"ऋग्वेदः सूक्तं १.१" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ११:
{{ऋग्वेदः मण्डल १}}
 
<poem><span style="font-size: 14pt; line-height:200%">
<poem>
|ॐ अग्निमीळे पुरोहितं यज्ञस्य देवमृत्विजम् ।
मधुच्छन्दाः वैश्वामित्रः ऋषिः । गायत्रीच्छन्द्रः । अग्निर्देवता ॥
{| width=75%
 
|ॐ अग्निमीळे पुरोहितं यज्ञस्य देवमृत्विजम् ।
होतारं रत्नधातमम् ॥१॥
अग्निः पूर्वेभिरृषिभिरीड्यो नूतनैरुत ।
Line ३३ ⟶ ३०:
स नः पितेव सूनवेऽग्ने सूपायनो भव ।
सचस्वा नः स्वस्तये ॥९॥
</span></poem>
 
{{सायणभाष्यम्|
तत्र ‘अग्निमीळे' इति सूक्तं प्रातरनुवाके आग्नेये क्रतौ विनियुक्तम् । स विनियोग आश्वलायनेन चतुर्थाध्यायस्य त्रयोदशे खण्डे सूत्रितः-’अवा नो अग्न इति षळग्निमीळेऽग्निं दूतम्' इति । तत्र हीनपादग्रहणात् सूक्तनिश्चयः । सूक्तं सूक्तादौ हीने पादे' (आश्व. श्रौ.१. १ ) इति परिभाषितत्वात्। तस्मिन्सूक्ते प्रथमाया ऋचो द्वितीयस्यां पवमानेष्टौ स्विष्टकृतो याज्यात्वेन विनियोगः । स च द्वितीयाध्यायस्य प्रथमखण्डे सूत्रितः- साह्वान्विश्वा अभियुजोऽग्निमीळे पुरोहितमिति संयाज्ये ' इति । तत्र कृत्स्नपदग्रहणात् ऋगित्यवगम्यते । ऋचं पादग्रहणे' ( आश्व. श्रौ १. १ ) इति परिभाषितत्वात् । तथा ‘संयाज्ये इत्युक्ते सौविष्टकृती प्रतीयात्' (आश्व. श्रौ. २.१) इति परिभाषितत्वात् स्विष्टकृत्संबन्धनिश्चयः। तत्रापि द्वितीयमन्त्रत्वेनोदाहृतत्वात् याज्यात्वम् । यद्यपि साह्वानित्यनया पुरोनुवाक्यचैव देवताया अनुस्मरणरूपसंस्कारः सिद्धस्तथापि याज्यानुवाक्ययोः समुच्चयो द्वादशेऽध्याये चतुर्थपादे मीमांसितः
 
पुरोनुवाक्यया याज्या विकल्प्या वा समुच्चिता।
 
विकल्प्यान्यतरेणैव देवतायाः प्रकाशनात् ॥
 
पुरोनुवाक्यासमाख्यानाद्वचनाच्च समुच्चयः । देवताप्रकाशनकार्यस्यैकत्वात् । युग्मयोर्यथा विकल्पस्तथैवैकयुग्मगतयोरिति चेत्, मैवम् । पुरोनुवाक्येति समाख्याया उत्तरकालीनयाज्यामन्तरेणानुपपत्तेः । किंच ' पुरोनुवाक्यामनूच्य याज्यया जुहोति' इति प्रत्यक्षवचनेन देवतोपलक्षणहविष्र्पदानकार्ये भेदोक्तिपुरःसरं साहित्यं विधीयते । तस्मात् समुच्चय इति ॥
 
एतच्चाग्निमित्यादिसूक्तं नवर्चम् ‘अग्निं नव मधुच्छन्दा वैश्वामित्रः' इत्यनुक्रमणिकायामुक्तत्वात् । विश्वामित्रपुत्रो मधुच्छन्दोनामकस्तस्य सूक्तस्य द्रष्टृत्वात् तदीय ऋषिः। 'ऋष गतौ ' इति धातुः। सर्वधातुभ्य इन्' ( उ. सू. ४. ५५७ ) ‘इगुपधात्कित् ' ( उ. स. ४. ५५९ )। वेदप्राप्त्यर्थं तपोऽनुतिष्ठतः पुरुषान् स्वयंभूर्वेदपुरुषः प्राप्नोत् । तथा च श्रूयते-- अजान्ह वै पृश्नींस्तपस्यमानान्ब्रह्म स्वयंभ्वभ्यानर्षत्तदृषयोऽभवन्' (तै. आ. २. ९ ) इति । तथातीन्द्रियस्य वेदस्य परमेश्वरानुग्रहेण प्रथमतो दर्शनात् ऋषित्वमित्यभिप्रेत्य स्मर्यते –
 
