"ऋग्वेदः सूक्तं १.३" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ९५:
 
इन्द्र । आ । याहि । धिया । इषितः । विप्रऽजूतः । सुतऽवतः । ।
 
उप । ब्रह्माणि । वाघतः ॥ ५॥
 
हे “इन्द्र त्वम् आ याहि अस्मिन् कर्मण्यागच्छ। किमर्थम् । 'वाघतः ऋत्विजः “ब्रह्माणि वेदरूपाणि स्तोत्राण्युपैतुम्। कीदृशस्त्वम् । “धिया अस्मदीयया प्रज्ञया “इषितः प्राप्तः अस्मद्भक्त्या प्रेरित इत्यर्थः । “विप्रजूतः । यथा यजमानभक्त्या प्रेरितस्तथान्यैरपि विप्रैर्मेधाविभिर्ऋत्विग्भिः प्रेरितः । कीदृशस्य वाघतः । 'सुतावतः अभिषुतसोमयुक्तस्य ॥ ‘केतः' इत्यादिष्वेकादशसु प्रज्ञानामसु ‘धीः ' (नि.३. ९. ७) इति पठितम् । चतुर्विशतिसंख्याकेषु मेधाविनामसु ‘ विप्रः धीरः ' ( नि. ३. १५. १) इति पठितम् । ‘भरताः' इत्यादिष्वष्टसु ऋत्विज्ञामसु ‘वाघतः ' ( नि. ३. १८. ३) इति पठितम् । इषित इत्यत्र ‘इष गतौ' इत्यस्मान्निष्ठायामिडागमः । ‘आगमा अनुदात्ताः' ( पा. म. ३. १.३.७ ) इति इटः अनुदातत्वात् क्तस्वरः शिष्यते । विप्रजूतः । डुवप् बीजसंताने' इति धातोः ‘ऋज्रेन्द्राग्रवज्रविप्र' ( उ. सू. २.१८६ ) इत्यादिना रन्प्रत्ययान्तो विप्रशब्दो निपातितः । निपातनदुपधाया इकारो लघूपधगुणाभावश्च । नित्वादाद्युदात्तः । तैर्जूतः प्राप्तः । ‘जू'(!) इति सौत्रो धातुर्गत्यर्थः ( पा. सू. ३. २. १५० )। ‘श्र्युकः किति' (पा. सू. ७. २. ११) इति इट्प्रतिषेधः। तृतीया कर्मणि' ( पा. सू. ६. २. ४८) इति पूर्वपदप्रकृतिस्वरत्वम् । सुतावतः । छान्दसं दीर्घत्वम् । मतुपोऽनुदात्तत्वात् क्तप्रत्ययस्वर एव शिष्यते । ब्रह्माणि । ‘नब्विषयस्यानिसन्तस्य (फि. सू. २६ ) इत्याद्युदात्तः । वाघच्छब्द ऋत्विङ्नामसु पठितः । प्रातिपदिकस्वरः ।।
 
Line १०२ ⟶ १०४:
 
