"ऋग्वेदः सूक्तं १.२" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १७१:
हे “मित्रावरुणौ युवां “क्रतुं प्रवर्तमानमिमं सोमयागम् “आशाथे आनशाथे व्याप्तवन्तौ । केन निमित्तेन । “ऋतेन अवश्यंभावितया सत्येन फलेन । अस्मभ्यं फलं दातुमित्यर्थः । कीदृशौ युवाम् । “ऋतावृधौ । 'ऋतमित्युदकनाम' (निरु. २. २५), ‘सत्यं वा यज्ञं वा ' ( निरु. ४. १९) इति यास्कः । उदकादीनामन्यतमस्य वर्धयितारौ । अत एव “ऋतस्पृशा उदकादीन् स्पृशन्तौ । कीदृशं क्रतुम् । “बृहन्तम् अङ्गैरुपाङ्गैश्च अतिप्रौढम् ॥ ऋतशब्दो घृतादित्वादन्तोदात्तः । मित्रावरुणावित्यत्र मित्रश्च वरुणश्चेति मित्रावरुणौ । “ देवताद्वन्द्वे च ' ( पा. सू. ६. ३. २६ ) इति पूर्वपदस्य आनङादेशः । ऋतस्य वर्धयितारौ इत्यर्थेऽन्तर्भावितण्यर्थात् वृधेः क्विप् । ‘अन्येषामपि दृश्यते ' ( पा. सू. ६. ३. १३७ ) इति पूर्वपदस्य दीर्घः । ऋतस्पृशा । ‘सुपां सुलुक् ' ( पा. सू. ७. १. ३९ ) इति डादेशः । मित्रावरुणावित्याद्यामन्त्रितत्रयस्य स्वस्वपूर्वपदात् परत्वात् ' आमन्त्रितस्य ' ( पा.
. ८. १. १९ ) इति आष्टमिको निघातः । ननु ऋतेन इत्येतस्य ‘सुबामन्त्रिते पराङ्गवत्स्वरे ' ( पा. सू. २. १. २) इति पराङ्गवद्भावेन आमन्त्रितानुप्रवेशात् पादादित्वेन पदादपरत्वेन वा आष्टमिकनिघाताभावात् ' आमन्त्रितस्य च ' ( पा. सू. ६. १. १९८ ) इत्याद्युदात्तेन भवितव्यमिति चेत्, न। पराङ्गवद्भावस्य सुबामन्त्रिताश्रयत्वेन पदविधित्वात् ‘समर्थः पदविधिः' (पा. सू. २. १. १) इति नियमात् । इह च ऋतेन मित्रावरुणौ इत्यनयोः आशाथे इति आख्यातेनैवान्वयेन परस्परमसामर्थ्यात् । यत्र पुनः परस्परान्वयेन सामर्थ्यं तत्र पराङ्गवद्भावात् पादादेः आद्युदात्तत्वं भवत्येव । यथा 'मरुतां पितस्तदहं गृणामि ' इति । ' मृग्रोरुतिः ' ( उ. सू. १. ९४ ) । इति उतिप्रत्ययान्तत्वेन ‘पृश्नियै वै पयसो मरुतो जाताः' (तै. सं. २. २. ११. ४ ) । इत्यादौ अन्तोदात्तोऽपि हि मरुच्छब्दो ‘ मरुतां पितः' इत्यत्र सामर्थ्यात् पराङ्गवद्भावादेव आद्युदात्तो जातः । प्रकृते तु ऋतेन इत्यस्यासामर्थ्यादेव न पराङ्गवद्भाव इति । ऋतावृधावित्यत्र द्वितीयामन्त्रितस्य निघाते कर्तव्ये ‘आमन्त्रितं पूर्वमविद्यमानवत् ' ( पा. सू. ८. १.७२ ) इति प्रथमामन्त्रितेन अविद्यमानवद्भवितव्यमिति चेत्, भवतु । अत एव तस्याव्यवधायकत्वात् ऋतेन इति प्रथमपदात् परत्वेनैव द्वितीयामन्त्रितं निहनिष्यते । यथा “ इमं मे गङ्गे यमुने' ( ऋ. सं. १०. ७५, ६ ) इत्यादौ गङ्गेशब्दस्याविद्यमानवद्भावेऽपि तस्याव्यवधायकत्वादेव मे इत्येतदेव पदमुपजीव्य यमुनेशब्दस्य निघातः । किं च प्रकृते मित्रावरुणौ इत्यामन्त्रितं सामान्यवचनम् । तस्य विशेषणतया विशेषवचनम् ऋतावृधाविति । अतः ‘ नामन्त्रिते समानाधिकरणे सामान्यवचनम् ' ( पा. सू. ८. १.