"ऋग्वेदः सूक्तं ८.२७" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १८०:
 
हे "विश्ववेदसः सर्वधना हे देवाः "नमस्युः अन्नमिच्छन् मनुरहं “वः युष्मद्विषयाम् "उपस्तुतिम् “अन्यामिव अदृष्टपूर्वामिव स्थिताम् । कैश्चिदप्यकृतामित्यर्थः । तादृशीमुपस्तुतिम् "इदा "हि ।
हिरवधारणे । इदानीमेव उप "आ असृक्षि उपासृजामि करोमीत्यर्थः । किमर्थम् । "वः युष्मत्संबन्धिनः "वामस्य वननीयस्य “इदा इदानीमेव "भक्तये संभजनाय । लाभायेत्यर्थः । असृक्षीति सृजेर्लुङि रूपम् । पादादित्वादनिघातः ॥
 
 
Line १८५ ⟶ १८६:
 
नि द्वि॒पाद॒श्चतु॑ष्पादो अ॒र्थिनोऽवि॑श्रन्पतयि॒ष्णवः॑ ॥
 
उत् । ॐ इति । स्यः । वः । सविता । सुऽप्रनीतयः । अस्थात् । ऊर्ध्वः । वरेण्यः ।
 
नि । द्विऽपादः । चतु:ऽपादः । अर्थिनः । अविश्रन् । पतयिष्णवः ॥ १२ ॥
 
हे सुप्रणीतयः । शोभनप्रणीतिः स्तुतिः । शोभनप्रणयनाः शोभनस्तुतयो मरुतः "वः युष्माकं मध्ये “ऊर्ध्वः ऊर्ध्वं गन्ता "वरेण्यः सर्वैर्वरणीयः संभजनीयः सः "सविता सर्वस्य स्वकर्मणि प्रेरक एतन्नामकः स देवो यदा "उत् "अस्थात् स्वतेजसोद्गतोऽभूत् तदा "अर्थिनः "द्विपादः पादद्वययुक्ताः पुरुषाः "चतुष्पादः पादचतुष्टययुक्ता अश्वादयः "पतयिष्णवः पतनशीलाः पक्षिणश्च "नि "अविश्रन् स्वस्वकार्येषु निविशन्ते । सूर्य उदिते केचन पुरुषा अग्निहोत्रादिकं कुर्वन्ति केचन देवताविषयं स्तोत्रं कुर्वते । पश्वादयस्तृणादिभक्षणार्थं सर्वत्र संचरन्ति । न्यविश्रन् । निपूर्वाद्विशतेर्लङि व्यत्ययेन परस्मैपदम् । ‘बहुलं छन्दसि ' इति रुडागमः ॥
पञ्चमेऽहनि प्रउगशस्त्रे ‘देवदेवम्' इति वैश्वदेवस्तृचः । सूत्रितं च-- देवंदेवं बृहदु गायिषे वचः' (आश्व. श्रौ. ७. १२) इति ।।
 
 
दे॒वंदे॑वं॒ वोऽव॑से दे॒वंदे॑वम॒भिष्ट॑ये ।
 
दे॒वंदे॑वं हुवेम॒ वाज॑सातये गृ॒णन्तो॑ दे॒व्या धि॒या ॥
 
देवम्ऽदेवम् । वः । अव॑से । देवम्ऽदेवम् । अभिष्टये ।।
 
देवम्ऽदेवम् । हुवेम । वाजऽसातये । गृणन्तः । देव्या । धिया ॥ १३ ॥
 
वयं "देव्या द्योतमानया "धिया स्तुत्या "गृणन्तः स्तुवन्तः सन्तः वः युष्माकं मध्ये "देवंदेवं दीप्यमानं देवम् "अवसे कर्मरक्षणाय आह्वयाम। अनुक्रमेणाह। "अभिष्टये अभिलषितप्राप्त्यर्थं च “देवदेवं वयमाह्वयाम । ततः “वाजसातये अन्नलाभाय "हुवेम ह्वयाम ॥
 