सु॒ते द॑धिष्व न॒श्चन॑ः ॥
 
इन्द्र। आ। याहि। तूतुजानः । उप। ब्रह्माणि । हरिऽवः ।
 
सुते । दधिष्व । नः । चनः ॥६॥
 
हरिशब्दः इन्द्रसंबन्धिनोरश्वयोर्नामधेयं ‘हरी इन्द्रस्य रोहितोऽग्नेः ' (नि. १. १५, १ ) इति तदीयाश्वनामत्वेन पठितत्वात् । हे “हरिवः अश्वयुक्त “इन्द्र त्वं “ब्रह्माणि उपैतुम् आ "याहि। कीदृशस्त्वम्। "तूतुजानः त्वरमाणः । आगत्य च अस्मिन् “सुते सोमाभिषवयुक्ते कर्मणि "नः अस्मदीयं “चनः अन्नं हविर्लक्षणं "दधिष्व धारय स्वीकुर्वित्यर्थः ॥ तूतुजानः । तुजेर्लिंटि' लिटः कानज्वा' (पा.सू. ३. २. १०६ ) इति कानजादेशः । 'तुजादीनां दीर्घोऽभ्यासस्य ' ( पा. सू. ६. १. ७) इत्यभ्यासस्य दीर्घत्वम् । अभ्यस्तानामादिः (पा. सू. ६. १. १८९ ) इत्याद्युदात्तत्वम् । हरिव इत्यत्र हरयोऽस्य सन्तीति मतुपि ‘छन्दसीरः ' ( पा. सू. ८. २. १५) इति मकारस्य वत्वम् । संबुद्धौ ‘ उगिदचाम् ' ( पा. सू. ७. १. ७० ) इति नुम् । संयोगान्तलोपे ( पा. सू. ८. २. २३ ) नकारस्य ‘मतुवसो रु संबुद्धौ छन्दसि ' ( पा. सू. ८. ३. १ ) इति रुत्वम् । आष्टमिको निघातः । ब्रह्माणीत्यस्य हरिव इत्यनेनासामर्थ्यात् ' समर्थः पदविधिः (पा. सू. २. १. १ ) इति नियमात् सुबामन्त्रितपराङ्गवद्भावाभावेन आमन्त्रितनिघाताभावात् आद्युदात्तत्वे सति उप इति अकारस्य सन्नतरः । दधिष्व इत्यत्र दधातेर्लोटि थास् । ‘थासः से' ( पा. सू. ३. ४. ८० ) ।' सवाभ्यां वामौ ' (पा. सू. ३. ४. ९१ ) इत्येकारस्य वादेशः । छन्दस्युभयथा ' ( पा. सू. ३. ४. ११७ ) इति सार्वधातुकार्धधातुकसंज्ञयोः सत्योः सार्वधातुकत्वेन शपि ( पा. सू. ३ १.६८) तस्य श्लौ च द्विर्भावः ( पा. सू. ६. १. १० ), अर्धधातुकत्वेन इडागमश्च ( पा. सू. ७. २. ३५ ) । “ आतो लोप इटि च' (पा. सू. ६ ४. ६४) इत्याकारलोपः । चनः । 'चायतेरन्ने ह्रस्वश्च ' (उ. सू. ४. ६३९) इत्यसुनन्तः । चकारात् नुडागमे यलोपः ॥ ॥ ५॥
 