७३ ) इति पूर्वस्याविद्यमानवद्भावप्रतिषेधादपि निरन्तरायो द्वितीयस्य निघातः ॥ ननु एवमपि ‘अपादादौ ' (पा. सू. ८. १. १८) इत्यनुवृत्तेर्ऋतावृधेत्यस्य द्वितीयपादादित्वान्न भवितव्यं निघातेन । अत एव हि ‘इमं मे गङ्गे' इत्यत्र शुतुद्रिपदस्य पदात् परस्य आमन्त्रितस्यापि पादादित्वादेव अनिघातादाद्युदात्तत्वं जातम् । तद्वदत्रापि भवितव्यं वक्तव्यो वा विशेष इति ॥ उच्यते---मित्रावरुणपदस्य ‘सुबामन्त्रिते० ' ( पा. सू. २. १. २) इति पराङ्गवद्भावेन परानुप्रवेशादेव ऋतावृधेत्यस्य न पादादित्वम् । शुतुद्रिपदमपि तर्ह्येवमेव पूर्वस्य सरस्वतिपदस्य पराङ्गवद्भावेन न पादादिरिति निहन्येत इति चेत्, न । पराङ्गवद्भीवस्तावत् सुबन्तमामन्त्रितं चाश्रित्य प्रवृत्तेः' पदविधिः । अतस्तयोः सत्येव परस्परान्वये पराङ्गवद्भावेन भवितव्यं समर्थः पदविधिः' (पा, सू. २. १. १ ) इति नियमात् । शुतुद्रिसरस्वतिपदयोश्च न परस्परेणान्वयः किंतु सचत इत्यनेन इत्यसामर्थ्यात् न पराङ्गवद्भावः । प्रकृते तु मित्रावरुणौ ऋतावृधौ इति द्वयोरपि सामानाधिकरण्येन परस्परान्वयादस्तिसामर्थ्यमिति भवितव्यं पराङ्गवद्भावेन । यथा “ मरुतां पितः' इत्यत्रेति विशेषः ॥ ननु अत एव तर्हि मित्रावरुणपदस्य पराङ्गवद्भावेन पादादित्वात् “ अपादादौ ' इति पर्युदासादामन्वितनिघातो न स्यादिति चेत् , न । पूर्वं सुबन्तं परं चामन्त्रितमाश्रित्य यः स्वरः प्रवर्तते तत्र ‘सुबामन्त्रिते' इति पराङ्गवद्भावः । भवति चैवंविध ऋतावृधपदनिघात इति । तत्र पूर्वस्य पराङ्गवद्भावेनापादादित्वात् स प्रवर्तते । मित्रावरुणपदनिघातस्तु पूर्वमेव पदमुपजीवति न परमामन्त्रितमिति न पराङ्गवद्भावः ॥ ननु पराङ्गवद्भाववन्निघातोऽपि पदविधिरिति ऋतेन इत्यनेनासामर्थ्यात् ततः पदात्परस्य मित्रावरुणपदस्य न स्यात् इति चेत्, न । समानवाक्ये निघातयुष्मदस्मदादेशा वक्तव्याः' (पा. सू. २. १. १. ११) इति निघाते पदविधावपि समानवाक्यत्वमेव पर्याप्तं, न पराङ्गवद्भाववत् परस्परान्वयोऽपीत्यलम् । क्रतुम् । ‘कृञः कतुः' (उ. सू. १. ७७ )। प्रत्ययस्वरेणादिरुदात्तः । आशाथे आनशाथे। 'छन्दसि लुङ्लङ्लिटः ' ( पा. सू. ३. ४. ६) इति वर्तमाने लिट् । नुडभावश्छन्दसः ॥
 
 
क॒वी नो॑ मि॒त्रावरु॑णा तुविजा॒ता उ॑रु॒क्षया॑ ।
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.२" इत्यस्माद् प्रतिप्राप्तम्