 
दे॒वासो॒ हि ष्मा॒ मन॑वे॒ सम॑न्यवो॒ विश्वे॑ सा॒कं सरा॑तयः ।
 
ते नो॑ अ॒द्य ते अ॑प॒रं तु॒चे तु नो॒ भव॑न्तु वरिवो॒विदः॑ ॥
 
देवासः । हि। स्म । मनवे । सऽमन्यवः । विश्वे । साकम् । सऽरातयः ।।
 
ते । नः। अद्य । ते । अपरम् । तुचे । तु । नः । भवन्तु । वरिवःऽविदः ॥ १४ ॥
 
“समन्यवः समानमनसः यद्वा संग्रामेषु शत्रुहननार्थं समानक्रोधयुक्ताः "विश्वे सर्व एव “देवासो “हि “ष्म मरुदादयो देवाः खलु "मनवे एतान्नामकाय ऋषये मह्यं "साकं सह युगपदेव “सरातयः धनादिदानेन सहिताः भवन्तु । पुनरपि प्रार्थ्यते । "ते देवाः नः अस्माकम् "अद्य अस्मिन् दिने "अपरं च किं बहुना सर्वेषु दिवसेषु धनदातारो भवन्तु। न केवलमस्माकमेव किंतु
“तुचे । तुमि(तुगि)त्यपत्यनाम। तुजि पिजि हिंसादाननिकेतनेषु'। तोजयति हिनस्ति पितुर्दुःखादिकमिति तुक् पुत्रः । तस्मै "नः अस्माकं पुत्राय “वरिवोविदः वरणीयस्य धनस्य लम्भयितारः “भवन्तु ।।
 
 
प्र वः॑ शंसाम्यद्रुहः सं॒स्थ उप॑स्तुतीनाम् ।
 
न तं धू॒र्तिर्व॑रुण मित्र॒ मर्त्यं॒ यो वो॒ धाम॒भ्योऽवि॑धत् ॥
 
प्र। वः । शंसामि । अद्रुहः । सम्ऽस्थे । उपऽस्तुतीनाम् ।।
 
न । तम् । धूर्तिः । वरुण । मित्र । मर्त्यम् । यः । वः । धामऽभ्यः । अविधत् ॥ १५ ॥
 
हे "अद्रुहः अद्रोग्धारोऽहिंस्या वा मरुदादयः "उपस्तुतीनाम् उपस्तोत्राणां "संस्थे तासां यज्ञे क्रियमाणत्वादस्मत्संस्थानभूतेऽस्मिन् यज्ञे "वः युष्मान् “प्र “शंसामि प्रकर्षेण स्तौमि। हे "वरुण “मित्र मित्रावरुणौ "तं "मर्त्यं मनुष्यं “धूर्तिः । धुर्वी हिंसार्थः। शत्रुभ्यो हिंसा तं "न बाधते "यः मनुष्यः "वः युष्माकं “धामभ्यः तेजोभ्यः । धीयतेऽस्मिन्निति धाम शरीरं वा । तेभ्यः "अविधत् ।। ‘विध विधाने'। हवींषि विदधाति प्रयच्छति । एतेन तेजसामपि हविर्भाक्त्वमस्तीति ज्ञायते ॥
 
 
प्र स क्षयं॑ तिरते॒ वि म॒हीरिषो॒ यो वो॒ वरा॑य॒ दाश॑ति ।
 
प्र प्र॒जाभि॑र्जायते॒ धर्म॑ण॒स्पर्यरि॑ष्ट॒ः सर्व॑ एधते ॥
 
प्र। सः । क्षयम् । तिरते। वि । महीः । इषः । यः । वः । वराय । दाशति ।
 
प्र । प्रऽजाभिः । जायते । धर्मणः । परि । अरिष्टः । सर्वः । एधते ॥ १६ ।।
 
हे मरुदादयः “सः मनुष्यः “क्षयम्। क्षियन्ति निवसन्त्यत्रेति क्षयो गृहम् । तत् स मनुष्यः “प्र “तिरते प्रकर्षेण वर्धयति । तिरतिर्वृद्धिकर्मा । स एव “महीः महान्ति "इषः अन्नानि च “वि वर्धयति “यः मनुष्यः “वराय वरणीयाय धनाय तदर्थं “वः युष्मभ्यं “दाशति हवींषि प्रयच्छति । धनादिभिर्वर्धयतीत्यन्वयः। किंच “धर्मेणः । ध्रियते ऋत्विग्भिरिति धर्म कर्म । युष्मद्विषयात् कर्मणः सकाशात् स मनुष्यः “प्रजाभिः पुत्रपौत्रादिभिः “परि परितः सर्वतः “प्र “जायते प्रकर्षेणाविर्भवति । ‘आत्मा वै पुत्रनामासि' (श. ब्रा. १४. ९. ४. २६) इति श्रुतेः। ततः “अरिष्टः अन्यैरहिंसितः “सर्वः युष्माकं हविष्प्रदानात् सकलो जनः “एधते धनादिभिर्वर्धते ॥ ॥ ३३ ॥
 