 
ओमा॑सश्चर्षणीधृतो॒ विश्वे॑ देवास॒ आ ग॑त ।
 
दा॒श्वांसो॑ दा॒शुष॑ः सु॒तम् ॥
 
ओमासः । चर्षणिऽधृतः । विश्वे । देवासः । आ । गत ।
 
दाश्वांसः । दाशुषः । सुतम् ॥७॥
 
हे “विश्वे “देवासः एतन्नामका देवविशेषाः “दाशुषः हविर्दत्तवतो यजमानस्य “सुतम् अभिषुतं सोमं प्रति “आ “गत आगच्छत । ते च देवाः "ओमासः रक्षकाः “चर्षणीधृतः मनुष्याणां धारकाः “दाश्वांसः फलस्य दातारः । ‘मनुष्याः' इत्यादिषु पञ्चविंशतिसंख्याकेषु मनुष्यनामसु चर्षणिशब्दः ( नि. २. ३. ८) पठितः । ‘अश्विनौ' इत्यादिष्वेकत्रिंशत्संख्याकेषु देवविशेषनामसु • विश्वेदेवाः साध्याः' (नि, ५. ६. २७ ) इति पठितम् । एतामृचं यास्क एवं व्याख्यातवान्-‘ अवितारो वावनीया वा मनुष्यधृतः सर्वे च देवा इहागच्छत दत्तवन्तो दत्तवतः सुतमिति तदेतदेकमेव वैश्वदेवं गायत्रं तृचं दशतयीषु विद्यते यत्तु किंचिद्बहुदैवतं तद्वैश्वदेवानां स्थाने युज्यते यदेव विश्वलिङ्गमिति शाकपूणिः । (निरु. १२. ४० ) इति । अत्र विश्वशब्दः सर्वशब्दपर्याय इति यास्कस्य मतम् । देवविशेषस्यैवासधारणं लिङ्गमिति शाकपूणेर्मतम् । अवन्ति इति ओमासः देवाः । ‘मन् ' इत्यनुवृत्तौ ‘अविसिवि सिशुषिभ्यः कित्' (उ. सू. १. १४१ ) इति मन्प्रत्ययः । ज्वरत्वरस्रिव्यविभवामुपधायाश्च' (पा. सू. ६. ४. २०) इति ऊठ् । मनः कित्त्वेऽपि बाहुलकत्वाद्गुणः । ‘आज्ज़सेरसुक्’ (पा. सू. ७. १.५०) इति जसेः असुगागमः। आमन्त्रिताद्युदात्तत्वम्। चर्षणयो मनुष्याः। तान् वृष्टिदानादिना धारयन्तीति चर्षणीधृतः देवाः । पूर्वस्यामन्त्रितस्य सामान्यवचनस्य ‘विभाषितं विशेषवचने बहुवचनम् ' ( पा. सू. ८. १, ७४ ) इति अविद्यमानवत्वप्रतिषेधात् अपादादित्वेन निघातः । ननु अत एव विद्यमानवत्वात् ‘सुबामन्त्रिते°' ( पा. सू. २. १. २) इति पराङ्गवत्वेनैकपदीभावात् पदादपरत्वेन कथं निघात इति चेत् , न । ‘वत्करणं स्वाश्रयमपि यथा स्यात् ' ( पा. म. ८. १.७२ ) इति वचनात् पदभेदप्रयुक्तस्य । निघातस्याप्युपपत्तेः । ऐकपद्येऽप्याद्युदात्तत्वे ' अनुदात्तं पदमेकवर्जम् ' (पा. सू. ६. १. १५८ ) इति सुतरामेव निघातो भविष्यति। इत्थमेव तर्हि द्रवत्पाणी शुभस्पती' इत्यत्रापि पराङ्गवत्त्वेनैकपद्यादुत्तरस्य शेषनिघातप्रसङ्ग इति चेत्, न । तत्र पराङ्गवद्भावस्य परेण ' आमन्त्रितं पूर्वमविद्यमानवत् ' ( पा. सू. ८. १. ७२ ) इत्यविद्यमानवद्भावेन बाधितत्वात् । इह पुनः ‘विभाषितं विशेषवचने बहुवचनम् । इत्यविद्यमानवत्त्वस्य निषेधात् । पूर्वस्याप्यामन्त्रितस्य विद्यमानवत्वात् पराङ्गवत्त्वं स्वीकृतमिति वैषम्यम् । विश्वे । पादादित्वादाद्युदात्तः । गणदेवतावचनश्चात्र विश्वशब्दो न सर्वं शब्दपर्याय इति विशेष्यपरतया सामान्यवचनत्वात् ओमासः इत्यनेन न सामानाधिकरण्यम् । सामानाधिकरण्ये हि पूर्वस्य पादस्य पराङ्गवद्भावे सति ‘मित्रावरुणावृतावृधौ ' इत्यादाविव अत्राप्यामन्त्रिताद्युदात्तता न स्यात् । विश्वे इत्यस्य विशेषणं देवासः इति । दीव्यन्तीति देवाः प्रकाशवन्तः । ननु अवयवप्रसिद्धेः समुदायप्रसिद्धिर्बलीयसी' (परिभा° ९८) इति रूढ एवार्थों देवशब्दस्य ग्राह्यो न यौगिकः । यौगिकत्वे ह्यवयवार्थानुसंधानव्यवधानेन प्रतिपत्तिर्विक्षिप्ता स्यात् । समुदायप्रसिद्धौ तु न विक्षेप इति चेत्, न । समुदायप्रसिद्धौ हि देवशब्दस्य सामान्यपरतया विशेषवचनत्वाभावात् ‘विभाषितं विशेषवचने बहुवचनम्' इत्यनेनानिषिद्धत्वात् विश्वे इत्यस्याविद्यमानवत्वेन शुभस्पती इति पदवत् देवासः इत्यस्यापि आद्युदात्तत्वं स्यात् । स्वरानुसारेण च रूढित्यागेनापि देवशब्दस्य योगस्वीकारो युक्त एव । आ गत आगच्छत । ‘बहुलं छन्दसि' (पा. सू. २. ४. ७३) इति शपो लुकि सति ‘अनुदात्तोपदेश' (पा. सू. ६. ४. ३७ ) इत्यादिना मकारलोपः । आङः पदात्परत्वात् निघातः । दाश्वांसः । ‘दाशृ दाने ' इत्यस्य क्वसौ “ दाश्वान् साह्वान् मीढ्वांश्च ' (पा. सू. ६. १. १२ ) इति निपातनात् क्रादिनियमप्राप्तः इडागमो (पा. सू. ७. २. १३) द्विर्वचनं च न भवति । प्रत्ययस्वरेण क्वसोरुदात्तत्वम् । दाशुष इत्यत्र ‘वसोः संप्रसारणम् ' ( पा. सू. ६. ४. १३१ ) इति संप्रसारणम् । ‘ संप्रसारणाच्च' (पा. सू. ६ १. १०८) इति पूर्वरूपत्वम् । “ आदेशप्रत्यययोः' (पा. सू. ८. ३. ५९ ) इति षत्वम् ॥
 
