"ऋग्वेदः सूक्तं १.१" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ८५:
सः। देवान् । आ । इह । वक्षति ॥२॥
 
अयम् “अग्निः पूर्वेभिः पुरातनैर्भृग्वङ्गिरःप्रभृतिभिः “ऋषिभिः ”ईड्यः स्तुत्यः, "नूतनै: "उत इदानींतनैरस्माभिरपि स्तुत्यः। “सः अग्निः स्तुतः सन् “इह यज्ञे "देवान् हविर्भुजः “आ “वक्षति । वह प्रापणे इति धातुः । आवहतु इत्यर्थः॥ पूर्वेभिरित्यत्र ‘बहुलं छन्दसि ' ( पा. सू. ७. १. १०) इति भिस ऐसादेशाभावः । पूर्व पर्व अर्व पूरणे' इति धातुः । पूर्वतिधातोः अन्प्रत्यय औणादिकः । इन्प्रत्ययान्त ऋषिशब्दः ' ऋष्यन्धक°' ( पा. सू. ४. १. ११४) इति निपातनात् लघूपधगुणाभावः ( पा. सू. ७० ३. ८६ )। कित्प्रत्ययो वात्र ज्ञेयः (उ. सू. ४. ५५९) । तौ शब्दौ नित्स्वरेणाद्युदात्तौ । ईड्यशब्दस्य ण्यत्प्रत्ययान्तत्वात् ( पा. सू. ३. १. १२४ ) तित्स्वरितम्' (पा. सू. ६. १. १८५) इति स्वरिते शेषानुदात्तत्वे च प्राप्ते तदपवादत्वेन ‘ईडवन्द° ' (पा. सू. ६. १. २१४ ) इत्यादिनाद्युदात्तत्वम् । ‘नवस्य नू त्नप्तनखाश्च ' ( पा. सू ५. ४. ३०. ६) इति वार्तिकेन नवशब्दस्य नू इत्यादेशः तनन्प्रत्ययश्च महावार्तिके विहितः । ततो नित्स्वरेणाद्युदात्तः । अवशिष्टस्वरा अग्न्यादिषु नूतनान्तेषु पूर्ववदुन्नेयाः । उतशब्दो यद्यपि विकल्पार्थे प्रसिद्धस्तथापि निपातत्वेनानेकार्थत्वादौचित्येनात्र समुच्चयार्थों द्रष्टव्यः ।' उच्चावचेष्वर्थेषु निपतन्ति' इति निपातत्वम् । तर्हि ‘ निपाता आद्युदात्ताः ' ( फि. सू. ८०) इत्युकारस्योदात्तः प्राप्त इति चेत्, न । प्रातःशब्दवदन्तोदात्तत्वात् । यथा प्रातःशब्दोऽन्तोदात्तत्वेनैव स्वरादिषु ( पा. सू. १. १. ३७ ) पठितः, एवमुतशब्दस्यापि पाठो द्रष्टव्यः, स्वरादेराकृतिगणत्वात् । यद्वा ‘एवादीनामन्तः ' (फि. सू. ८२ ) इत्यन्तोदात्तः । स इत्यत्र फिट्स्वरः । देवशब्दः पूर्ववत् । देवान् इत्यस्य नकारस्य संहितायां दीर्घादटि' ( पा. सू. ८. ३.९ ) इति रुत्वम् । अत्रानुनासिकः ' (पा. सू. ८. ३. २) इत्यनुवृत्तौ ‘आतोऽटि नित्यम्' ( पा. सू. ८. ३. ३) इत्याकारः सानुनासिकः। ‘भोभगो' ( पा. सू. ८. ३. १७ ) इति रोर्यकारः । स च ‘लोपः शाकल्यस्य ' ( पा. सू. ८. ३. १९ ) इति लुप्यते । तस्यासिद्धत्वात् ( पा. स. ८. २. १ ) न पुनः संधिकार्यम् । आङो निपातत्वादाद्युदात्तत्वम् । इदमो हप्रत्यये सति निष्पन्नत्वात् ( पा, सू. ५. ३. ११ ) इहशब्दे प्रत्ययस्वरः । वहति धातोर्लोडर्थे छान्दसो लृट् । तस्य स्यप्रत्ययगतस्य यकारस्य लोपोऽपि छान्दसः । यद्वा । लेटि ‘सिब्बहुलम् ' ( पा. सू. ३. १. ३४ ) इति सिप्प्रत्ययः । ‘लेटोऽडाटौ ' ( पा. सू. ३. ४.९४ ) इयडागमश्च । ततो वक्षतीति संपद्यते । तस्यै तिङन्तत्वान्निघातः । संहितास्वराः पूर्ववत् ॥
 