 
ऋ॒ते स वि॑न्दते यु॒धः सु॒गेभि॑र्या॒त्यध्व॑नः ।
 
अ॒र्य॒मा मि॒त्रो वरु॑ण॒ः सरा॑तयो॒ यं त्राय॑न्ते स॒जोष॑सः ॥
 
ऋते । सः । विन्दते । युधः । सुऽगेभिः । याति । अध्वनः ।।
 
अर्यमा । मित्रः । वरुणः । सऽरातयः । यम् । त्रायन्ते । सऽजोषसः ॥ १७ ॥
 
“सः अर्यमादीनां हविर्दाता मनुष्यः "युधः । 'युध संप्रहारे । भावे क्विप् । युद्धात् “ऋते विनापि “विन्दते धनानि लभते । किंच “सुगेभिः शोभनगमनैः सुष्ठु गन्तृभिवाश्वैः सह “अध्वनः मार्गान् । गन्तव्यान् देशानित्यर्थः। तान् “याति गच्छति। "यं जनम् अर्यमा सततं गच्छन् “मित्रः स्तोतॄणां यष्टॄणां च धनप्रदानेन मित्रभूतः “वरुणः निवारयिता शत्रूणां यद्वा वरणीयः संभजनीय
एतन्नामकाः “सरातयः समानदानास्त्रयो देवाः “सजोषसः परस्परं संगताः सन्तः यं हव्यप्रदातारं “त्रायन्ते स्वरक्षणैः पालयन्ति स धनादीनि विन्दतीत्यन्वयः ।।
 
 
अज्रे॑ चिदस्मै कृणुथा॒ न्यञ्च॑नं दु॒र्गे चि॒दा सु॑सर॒णम् ।
 
ए॒षा चि॑दस्माद॒शनिः॑ प॒रो नु सास्रे॑धन्ती॒ वि न॑श्यतु ॥
 
अज्रे । चित् । अस्मै । कृणुथ । निऽअञ्चनम् । दुःऽगे। चित् । आ । सुऽसरणम् ।
 
एषा । चित् । अस्मात् । अशनिः । पुरः । नु । सा । अस्रेधन्ती । वि । नश्यतु ॥ १८ ।।
 
हे देवाः “अज्रे “चित् । ‘ज्रि अभिभवे'। परैरनभिभवनीयेऽपि परपुरे “न्यञ्चनं नितरां गमनम् “अस्मै मनवे कृणुथ यूयं कुरुत । यद्वा । अज्रे ऋजुगमने प्रस्थे गमनं कुस्त । तथा “दुर्गे “चित् अगन्तव्येऽपि स्थले “सुसरणम् । सृ गतौ' । शोभनगमनम् “आ समन्तात् कुरुत । एवं सति सा “एषा “अशनिः शत्रूणां तदेतदायुधम् “अस्मात् सर्वतो गन्तुर्मनोः “नु क्षिप्रं "परः परस्ताद्भवेत् । पश्चात् "सा अशनिः अस्रेधन्ती कांश्चिदप्यहिंसती “वि "नश्यतु विनष्टा भवेत् ।।
 
 
यद॒द्य सूर्य॑ उद्य॒ति प्रिय॑क्षत्रा ऋ॒तं द॒ध ।
 
यन्नि॒म्रुचि॑ प्र॒बुधि॑ विश्ववेदसो॒ यद्वा॑ म॒ध्यंदि॑ने दि॒वः ॥
 
यत् । अद्य । सूर्ये । उत्ऽयति । प्रियेऽक्षत्राः । ऋतम् । दध । ।
यत् । निऽम्रुचि । प्रऽबुधि । विश्वऽवेदसः । यत् । वा । मध्यंदिने । दिवः ॥ १९ ॥
 
हे “प्रियक्षत्राः प्रीणयितृबला देवाः "सूर्ये सर्वस्य स्वस्वकर्मणि प्रेरके सवितरि “उद्यति उद्गच्छति सति “अद्य अस्मिन् दिने “यत् यदा “ऋतं कल्याणभूतं गृहं “दध धारयत । दधातेर्लिटि मध्यमबहुवचने रूपम्। “यत् यदा हे “विश्ववेदसः सर्वधना देवाः “निम्रुचि । म्रुचिर्गत्यर्थः । सूर्यस्य निम्रोचने नितरां गमने । सायमित्यर्थः । तस्मिन् धारयथ । यद्वा “प्रबुधि तस्य प्रबोधने प्रातःकाले। "यद्वा “दिवः सूर्यतेजसा दीप्यमानस्याह्नः “मध्यंदिने मध्ये धनं मनवे धत्तेत्युत्तरत्र संबन्धः ॥
 