 
विश्वे॑ दे॒वासो॑ अ॒प्तुर॑ः सु॒तमा ग॑न्त॒ तूर्ण॑यः ।
 
उ॒स्रा इ॑व॒ स्वस॑राणि ॥
 
विश्वे । देवासः । अप्ऽतुरः । सुतम् । आ । गन्त । तूर्णयः ।
 
उस्राःऽइव । स्वसराणि ॥ ८ ॥
 
“विश्वे “देवासः एतन्नामकगणरूपा देवविशेषाः “सुतं सोमम् "आ “गन्त आगच्छन्तु । कीदृशाः। “अप्तुरः तत्तत्काले वृष्टिप्रदा इत्यर्थः। “तूर्णयः त्वरायुक्ताः यजमानमनुग्रहीतुमालस्यरहिता इत्यर्थः । विश्वेषां देवानां सोमं प्रति आगमने उस्रा इत्यादिर्दृष्टान्तः । "उस्राः सूर्यरश्मयः "स्वसराणि अहानि प्रति आलस्यरहिता यथा समागच्छन्ति तद्वत् ।' खेदयः' इत्यादिषु पञ्चदशसु रश्मिनामसु उस्रा वसवः (नि. १. ५.९) इति पठितम् । वस्तोः' इत्यादिषु द्वादशस्वहर्नामसु ‘स्वसराणि घ्रंसः घर्मः' (नि. १. ९. ५) इति पठितम् । तच्च पदं यास्केन व्याख्यातं- स्वसराण्यहानि भवन्ति स्वयंसारीण्यपि वा स्वरादित्यो भवति स एनानि सारयति । उस्रा इव स्वसराणीत्यपि निगमो भवति । ( निरु. ५. ४ ) इति ॥ देवासः । पचाद्यजन्तः ( पा. सू. ३. १. १३४ ) चित्त्वादन्तोदात्तः । अप्तुरः ‘तुर त्वरणे' श्लुविकरणी । तुतुरति त्वरयन्तीत्यर्थे 'क्विप् च ' ( पा. सू. ३. २. ७६) इति क्विप् । ‘गतिकारकोपपदात्कृत्' (पा. सू. ६. २. १३९) इत्युत्तरपदप्रकृतिस्वरत्वम् । आ गन्त । आगच्छन्तु इत्यर्थे व्यत्ययेन मध्यमपुरुषबहुवचनम् ।' बहुलं छन्दसि' (पा. सू. २, ४, ७३) इति शपो लुक् । तस्य ‘तप्तनप्तनथनाश्च ' ( पा. सु. ७. १. ४५ ) इति तबादेशे ‘°अपित् ' ( पा. सू. १. २. ४ ) इति प्रतिषेधात् अङित्वात् अनुनासिकलोपाभावः । तिङ्ङतिङः' इति निघातः । ‘ञित्वरा संभ्रमे इति धातोः त्वरन्ते इति तूर्णयः। ‘निः' इत्यनुवृत्तौ ‘वहिश्रिश्रुयुद्रुग्लाहात्वरिभ्यो नित्’ (उ.सू.४.४९१) इति निप्रत्ययः । नित्त्वादाद्युदात्तः। उस्रा इव इत्यत्र ‘इवेन विभक्त्यलोपः पूर्वपदप्रकृतिस्वरत्वं च ' ( पा. सू. २. १. ४. २) इति समासे पूर्वपदप्रकृतिस्वरत्वं नित्यम् । सरतीति सरः सूर्यः । पचाद्यच् । स्वः सरो येषां तानि स्वसराणि अहानि ।' बहुव्रीहौ प्रकृत्या पूर्वपदम्' (पा. सू. ६. २. १) इति स्वशब्द आद्युदात्तः ॥
 