युगान्तेऽन्तर्हितान् वेदान् सेतिहासान् महर्षयः ।
 
लेभिरे तपसा पूर्वमनुज्ञातः स्वयंभुवा ॥
 
इति ॥ ऋष्यादिज्ञानाभावे प्रत्यवायः स्मर्यते—
 
अविदित्वा ऋषिं छन्दो दैवतं योगमेव च।
 
योऽध्यापयेज्जपेद्वापि पापीयाञ्जायते तु सः ॥
 
ऋषिच्छन्दोदैवतानि ब्राह्मणार्थं स्वराद्यपि ।।
 
अविदित्वा प्रयुञ्जानो मन्त्रकण्टक उच्यते ॥
 
इति ॥ वेदनविधिश्च स्मर्यते--
 
स्वरो वर्णोऽक्षरं मात्रा विनियोगोऽर्थ एव च ।
 
मन्त्रं जिज्ञासमानेन वेदितव्यं पदे पदे ॥
 
इति ॥ अग्निमित्यादिसूक्तस्य छन्दोऽनुक्रमणिकायां यद्यप्यत्र नोक्तं तथापि परिभाषायामेवमुक्तम् । ‘आदौ गायत्रं प्राग्घिरण्यस्तूपात् ' ( अनु. १२. १४ ) इति । हिरण्यस्तूपं ऋषिर्येषां मन्त्राणां वक्ष्यते ततः प्राचीनेषु मन्त्रेषु सामान्येन गायत्रं छन्द इत्यर्थः । पुरुषस्य पापसंबन्धं वारयितुमाच्छादकत्वाच्छन्द इत्युच्यते । तच्चारण्यकाण्डे समाम्नायते-’छादयन्ति ह वा एनं छन्दांसि पापकर्मणः' ( ऐ. आ. २.५) इति । अथवा चीयमानाग्निसंतापस्याच्छादकत्वाच्छन्दः। तच्च तैत्तिरीया आमनन्ति - : प्रजापतिरग्निमचिनुत स क्षुरपविर्भूत्वाऽतिष्ठत्तं देवा बिभ्यतो नोपायन्ते छन्दोभिरात्मानं छादयित्वोपायन्तच्छन्दसां छन्दस्त्वम् (तै. सं. ५. ६. ६. १) इति । यद्वा अपमृत्युं वारयितुमाच्छादयतीति छन्दः । तदपि छान्दोग्योपनिषद्याम्नातं- देवा वै मृत्योर्बिभ्यतस्त्रयीं विद्या प्राविशंस्ते छन्दोभिरात्मानमच्छादयन्यदेभिरच्छादयंस्तच्छन्दसां छन्दस्त्वम्' ( छां. उ. १. ४. २ ) इति । तथा द्योतनार्थदीव्यतिधातुनिमित्तो देवशब्द इत्येतदाम्नायते-- ‘दिवा वै नोऽभूदिति तद्देवानां देवत्वम्' इति । अतो दीव्यतीति देवः । मन्त्रेण द्योतते इत्यर्थः । अस्मिन् सूक्ते स्तूयमानत्वादग्निर्देवः । तथा चानुक्रमणिकायामुक्तं- मण्डलादिष्वाग्नेयमैन्द्रात्' (अनु. १२. १२) इति । तस्य सूक्तस्य प्रथमामृचं भगवान् वेदपुरुष आह--
 