 
यद्वा॑भिपि॒त्वे अ॑सुरा ऋ॒तं य॒ते छ॒र्दिर्ये॒म वि दा॒शुषे॑ ।
 
व॒यं तद्वो॑ वसवो विश्ववेदस॒ उप॑ स्थेयाम॒ मध्य॒ आ ॥
 
यत् । वा । अभिऽपित्वे । असुराः । ऋतम् । यते । छर्दिः । येम । वि। दाशुषे । वयम् । तत् । वः । वसवः । विश्वऽवेदसः । उप । स्थेयाम । मध्ये। आ ॥ २० ॥
हे "असुराः प्राज्ञाः संग्राम आयुधानां क्षेप्तारो वा देवाः “यद्वा "अभिपित्वे अस्मद्यज्ञं प्रति युष्माकमभिप्राप्तौ “ऋतं सत्यभूतं यज्ञं “यते । इणः शतरि रूपम् । गच्छते "दाशुषे हवींषि दत्तवते यजमानाय "छर्दिः । ‘छर्दिर्दीप्तिदेवनयोः'। दीप्यतेऽनेनेति छर्दिस्तेजः । यद्वा । छर्दन्ति दीव्यन्ते अत्रेति छर्दिर्गृहम् । तद्गृहं तेजो वा “वि "येम प्रयच्छथ। यद्येवं यूयं कुरुथ तर्हि “वयं हे "वसवः स्तोतॄणां धनादिभिराच्छादयितारः यद्वा शत्रूणां विवासयितारः “विश्ववेदसः सर्वधनाः सर्वज्ञाना वा हे देवाः “वः युष्मत्संबन्धि “तत् कल्याणं गृहम् । षष्ट्यर्थे द्वितीया । भवद्भिः प्रत्तस्य गृहस्य मध्ये “उप “स्थेयाम उपतिष्ठेम । युष्मान् हविर्भिः पूजयेम ॥ तिष्ठतेराशीर्लिङि लिङयाशिष्यङ्' इत्यङ्प्रत्ययः ॥
 
 
यद॒द्य सूर॒ उदि॑ते॒ यन्म॒ध्यंदि॑न आ॒तुचि॑ ।
 
वा॒मं ध॒त्थ मन॑वे विश्ववेदसो॒ जुह्वा॑नाय॒ प्रचे॑तसे ॥
 
यत् । अद्य । सूरे । उत्ऽइते । यत् । मध्यंदिने । आऽतुचि ।
 
वामम् । धत्थ । मनवे । विश्वऽवेदसः । जुह्वानाय । प्रऽचेतसे ॥ २१ ॥
 
हे "विश्ववेदसः सर्वतो व्याप्तधना हे देवाः “यत् यदा “अद्य इदानीम् । यद्वा सूर्ये "उदिते सति । “यत् यदा “मध्यंदिने दिवसस्य मध्ये । यद्वा “आतुचि । आतुचिर्गमनार्थः । सूर्यस्य निम्रोचने । सायमित्यर्थः । “जुह्वानाय अग्नौ हवींषि जुह्वते अत एव “प्रचेतसे प्रकृष्टज्ञानाय “मनवे एतन्नामकायर्षये मह्यं “वामं वननीयं धनं “धत्थ दत्थ तद्वृणीमह इत्युत्तरत्र संबन्धः ॥
 
 
व॒यं तद्वः॑ सम्राज॒ आ वृ॑णीमहे पु॒त्रो न ब॑हु॒पाय्य॑म् ।
 
अ॒श्याम॒ तदा॑दित्या॒ जुह्व॑तो ह॒विर्येन॒ वस्यो॒ऽनशा॑महै ॥
 
वयम् । तत् । वः । सम्ऽराजः । आ । वृणीमहे । पुत्रः । न । बहुऽपाय्यम् ।
 
अश्याम । तत् । आदित्याः । जुह्वतः । हविः । येन । वस्यः । अनशामहै ॥२२॥
 
हे "सम्राजः सम्यग्दीप्यमाना देवाः “पुत्रो “न । एकवचनं छान्दसम् । युष्माकं पुत्रा इव स्थिताः पुत्रा यथा पितृभिः पोष्यास्तद्वद्युष्माभिः पोष्याः “वयम् । “बहुपाय्यं बहुभिर्भोज्य "वः युष्मत्संबन्धि “तत् धनम् “अश्याम प्राप्नुयाम । "येन धनेन “वस्यः वसीयोऽतिशयेन वसुमत्वम् “अनशामहै अश्नवामहै प्राप्नुमः ॥ अश्नोतेर्लोटि व्यत्ययेन श्नम्प्रत्ययः ॥ ॥ ३४ ॥
 
 
 
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_८.२७" इत्यस्माद् प्रतिप्राप्तम्