"ऋग्वेदः सूक्तं १.४" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १२:
{{ऋग्वेदः मण्डल १}}
 
<poem><span style="font-size: 14pt; line-height:200%">
<poem>
{|
|
सुरूपकृत्नुमूतये सुदुघामिव गोदुहे ।
जुहूमसि द्यविद्यवि ॥१॥
Line ३५ ⟶ ३३:
यो रायोऽवनिर्महान्सुपारः सुन्वतः सखा ।
तस्मा इन्द्राय गायत ॥१०॥
</span></poem>
|
== ==
{{सायणभाष्यम्|
प्रथमे मण्डले द्वितीयानुवाके चत्वारि सूक्तानि । तत्र ‘सुरूप' इत्यादिकं दशर्चं प्रथमं सूक्तं, ‘सुरूपकृत्नुं दश' इत्यनुक्रान्तत्वात् । पूर्ववन्मधुच्छन्दसो गायत्रस्य चानुवृत्तेः ते एव ऋषिच्छन्दसी । ‘इन्द्रं पृच्छा' इति चतुर्थ्यामृचि लिङ्गदर्शनादिन्द्रो देवता । अभिप्लवषडहे ब्राह्मणाच्छंसिनः प्रातःसवने स्तोमवृद्धौ अवापार्थानि “ सुरूपकृत्नुमूतये' इत्यादीनि षट् सूक्तानि । सूत्रितं च ‘अभिप्लवपृष्ठयाहानि इति खण्डे-’ब्राह्मणाच्छंसिनः सुरूपकृत्नुमूतय इति षट् सूक्तानि ' ( आश्व. श्रौ. ७. ५) इति । आद्यानि त्रीणि सूक्तानि महाव्रते निष्केवल्ये औष्णिहतृचाशीतौ शस्तव्यानि । उक्तं च शौनकेन-‘सुरूपकृत्नुमूतय इति त्रीण्येन्द्र सानसिं रयिमिति सूक्ते ' ( ऐ. आ. ५, २. ५) इति । चतुर्विंशेऽहनि माध्यंदिने सवने ब्राह्मणाच्छंसिनः ‘सुरूपकृत्नुमूतये' इति वैकल्पिकः स्तोत्रियस्तृचः । ‘होत्रकाणाम् ' इति खण्डे ‘मदे मदे हि नो ददिः सुरूपकृत्नुमूतये' (आश्व. श्रौ. ७. ४) इति सूत्रितत्वात् । अग्निष्टोमे वैश्वदेवशस्त्रे सुरूपकृत्नुमूतये' इति धाय्या, ' सुरूपकृत्नुमूतये तक्षन्रथम् ' (आश्व. श्रौ. ५. १८) इति सूत्रितत्वात् ॥
 