 
विश्वे॑ दे॒वासो॑ अ॒स्रिध॒ एहि॑मायासो अ॒द्रुह॑ः ।
 
मेधं॑ जुषन्त॒ वह्न॑यः ॥
 
विश्वे । देवासः । अस्रिधः । एहिऽमायासः । अद्रुहः ।
 
मेधम् । जुषन्त । वह्नयः ॥ ९ ॥
 
“विश्वे “देवासः एतन्नामका देवविशेषाः मेधं हविर्यज्ञसंबद्धं “जुषन्त सेवन्ताम् । कीदृशाः । “अस्रिधः क्षयरहिताः शोषरहिता वा। “एहिमायासः सर्वतो व्याप्तप्रज्ञाः। यद्वा । सौचीकमग्निमप्सु प्रविष्टम् ‘एहि मा यासीः' इति यदवोचन् तदनुकरणहेतुकोऽयं विश्वेषां देवानां व्यपदेश एहिमायास इति । “अद्रुहः द्रोहरहिताः “वह्नयः वोढारो धनानां प्रापयितारः ॥ अस्रिधः। स्रिधेः क्षयार्थस्य शोषणार्थस्य वा संपदादिभ्यो भावे क्विपि (पा. सू. ३. ३. १०८. ९) नञा बहुव्रीहिः पूर्वपदप्रकृतिस्वरं बाधित्वा ‘नञ्सुभ्याम् ' (पा. सू. ६. २. १७२ ) इत्युत्तरपदान्तोदात्तत्वम् । एहिमायासः । ‘ईह चेष्टायाम् ।। आ समन्तात् ईहते इति एहिः । ‘इन् ' ( उ. सू. ४. ५५७ ) इति सर्वधातुसाधारण इन्प्रत्ययो नित्त्वादाद्युदात्तः । एहिः माया प्रज्ञा येषामिति बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । अथवा । आङ उदात्तादुत्तरस्य इहीति लोण्मध्यमैकवचनस्य ‘तिङ्ङतिङः' इति निघातः । ‘एकादेश उदात्तेनोदात्तः ' ( पा. सू. ८, २. ५) इत्येकार उदात्तः । एहीत्येतत् पदयुक्तं ‘मा यासीः' इत्यत्र ‘माया' इत्यक्षरद्वयं येषां ते एहिमायासः । पूर्वपदप्रकृतिस्वरः। अद्रुहः । द्रुह जिघांसायाम् । संपदादित्वाद्भावे क्विपि बहुव्रीहौ ' नञ्सुभ्याम् ' इत्युत्तरपदान्तोदात्तत्वम् । मेधम् । ‘मेधृ संगमे च । मेध्यते देवैः संगम्यते इति मेधं हविः। कर्मणि घञ् । ञित्वादाद्युदात्तः । जुषन्त। सेवन्तामित्यर्थे ‘छन्दसि लुङ्लङ्लिटः ' ( पा. सू. ३. ४. ६) इति धातुसंबन्धे लङ् । यत उक्तरूपा विश्वे देवा अतो जुषन्त इति द्रुहादिधात्वर्थैः संबन्धात् ‘बहुलं छन्दस्यमाङ्योगेऽपि ' ( पा. सू. ६. ४.७५) इत्यडागमाभावः । वह्नयः। ‘निः' इत्यनुवृत्तौ ‘वहिश्रि' इत्यादिना विहितस्य निप्रत्ययस्य नित्त्वादाद्युदात्तत्वम् ॥
 