 
|अ॒ग्निमी॑ळे पु॒रोहि॑तं य॒ज्ञस्य॑ दे॒वमृ॒त्विज॑म् ।
 
|अ॒ग्निमी॑ळे पु॒रोहि॑तं य॒ज्ञस्य॑ दे॒वमृ॒त्विज॑म् ।
होता॑रं रत्न॒धात॑मम् ॥
 
ॐ अग्निम् । ईळे । पुरःऽहितम् । यज्ञस्य । देवम् । ऋत्विजम् ।
 
होतारम् । रत्नधातमम् ॥१॥
 
अग्निनामकं देवम् ईळे स्तौमि। ‘ईड स्तुतौ' इति धातुः। डकारस्य ळकारो बह्वृचाध्येतृसंप्रदायप्राप्तः। तथा च पठ्यते-- अज्मध्यस्थडकारस्य ळकारं बह्वृचा जगुः । अज्मध्यस्थढकारस्य ळ्हकारं वै यथाक्रमम्' इति ॥ मन्त्रस्य होत्रा प्रयोज्यत्वादहं होता स्तौमीति लभ्यते । कीदृशमग्निम्। “यज्ञस्य “पुरोहितम्। यथा राज्ञः पुरोहितस्तदभीष्टं संपादयति, तथाग्निरपि यज्ञस्यापेक्षितं होमं संपादयति । यद्वा। यज्ञस्य संबन्धिनि पूर्वभागे आहवनीयरूपेणावस्थितम्। पुनः कीदृशम् । “देवं दानादिगुणयुक्तम् । पुनः कीदृशम्। “होतारम् “ऋत्विजम् । देवानां यज्ञेषु होतृनामक ऋत्विगग्निरेव । तथा च श्रूयते- अग्निर्वै देवानां होता' ऐ. ब्रा. ३. १४ ) इति । पुनरपि कीदृशम् । “रत्नधातमं यागफलरूपाणां रत्नानामतिशयेन धारयितारं पोषयितारं वा । अत्राग्निशब्दस्य यास्को बहुधा निर्वचनं दर्शयति--‘अथातोऽनुक्रमिष्यामोऽग्निः पृथिवीस्थानस्तं प्रथमं व्याख्यास्यामोऽग्निः कस्मादग्रणीर्भवत्यग्रं यज्ञेषु प्रणीयतेऽङ्गं नयति संनममानोऽक्नोपनो भवतीति स्थौलाष्ठीविर्न क्नोपयति न स्नेहयति त्रिभ्य आख्यातेभ्यो जायत इति शाकपूणिरितादक्ताद्दग्धाद्वा नीतात्स खल्वेतेरकारमादत्ते गकारमनक्तेर्वा दहतेर्वा नीः परस्तस्यैषा भवत्यग्निमीळे' ( निरु. ७, १४ ) इति । अस्यायमर्थः । सामान्येन सर्वदेवतानां लक्षणस्याभिहितत्वादनन्तरं यतः प्रतिपदं विशेषेण वक्तव्यत्वमाकाङ्क्षितम् अतोऽनुक्रमेण वक्ष्यामः । तत्र पृथिवीलोके स्थितोऽग्निः प्रथमं व्याख्यास्यते । कस्मात् प्रवृत्तिनिमित्तादग्निशब्देन देवताभिधीयत इति प्रश्नस्य ' अग्रणीः' इत्यादिकमुत्तरम् । देवसेनामग्रे स्वयं नयतीत्यग्रणीः । एतदेकमग्निशब्दस्य प्रवृत्तिनिमित्तम् । तथा च ब्राह्मणान्तरम्- अग्निर्देवानां सेनानीः' इति । एतदेवाभिप्रेत्य बह्वृचा मन्त्रब्राह्मणे आमनन्ति- अग्निर्मुखं प्रथमो देवतानाम् ' ( ऐ. ब्रा. १. ४ ) इति मन्त्रः । ‘अग्निर्वै देवानामवमः' ( ऐ. ब्रा. १, १ ) इति ब्राह्मणम् । तथा तैत्तिरीयाश्चामनन्ति- अग्निरग्रे प्रथम देवतानाम् ' ( तै. ब्रा. २. ४. ३. ३) इति । ‘अग्निरवमो देवतानाम् ' इति च । वाजसनेयिनस्वेा मामनन्ति- स वा एषोऽग्रे देवतानामजायत तस्मादग्निर्नाम' इति । यज्ञेषु अग्निहोत्रेष्टिपशुसोमरूपेषु अग्रं पूर्वदिग्वर्त्याहवनीयदेशं प्रति गार्हपत्यात् प्रणीयते इति द्वितीयं प्रवृत्तिनिमित्तम् । संनममानः सम्यक् स्वयमेव प्रह्वीभवन् अङ्गं स्वकीयं शरीरं नयति काष्ठदाहे हविष्पाके च प्रेरयतीति तृतीयं प्रवृत्तिनिमित्तम् । स्थूलाष्ठीवनामकस्य महर्षेः पुत्रो निरुक्तकारः कश्चित् “ अक्नोपनः' इति अग्निशब्दं निर्वक्ति । तत्र न क्नोपयतीत्युक्ते न स्नेहयति, किंतु काष्ठादिकं रूक्षयतीत्युक्तं भवति । शाकपूणिनामको निरुक्तकारो धातुत्रयादग्निशब्दनिष्पतिं मन्यते । इतः ‘इण् गतौ ' इति धातुः । अक्तः ‘अञ्जूव्यक्तिम्रक्षणकान्तिगतिषु ' इति धातुः । दग्धः ‘दह भस्मीकरणे ' इति धातुः । नीतः ‘णीम् प्रापणे ' इति धातुः । अग्निशब्दो हि अकारगकारनिशब्दानपेक्षमाणः एतिधातोरुत्पन्नात् अयनशब्दात् अकारमादत्ते । अनक्तिधातुगतस्य ककारस्य गकारादेशं कृत्वा तमादत्ते । यद्वा । दहतिधातुजन्यात् दग्धशब्दात् गकारमादत्ते । नीः इति नयति धातुः । स च ह्रस्वो भूत्वा परो भवति । ततो धातुत्रयं मिलित्वा अग्निशब्दो भवति । यज्ञभूमिं गत्वा स्वकीयमङ्गं नयति काष्ठदाहे हविष्पाके च प्रेरयतीति समुदायार्थः । तस्य अग्निशब्दार्थस्य देवताविशेषस्य प्राधान्येन स्तुतिप्रदर्शनायैषा • अग्निमीळे इति ऋक् भवतीति । तामेतां ऋचं यास्क एवं व्याख्यातवान्---- अग्निमीळेऽग्निं याचामीळिरध्येषणाकर्मा पूजाकर्मा वा पुरोहितो व्याख्यातो यज्ञस्य देवो दानाद्वा दीपनाद्वा द्योतनाद्वा द्युस्थानो भवतीति वा यो देवः सा देवता होतारं ह्वातारं जुहोतेर्होतेत्यौर्णवाभो रत्नधातमं रमणीयानां धनानां दातृतमम् । (निरु. ७. १५) इति । अस्यायमर्थः--ईडतिधातोः स्तुत्यर्थत्वं प्रसिद्धम् । धातूनामनेकार्थत्वमिति न्यायमाश्रित्य याञ्चाध्येषणापूजाः अप्यत्रोचितत्वात् तदर्थतया व्याख्याताः । पुरोहितशब्दो द्वितीयेऽध्याये ‘यद्देवापिः शंतनवे पुरोहितः इत्येतां ऋचमुदाहृत्य ‘पुर एनं दधति' (निरु. २. १२) इति व्याख्यातः । तैत्तिरीयाश्च पौरोहित्ये स्पर्धमानस्य पश्वनुष्ठानं विधाय तत्फलत्वेन ‘पुर एनं दधते' (ते. सं. २. १. २. ९ ) इत्यामनन्ति । देवशब्दो दानदीपनद्योतनानामन्यतममर्थमाचष्टे । यज्ञस्य दाता दीपयिता द्योतयितायमग्निरित्युक्तं भवति । दीपनद्योतनयोरेकार्थत्वेऽप्यस्ति धातुभेदः । यद्यप्यग्निः पृथिवीस्थानस्तथापि देवान् प्रति हविर्वहनात द्युस्थानो भवति । देवशब्ददेवताशब्दयोः पर्यायत्वान्मन्त्रप्रतिपाद्या काचिदग्निव्यतिरिक्ता देवता नान्वेषणीया । होतृशब्दस्य ह्वयतिधातोरुत्पन्नत्वेन देवानामाह्वातारमिति । और्णवाभनामकस्तु मुनिः जुहोतिधातोरुत्पन्नो होतृशब्द इति मन्यते । अग्नेश्च होतृत्वं होमाधिकरणत्वेन द्रष्टव्यम् । रत्नशब्दो द्वितीयाध्याये ‘मघम्' इत्यादिष्वष्टाविंशतौ धननामसु (नि.२. १०.७) पठितः । रमणीयत्वात् रत्नत्वम् । दधातिधातुरत्र दानार्थवाचीति । तदिदं निरुक्तकारस्य यास्कस्य मन्त्रव्याख्यानम् ॥ अथ व्याकरणप्रक्रियोच्यते । अगिधातोर्गत्यर्थात् ' अङ्गेर्नलोपश्च' ( उ. सू. ४. ४९० ) इति औणादिकसूत्रेण निप्रत्ययः । इदित्वान्नुमागमेन प्राप्तस्य नकारस्य ( पा. सू. ७. १. ५८ ) लोपश्च भवति । अङ्गति स्वर्गे गच्छति हविर्नेतुमित्यग्निः । तत्र ' धातोः ' ( पा. सू. ६. १. १६२) इति अकार उदात्तः । ' आद्युदात्तश्च ' ( पा. सू. ३. १. ३) इति प्रत्ययगत इकारोऽप्युदात्तः । ‘अनुदात्तं पदमेकवर्जम् ' (पा. सू. ६. १, १५८) इति द्वयोरन्यतरमुदात्तमवशेष्येतरस्यानुदात्तत्वं प्राप्तम् । तत्र धातुस्वरे प्रथमतोऽवस्थिते सति पश्चादुपदिश्यमानः प्रत्ययस्वरोऽवशिष्यते । 'सति शिष्टस्वरो बलीयान्' (पा. सू. ६. १. १५८.९) इति हि न्यायः । ततोऽन्तोदात्तमग्निप्रातिपदिकम् । ‘अनुदात्तौ सुप्पितौ ' ( पा. सू. ३. १. ४ ) इति अम् इत्येतत् द्वितीयैकवचनमनुदात्तम् । तस्य ‘अमि पूर्वः ' (पा. सू. ६. १. १०७ ) इति यत् पूर्वरूपं तदुदात्तम् “ एकादेश उदात्तेनोदात्तः ' (पा. सू. ८. २. ५ ) इति सूत्रितत्वात् । अग्निशब्दो धातुजन्मेति मते सेयं प्रक्रिया सर्वापि द्रष्टव्या । मतद्वयं यास्केन प्रदर्शितं--- ‘नामान्याख्यातजानीति शाकटायनो नैरुक्तसमयश्च न सर्वाणीति गार्ग्यो वैयाकरणानां चैके' (निरु. १. १२ ) इति । गार्ग्यस्य मतेऽग्निशब्दस्याखण्डप्रातिपदिकत्वात् ' फिषोऽन्त उदात्तः ' ( फि. सू. १ ) इत्यन्तोदात्तत्वम् । पूर्वोक्तेष्वग्रणीरित्यादिनिर्वचनेषु प्रकृतिप्रत्ययाद्यशेषप्रक्रिया यथोचितं कल्पनीया । एतदेवाभिप्रेत्य यास्क आह--' अथ निर्वचनं तद्येषु पदेषु स्वरसंस्कारौ समर्थौ प्रादेशिकेन गुणेनान्वितौ स्यातां तथा तानि निर्ब्रूयादथानन्वितेऽर्थेऽप्रादेशिके विकारेऽर्थनित्यः परीक्षेत केनचिद्वृत्तिसामान्येनाविद्यमाने सामान्येऽप्यक्षरवर्णसामान्यान्निर्ब्रूयान्नत्वेव न निर्ब्रूयात् ' (निरु. २. १) इति । अस्यायमर्थः-तत्तत्र निर्वचनीयपदसमूहमध्ये येष्वग्न्यादिपदेषु पूर्वोक्तरीत्या स्वरसंस्कारौ समर्थौ व्याकरणसिद्धौ स्याताम् । स्वर उदात्तादिः । संस्कारो निप्रत्ययादिः । किंच तौ स्वरसंस्कारी प्रादेशिकेन गुणेनान्वितौ स्याताम् । शब्दस्यैकदेशः पूर्वोक्तोऽगिधातुः प्रदेशः । तत्र भवो गुणो गतिरूपोऽर्थः । तेनान्वितौ। तान्यग्न्यादिपदानि तथा व्याकरणानुसारेण निर्ब्रूयात् । तच्च निर्वचनमस्माभिः प्रदर्शितम् । अथ पूर्वोक्त वैलक्ष्ण्येन कश्चित् स्वेन विवक्षितोऽर्थो नान्वितः तस्मिन् शब्देऽनुगतो न भवेत् । तस्यैव व्याख्यानम् ‘अप्रादेशिके विकारे ' इति । अग्रनयनादिरूपः क्रियाविशेषो विकारः । स च प्रदेशेनाग्निशब्दैकदेशेनात्र नाभिधीयते इत्यप्रादेशिकः । एवं सति यः पुमानर्थनित्यः स्वविवक्षितेऽर्थे नियतो निर्बन्धवान् । ब्राह्मणनुसारेण वा देवतान्तरविशेषणत्वेन योजयितुं वा स निर्बन्धः । तदानीं स पुमान् केनचित् वृत्तिसामान्येन स्वविवक्षितमर्थं परीक्षेत, तस्मिन् शब्दे योजयेत् । वृत्तिः क्रिया । तद्रूपेण सामान्यं सादृश्यम् । अस्माभिश्च अग्रनयनादिरूपं क्रियात्वसामान्यमुपजीव्य अग्रणीत्वाद्यर्थो योजितः । तदिदं यास्काभिमतं निर्वचनम् । स्थौलाष्ठीवि: अक्षरसाम्यान्निर्वक्ति। अक्नोपनशब्दस्यादौ निषेधार्थम् अकाररूपमक्षरं विद्यते । अग्निशब्दस्याप्यादौ अकारोऽस्ति । तदिदमक्षरसाम्यम् । शाकपूणिस्तु वर्णसाम्यान्निर्ब्रूते-दग्धशब्दाग्निशब्दयोर्गकारवर्णेन साम्यम् । सर्वथापि निर्वचनं न त्याज्यमिति । ईळे इत्येतत्पदं कृत्न्-मप्यनुदात्तम् । ( पा. सू .