 
सु॒रू॒प॒कृ॒त्नुमू॒तये॑ सु॒दुघा॑मिव गो॒दुहे॑ ।
 
जु॒हू॒मसि॒ द्यवि॑द्यवि ॥
 
सुरूपऽकृत्नुम् । ऊतये । सुदुघाम्ऽइव । गोऽदुहे ।
 
जुहूमसि । द्यविऽद्यवि ॥ १ ॥
 
"सुरूपकृत्नुं शोभनरूपोपेतस्य कर्मणः कर्तारमिन्द्रम् "ऊतये अस्मद्रक्षार्थं "द्यविद्यवि प्रतिदिनं जुहूमसि आह्वयामः। आह्वाने दृष्टान्तः। "गोदुहे गोधुगर्थं "सुदुघामिव सुष्ठु दोग्ध्रीं गामिव । यथा लोके गोः यो दोग्धा तदर्थं तस्याभिमुख्येन दोहनीयां गामाह्वयति तद्वत् । ‘वस्तोः' इत्यादिषु द्वादशसु अहर्नामसु ‘द्यविद्यवि ' ( नि. १. ९. १२) इति पठितम् ॥ सुरूपकृत्नुम् । करोतीति कृत्नुः । ‘कृहनिभ्यां क्नुः । (उ. सू. ३. ३१०)। कित्त्वाद्गुणाभावः। तकारोपजनश्छन्दसः। समासान्तोदात्तः। ऊतये। अवतेर्धातोः ‘उदात्तः' इत्यनुवृत्तौ ‘ऊतियूतिजूतिसातिहेतिकीर्तयश्च' (पा. सू. ३. ३. ९७ ) इति क्तिन् उदात्तो निपातितः । सुदुघाम् । सुष्ठु दुग्धे इति सुदुघा । ‘दुहः कब्धश्च ' ( पा. सू. ३. २. ७० ) इति कप्प्रत्ययो हकारस्य च धकारः । कित्त्वाद्गुणाभावः। कपः पित्त्वादनुदात्तत्वे धातुस्वरेण उकार उदात्तः । सुशब्देन गतिसमासे कृदुत्तरपदप्रकृतिस्वरत्वेन स एव स्वरः । ‘इवेन विभक्त्यलोपः पूर्वपदप्रकृतिस्वरत्वं च ' इति इवसमासे स एव स्वरः। गां दोग्धीति गोधुक् । 'सत्सूद्विष° ' ( पा. सू. ३. २. ६१ ) इत्यादिना क्विप् । कृदुत्तरपदप्रकृतिस्वरत्वम् । जुहूमसि । ह्वयतेर्लंडुत्तमपुरुषबहुवचने ‘बहुलं छन्दसि' (पा. सू. २. ४, ७६ ) इति शपः श्लुः । ‘अभ्यस्तस्य च ' ( पा. सू. ६. १. ३३ ) इत्यभ्यस्तकारणस्य ह्वयतेः प्रागेव द्विर्वचनात् संप्रसारणम् ।' संप्रसारणाञ्च' (पा. सू. ६. १. १०८) इति परपूर्वत्वम् । हलः ' (पा. सू. ६. ५. २) इति दीर्घः । ततः ‘ श्लौ' (पा. सू. ६. १. १० ) इति द्विर्वचनम् । अभ्यासस्य ह्रस्वः (पा. सू. ७. ४. ५९ ), चुत्वजश्त्वे ( पा. सू. ७. ४. ६२; ८. ४. ५३ )। इदन्तो मसिः ' ( पा. सू. ७. १. ४६ ) इति इकारागमः । प्रत्ययस्वरेण मकार-
 
 
उप॑ न॒ः सव॒ना ग॑हि॒ सोम॑स्य सोमपाः पिब ।
 
गो॒दा इद्रे॒वतो॒ मद॑ः ॥
 
अथा॑ ते॒ अन्त॑मानां वि॒द्याम॑ सुमती॒नाम् ।
 
मा नो॒ अति॑ ख्य॒ आ ग॑हि ॥
 
परे॑हि॒ विग्र॒मस्तृ॑त॒मिन्द्रं॑ पृच्छा विप॒श्चित॑म् ।
 
यस्ते॒ सखि॑भ्य॒ आ वर॑म् ॥
 
उ॒त ब्रु॑वन्तु नो॒ निदो॒ निर॒न्यत॑श्चिदारत ।
 
दधा॑ना॒ इन्द्र॒ इद्दुव॑ः ॥
 
उ॒त न॑ः सु॒भगाँ॑ अ॒रिर्वो॒चेयु॑र्दस्म कृ॒ष्टय॑ः ।
 
स्यामेदिन्द्र॑स्य॒ शर्म॑णि ॥
 
एमा॒शुमा॒शवे॑ भर यज्ञ॒श्रियं॑ नृ॒माद॑नम् ।
 
प॒त॒यन्म॑न्द॒यत्स॑खम् ॥
 
अ॒स्य पी॒त्वा श॑तक्रतो घ॒नो वृ॒त्राणा॑मभवः ।
 
प्रावो॒ वाजे॑षु वा॒जिन॑म् ॥
 
तं त्वा॒ वाजे॑षु वा॒जिनं॑ वा॒जया॑मः शतक्रतो ।
 
धना॑नामिन्द्र सा॒तये॑ ॥
 
यो रा॒यो॒३॒॑ऽवनि॑र्म॒हान्सु॑पा॒रः सु॑न्व॒तः सखा॑ ।
 
तस्मा॒ इन्द्रा॑य गायत ॥
|}}
</poem>
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.४" इत्यस्माद् प्रतिप्राप्तम्