"ऋग्वेदः सूक्तं १.३" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ४०:
 
 
 
== ==
{{सायणभाष्यम्|
 
पङ्क्तिः १५५:
यज्ञम् । वष्टु । धियाऽवसुः ॥ १० ॥
 
“सरस्वती देवी “वाजेभिः हविर्लक्षणैरन्नैर्निमित्तभूतैः । यद्वा । यजमानेभ्यो दातव्यैरन्नैर्निमित्तभूतैः । “नः अस्मदीयं “यज्ञं “वष्टु कामयताम् । कामयित्वा च निर्वहत्वित्यर्थः । तथा चारण्यककाण्डे श्रुत्यैव व्याख्यातं -- यज्ञं वष्ट्विति यदाह यज्ञं वहत्वित्येव तदाह' (ऐ. आ. १. १. ४ ) इति । कीदृशी सरस्वती ।“पावका शोधयित्री “वाजिनीवती अन्नवत्क्रियावती 'धियावसुः कर्मप्राप्यधननिमित्तभूता । वाग्देवतायास्तथाविधं धननिमित्तत्वमारण्यककाण्डे श्रुत्या व्याख्यातं-यज्ञं वष्टु धियावसुरिति वाग्वै धियावसुः । ( ऐ. आ. १. १. ४ ) इति । ‘श्येनः सोमः' इत्यादिषु पञ्चत्रिंशत्संख्याकेषु देवताविशेषवाचिषु पदेषु ‘सरमा सरस्वती ' (नि. ५. ५. १८) इति पठितम् । एतामृचं यास्क एवं व्याचष्टे- पावका नः सरस्वत्यन्नैरन्नवती यज्ञं वष्टु धियावसुः कर्मवसुः' (निरु. ११.२६) इति॥ पवनं पावः शुद्धिः । पावं कायतीति पावका । ‘कै गै रै शब्दे ' । 'आतोऽनुपसर्गे कः' (पा. सू. ३. २, ३) इति कप्रत्ययः । कृदुत्तरपदप्रकृतिस्वरत्वेनान्तोदात्तत्वम् । यद्वा । पुनातीत्यर्थे ष्वुलि ‘प्रत्ययस्थात्कारपूर्वस्यात इदाप्यसुपः ' (पा. सू. ७. ३. ४४ ) इति इत्वस्याभावोऽन्तोदात्तत्वं च छान्दसं द्रष्टव्यम् । सरःशब्द सर्तेः असुनन्तत्वादाद्युदात्तः । मतुप्ङीपोः पित्त्वादनुदात्तत्वम् । वाजेभिः । वाजशब्दो वृषादित्वात् (पा. सू. ६. १. २०३ ) आद्युदात्तः । स हि अवृत्कृतत्वात् आकृतिगणः । वाजोऽन्नमास्विति वाजिन्यः क्रियाः । अत इनिठनौ ' ( पा. सू. ५. २. ११५) इति इनिप्रत्ययः । ताः क्रिया यस्याः सन्ति सा सरस्वती वाजिनीवती । ‘छन्दसीरः ' (पा. सू. ८. २. १५) इति मतुपो वत्वम् । मतुप्ङीपोः पित्त्वेनानुदात्तत्वात् इनेः प्रत्ययाद्युदात्तत्वमेव शिष्यते । यज्ञम् ।' यजयाच' (पा. सू. ३. ३. ९० ) इत्यादिना नङ्प्रत्ययः । प्रत्ययस्वरेणान्तोदात्तः । वष्टु ।' वश कान्तौ । कान्तिरभिलाषः । ‘अदिप्रभृतिभ्यः शपः' (पा. सू. २. ४. ७२ ) इति शपो लुक् । निघातः । धियावसुः । धिया कर्मणा वसु यस्याः सकाशाद्भवति सा धियावसुः । ‘सावेकाचः०' (पा. सू. ६. १. १६८) इति विभक्तिरुदात्ता । ‘ बहुव्रीहौ प्रकृत्या पूर्वपदम् ' (पा. सू. ६. २. १) इति विभक्तिस्वर एव शिष्यते । छन्दसस्तृतीयाया अलुक् ॥
 
 
पङ्क्तिः १६१:
 