८, १. २८) इति अतिङन्तादग्निशब्दात् परस्य ईळे इत्यस्य तिङन्तस्य निघातविधानात् । पदद्वयसंहिताकाले तु ईकारस्य धातुगतस्य ‘उदात्तादनुदात्तस्य स्वरितः' (पा. सू. ८, ४, ६६ ) इति स्वरितत्वम् । तस्मात् ऊर्ध्वभाविन एकरस्य तिङ्प्रत्ययरूपस्य ‘स्वरितात्संहितायामनुदात्तानाम्' (पा.सू.१. २.३९) इति ऐकश्रुत्यं प्रचयनामकं भवति । पुरःशब्दोऽन्तोदात्तः । अयं पुरो भुवः' (तै. सं.४.३.२. १) इत्यत्र तथैवाम्नातत्वात् । पूर्वाधरावराणामसि पुरधवश्चैषाम् ' (पा. सू. ५, ३. ३९) इति पूर्वशब्दात् अस्प्रत्ययः पुरादेशश्च । ततोऽत्र प्रत्ययस्वरः (पा. सू. ३. १. ३ ) । धाञो निष्ठायां दधातेर्हिः' (पा. सू. ७. ४. ४२) इत्यादेशे सति प्रत्ययस्वरेणान्तोदात्तो हितशब्दः । तत्र समासान्तोदात्तत्वे (पा. सू. ६. १. २२३ ) प्राप्ते तदपवादत्वेन ‘तत्पुरुषे तुल्यार्थ' ( पा. सू. ६, २. २ ) इत्यादिना अव्ययपूर्वप्रदप्रकृतिस्वरत्वम् । यद्वा । ‘पुरोऽव्ययम् ' ( पा. सू. १. ४. ६७ ) इति गतिसंज्ञायां गतिरनन्तर: ' ( पा. सू. ६. २. ४९ ) इति पूर्वपदप्रकृतिस्वरत्वम् । तत ओकार उदात्तः। अवशिष्टानामनुदात्तस्वरितप्रचयाः पूर्ववत् द्रष्टव्याः । आद्याक्षरस्य संहितायां प्रचयप्राप्तौ ( पा. सू. १. २. ३९) उदात्तस्वरितपरस्य सन्नतरः' (पा. सू. १. २. ४०) इत्यतिनीचोऽनुदात्तः । ‘यजयाच°' (पा. सू. ३. ३. ९०) इत्यादिना यजतेः नङ्प्रत्यये सति अन्तोदात्तो यज्ञशब्दः । विभक्तेः सुप्स्वरेणानुदात्तत्वे सति (पा. सू. ३. १. ४) पश्चात् स्वरितत्वम् । देवशब्दः पचाद्यजन्तः ( पा. सू. ३. १. १३४ ) । स च फिट्स्वरेण (फि. सू. १ ) प्रत्ययस्वरेण (पा. सू. ३. १. ३) चित्स्वरेण (पा. सू. ६. १. १६३) वा अन्तोदात्तः । ऋत्विक्शब्दः ‘ऋतौ यजति' इति विग्रहे सति ‘ऋत्विग्दधृक्' (पा. सू. ३. २, ५९ ) इति निपातितः । ‘गतिकारकोपपदात्कृत् ' ( पा. सू. ६. २. १३९ ) इति कृदुत्तरपदप्रकृतिस्वरेणान्तोदात्तः । विभक्तिस्वरः पूर्ववत् । होतृशब्दस्तृन्प्रत्ययान्तः (पा. सू. ३. २. १३५)। नित्स्वरेणादाद्युदात्तः ( पा. सू. ६. १. १९७ )। स्वरितप्रचयौ पूर्ववत् । रत्नशब्दो ‘ नब्विषयस्यानिसन्तस्य ' ( फि. सू. २६) इत्याद्युदात्तः । तथा चाम्नायते-- रत्नं धाता' इति । रत्नानि दधातीति विग्रहः । समासत्वादन्तोदात्तो रत्नधाशब्दः । यद्वा कृदुत्तरपदप्रकृतिस्वरः । तमप्प्रत्ययस्य ( पा. सू. ५. ३. ५५ ) पित्स्वरेणानुदात्ते सति (पा. सू. ३. १. ४ ) स्वरितप्रचयौ । संहितायामाद्याक्षरस्य प्रचयो द्वितीयाक्षरस्य सन्नतरत्वम्। 'वेदावतार अद्याया ऋचोऽर्थश्च प्रपञ्चितः । विज्ञातं वेदगाम्भीर्यमथ संक्षिप्य वर्ण्यते ।।
 