 
सारस्वते तृचे या प्रथमा सा अन्वारम्भणीयेष्टौ सरस्वत्याः पुरोनुवाक्या। तथा दर्शपूर्णमासावारप्स्यमानः' इत्यस्मिन् खण्डे ‘पावका नः सरस्वती पावीरवी कन्या चित्रायुः' ( आश्व. श्रौ. २. ८ ) इति सूत्रितम् ॥ ।
 
पा॒व॒का न॒ः सर॑स्वती॒ वाजे॑भिर्वा॒जिनी॑वती ।
 
य॒ज्ञं व॑ष्टु धि॒याव॑सुः ॥
 
पावका । नः । सरस्वती । वाजेभिः । वाजिनीऽवती ।
 
यज्ञम् । वष्टु । धियाऽवसुः ॥ १० ॥
 
“सरस्वती देवी “वाजेभिः हविर्लक्षणैरन्नैर्निमित्तभूतैः । यद्वा । यजमानेभ्यो दातव्यैरन्नैर्निमित्तभूतैः । “नः अस्मदीयं “यज्ञं “वष्टु कामयताम् । कामयित्वा च निर्वहत्वित्यर्थः । तथा चारण्यककाण्डे श्रुत्यैव व्याख्यातं -- यज्ञं वष्ट्विति यदाह यज्ञं वहत्वित्येव तदाह' (ऐ. आ. १. १. ४ ) इति । कीदृशी सरस्वती ।“पावका शोधयित्री “वाजिनीवती अन्नवत्क्रियावती 'धियावसुः कर्मप्राप्यधननिमित्तभूता । वाग्देवतायास्तथाविधं धननिमित्तत्वमारण्यककाण्डे श्रुत्या व्याख्यातं-यज्ञं वष्टु धियावसुरिति वाग्वै धियावसुः । ( ऐ. आ. १. १. ४ ) इति । ‘श्येनः सोमः' इत्यादिषु पञ्चत्रिंशत्संख्याकेषु देवताविशेषवाचिषु पदेषु ‘सरमा सरस्वती ' (नि. ५. ५. १८) इति पठितम् । एतामृचं यास्क एवं व्याचष्टे- पावका नः सरस्वत्यन्नैरन्नवती यज्ञं वष्टु धियावसुः कर्मवसुः' (निरु. ११.२६) इति॥ पवनं पावः शुद्धिः । पावं कायतीति पावका । ‘कै गै रै शब्दे ' । 'आतोऽनुपसर्गे कः' (पा. सू. ३. २, ३) इति कप्रत्ययः ।
 
 
चो॒द॒यि॒त्री सू॒नृता॑नां॒ चेत॑न्ती सुमती॒नाम् ।
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.३" इत्यस्माद् प्रतिप्राप्तम्