणाति दुःखादिकमिति शर्म गृहम् । तत् "नः अस्मभ्यं "वि “यच्छत । हे "वसवः शत्रूणां वासयितारो मरुदादयः "दूरात् दूरदेशात् “अन्तितः अन्तिकदेशाद्वा कश्चिदागत्य "नू "चित् कदाचिदपि “वरूथं वरणीयं संभजनीयं "यत् गृहं "न “आदधर्षति आधर्षणं हिंसनं न करोति तद्गृहं प्रयच्छतेति समन्वयः। 'धृष प्रसहने' इत्यस्य विभाषितणिच्त्वात् यदा णिच् नास्ति तदा रूपम् ।।
अस्ति॒ हि वः॑ सजा॒त्यं॑ रिशादसो॒ देवा॑सो॒ अस्त्याप्य॑म् ।
प्र ण॒ः पूर्व॑स्मै सुवि॒ताय॑ वोचत म॒क्षू सु॒म्नाय॒ नव्य॑से ॥
अस्ति । हि। वः । सुऽजात्यम् । रिशादसः । देवासः । अस्ति । अयम् ।आप्यम्।
प्र। नः । पूर्वस्मै । सुविताय । वोचत । मक्षु । सुम्नाय । नव्यसे ।। १० ॥
हे "रिशादसः रिशतां हिंसतामसितारः "देवासः देवा द्योतमाना मरुदादयः “वः युष्माकं “सजात्यम् "अस्ति परस्परं समानजातिभावोऽस्ति खलु । किंच “आप्यम् । आपिर्बन्धुः । तस्य भाव आप्यम् । स्तोतृषु स्तुत्यलक्षणेन संबन्धात् वैवस्वतेन मनुना मया स्तोत्रा सह युष्माकं बन्धुभावः "अस्ति खलु । ततः "पूर्वस्मै प्रथमभाविने "सुविताय । सुष्ठु ईयते सर्वैरागम्यत इति सुवितोऽभ्युदयः । तस्मै "नव्यसे नवीयसे नवतराय "सुम्नाय च उभयं "मक्षु शीघ्रं "नः अस्माकं “प्र “वोचत प्रकर्षेण ब्रूत । अभ्युदयधनानि प्रयच्छतेत्यर्थः ॥ ॥ ३२ ॥
इ॒दा हि व॒ उप॑स्तुतिमि॒दा वा॒मस्य॑ भ॒क्तये॑ ।
उप॑ वो विश्ववेदसो नम॒स्युराँ असृ॒क्ष्यन्या॑मिव ॥
इदा । हि। वः । उपऽस्तुतिम् । इदा । वामस्य । भक्तये ।
उप । वः । विश्वऽवेदसः । नमस्युः । आ । असृक्षि । अन्याम्ऽइव ॥ ११ ॥
हे "विश्ववेदसः सर्वधना हे देवाः "नमस्युः अन्नमिच्छन् मनुरहं “वः युष्मद्विषयाम् "उपस्तुतिम् “अन्यामिव अदृष्टपूर्वामिव स्थिताम् । कैश्चिदप्यकृतामित्यर्थः । तादृशीमुपस्तुतिम् "इदा "हि ।
उदु॒ ष्य वः॑ सवि॒ता सु॑प्रणीत॒योऽस्था॑दू॒र्ध्वो वरे॑ण्यः ।
|