य॒ज्ञं द॑धे॒ सर॑स्वती ॥
 
चोदयित्री । सूनृतनाम्। चेतन्ती । सुऽमतीनाम् ।
 
यज्ञम् । दधे । सरस्वती ॥ ११ ॥
 
या "सरस्वती सेयमिमं "यज्ञं दधे धारितवती । कीदृशी । "सूनृतानां प्रियाणां सत्यवाक्यानां “चोदयित्री प्रेरयित्री । "सुमतीनां शोभनबुद्धियुक्तानामनुष्ठातॄणां "चेतन्ती तदीयमनुष्ठेयं ज्ञापयन्ती ॥ चोदयित्री।चुद प्रेरणे'। ण्यन्तात् तृच् । चित्त्वादन्तोदात्तः । ‘ऋन्नेभ्यो ङीप्' (पा. सू. ४. १.५) इति ङीप् । तस्य ‘ उदात्तयणो हल्पूर्वात् ' (पा. सू. ६. १. १७४ ) इत्युदात्तत्वम् । सूनृतानाम् ।' उने परिहाणे' इत्यतः ‘ क्विप् च' (पा. सू. ३. २. ७६ ) इति क्विपि सुतराम् ऊनयति अप्रियम् इति सून् इति प्रियमुच्यते । तच्च तदृतं सत्यं चेति सूनृतम् । परादिश्छन्दसि बहुलम्' (पा. सू. ६. २. १९९) इत्युत्तरपदाद्युदात्तत्वम् । चेतन्ती । ‘चिती संज्ञाने '। अत्र शपो ङीपश्च पित्त्वादनुदात्तत्वम् । शतुश्च अदुपदेशात् लसार्वधातुकस्वरेणानुदात्तत्वम् । धात्वन्तस्वर एव शिष्यते । सुमतिशब्दस्य मतुपि ह्रस्वत्वात् “ नामन्यतरस्याम् ' (प. सू. ६. १. १७७ ) इति विभक्तेरुदात्तत्वम् ॥
 
 
म॒हो अर्ण॒ः सर॑स्वती॒ प्र चे॑तयति के॒तुना॑ ।
 
धियो॒ विश्वा॒ वि रा॑जति ॥
 
महः । अर्णः । सरस्वती । प्र । चेतयति । केतुना ।
 
धियः । विश्वाः । वि । राजति ॥ १२ ॥
 
द्विविधा हि सरस्वती विग्रहवद्देवता नदीरूपा च । तत्र पूर्वाभ्यामृग्भ्यां विग्रहवती प्रतिपादिता । अनया तु नदीरूपा प्रतिपाद्यते। तादृशी सरस्वती "केतुना कर्मणा प्रवाहरूपेण "महो "अर्णः प्रभूतमुदकं "प्र “चेतयति प्रकर्षेण ज्ञापयति । किं च स्वकीयेन देवतारूपेण "विश्वाः धियः सर्वाण्यनुष्ठातृप्रज्ञानानि “वि “राजति विशेषेण दीपयति । अनुष्ठानविषया बुद्धीः सर्वदोत्पादयतीत्यर्थः । सरस्वत्या द्विरूपत्वं यास्को दर्शयति-’तत्र सरस्वतीत्येतस्य नदीवद्देवतावच्च निगमा भवन्ति' ( निरु. २. २३ ) इति । एकशतसंख्याकेषूदकनामसु ' अर्णः क्षोदः ' ( नि. १. १२. १ ) इति पठितम् । एतामृचं यास्को व्याचष्ट--’महदर्णः सरस्वती प्रचेतयति प्रज्ञापयति केतुना कर्मणा प्रज्ञया वेमानि च सर्वाणि प्रज्ञानान्यभिवि
राजति' (निरु. ११. २७ ) इति ॥ महो अर्णः। महदिति तकारस्य व्यत्ययेन सकारः। तस्य रुत्वोत्वगुणाः। प्रातिपदिकस्वरेणान्तोदात्तः । ‘एङः पदान्तादति ' ( पा. सू. ६. १. १०९ ) इति पूर्वरूपे प्राप्ते ‘प्रकृत्यान्तःपादमव्यपरे' (पा. सू. ६. १. ११५) इति प्रकृतिभावः । अर्ति इत्यर्णः । ‘उदके नुट् च ' ( उ. सू. ४. ६३६ ) इत्यसुन्प्रत्ययो नुडागमश्च । केतुना । प्रातिपदिकस्वरेणान्तोदात्तः । विश्वाः । विश्वशब्दः क्वन्प्रत्ययान्त आद्युदात्तः ॥ ॥ ६ ॥ ॥ १ ॥
 
 
 
}}
 
== ==
 
[[ऋग्वेदः सूक्तं १०.१३०|प्रउगशब्दोपरि संदर्भाः]]
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.३" इत्यस्माद् प्रतिप्राप्तम्