 
अ॒ग्निः पूर्वे॑भि॒रृषि॑भि॒रीड्यो॒ नूत॑नैरु॒त ।
 
स दे॒वाँ एह व॑क्षति ॥
 
अग्निः । पूर्वेभिः । ऋषिऽभिः । ईड्यः । नूतनैः । उत ।
सः। देवान् । आ । इह । वक्षति ॥२॥
 
 
अ॒ग्निना॑ र॒यिम॑श्नव॒त्पोष॑मे॒व दि॒वेदि॑वे ।
 
य॒शसं॑ वी॒रव॑त्तमम् ॥
 
अग्ने॒ यं य॒ज्ञम॑ध्व॒रं वि॒श्वत॑ः परि॒भूरसि॑ ।
 
स इद्दे॒वेषु॑ गच्छति ॥
 
अ॒ग्निर्होता॑ क॒विक्र॑तुः स॒त्यश्चि॒त्रश्र॑वस्तमः ।
 
दे॒वो दे॒वेभि॒रा ग॑मत् ॥
 
यद॒ङ्ग दा॒शुषे॒ त्वमग्ने॑ भ॒द्रं क॑रि॒ष्यसि॑ ।
 
तवेत्तत्स॒त्यम॑ङ्गिरः ॥
 
उप॑ त्वाग्ने दि॒वेदि॑वे॒ दोषा॑वस्तर्धि॒या व॒यम् ।
 
नमो॒ भर॑न्त॒ एम॑सि ॥
 
राज॑न्तमध्व॒राणां॑ गो॒पामृ॒तस्य॒ दीदि॑विम् ।
 
वर्ध॑मानं॒ स्वे दमे॑ ॥
 
स न॑ः पि॒तेव॑ सू॒नवेऽग्ने॑ सूपाय॒नो भ॑व ।
 
सच॑स्वा नः स्व॒स्तये॑
 
|}}
 
</poem>
 
= =
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.१" इत्यस्माद् प्रतिप्राप्तम्