 
आधाने तृतीयेष्टौ प्रथमाज्यभागस्यानुवाक्या (आश्व. श्रौ. २. १ ) । सूक्तगत तृतीया ।
 
अ॒ग्निना॑ र॒यिम॑श्नव॒त्पोष॑मे॒व दि॒वेदि॑वे ।
 
य॒शसं॑ वी॒रव॑त्तमम् ॥
 
अग्निना । रयिम्। अश्नवत् । पोषम् । एव । दिवेऽदिवे ।
 
यशसम् । वीरवत्ऽतमम् ॥ ३ ॥
 
योऽयं होत्रा स्तुत्योऽग्निस्तेन “अग्निना निमित्तभूतेन यजमानः “रयिं धनम् "अश्नवत् प्राप्नोति । कीदृशं रयिम्।“दिवेदिवे “पोषम् “एवं प्रतिदिनं पुष्यमाणतया वर्धमानमेव, न तु कदाचिदपि क्षीयमाणम् । “यशसं दानादिना यशोयुक्तं “वीरवत्तमम् अतिशयेन पुत्रभृत्यादिवीरपुरुषोपेतम् । सति हि धने पुरुषाः संपद्यन्ते । रयिशब्दो ‘मघम्' इत्यादिधननामसु (नि. २.१०.८) पठितः । तत्र फिट्स्वरः। अश्नोतेर्धातोर्लेटि व्यत्ययेन तिप् । ' इतश्च लोपः' (पा. सू. ३. ४. ९७ ) इति इकारलोपः। 'लेटोऽडाटौ' (पा. सू. ३. ४. ९४ ) इत्यडागमः । ततः ‘अश्नवत्' इति भवति । तस्य निघातः। घञन्तत्वात् ( पा. सू. ६. १. १९७ ) पोषशब्द आद्युदात्तः । एवशब्दस्य निपातत्वेऽपि ‘एवादीनामन्तः ' (फि. सू. ८२ ) इत्यन्तोदात्तत्वम् । वकारान्तात् दिव्शब्दात् परस्याः सप्तम्याः ‘सुपां सुलुक्° ' ( पा. सू. ७. १. ३९ ) इत्यादिना शेभावे सति सावेकाचः' ( पा. सू. ६. १. १६८ ) इत्यादिना ‘ऊडिदंपदात् ' ( पा, सू. ६. १. १७१ ) इत्यादिना वा तस्योदात्तत्वम्। नित्यवीप्सयोः' ( पा. सू. ८. १. ४) इति द्विर्भावे सति उत्तरभागस्य ' अनुदात्तं च ' ( पा. सू. ८, १. ३ ) इत्यनुदात्तत्वम् । यशोऽस्यास्तीति विग्रहे सति ‘ अर्शआदिभ्योऽच् ' ( पा. सू. ५. २. १२७) इति अच्प्रत्ययः । चित्स्वरं व्यत्ययेन बाधित्वा मध्योदात्तत्वम् । फिट्स्वरेणान्तोदात्तात् वीरशब्दात् उत्तरयोर्मतुप्तमपोः पित्त्वादनुदात्तत्वम् । ह्रस्वनुड्भ्याम् ' ( पा. सू. ६. १. १७६ ) इति तु न साववर्णान्तत्वात् । ‘न गोश्वन्° ' ( पा. सू. ६. १. १८२ ) इति प्रतिषेधः ।।
 
 
अभिप्लवषडहस्य मध्यवर्तिषूक्थेषु तृतीयसवने मैत्रावरुणस्य ‘अग्ने यं यज्ञम्' इत्यादिको वैकल्पिकोऽनुरूपस्तृचः । एतच्च सप्तमाध्याये ‘ एह्यूषु' इत्यादिखण्डे सूत्रितम्-- अग्निं वो वृधन्तमग्ने यं यज्ञमध्वरम् ' ( आश्व. श्रौ. ७. ८) इति ॥
 
अग्ने॒ यं य॒ज्ञम॑ध्व॒रं वि॒श्वत॑ः परि॒भूरसि॑ ।
 
स इद्दे॒वेषु॑ गच्छति ॥
 
अग्ने । यम् । यज्ञम् । अध्वरम् । विश्वतः । परिऽभूः । असि ।
 
सः । इत् । देवेषु । गच्छति ॥४॥
 
हे “अग्ने त्वं “यं “यज्ञं “विश्वतः सर्वासुदिक्षु “परिभूः परितः प्राप्तवान् “असि “सः “इत् स एव यज्ञो “देवेषु तृप्तिं प्रणेतुं स्वर्गे “गच्छति । प्राच्यादिचतुर्दिगन्तेषु आहवनीयमार्जालीयगार्हपत्याग्नीध्रीयस्थानेषु अग्निरस्ति । परिशब्देन होत्रीयादिधिष्ण्यव्याप्तिर्विवक्षिता । कीदृशं यज्ञम् । “अध्वरं हिंसारहितम् । न ह्यग्निना सर्वतः पालितं यज्ञं राक्षसादयो हिंसितुं प्रभवन्ति ॥ अग्निशब्दस्य पाष्ठिकम् ( पा. सू. ६, १. १९८) आमन्त्रिताद्युदात्तत्वम् । न विद्यते ध्वरोऽस्येति बहुव्रीहौ ‘नञ्सुभ्याम् ' ( पा. सू. ६. २. १७२ ) इत्यन्तोदात्ततम् । विश्वतः इत्यत्र तसिलः प्रत्ययस्वरत्वं बाधित्वा पूर्ववर्णस्य ‘लिति' ( पा. सू. ६. १. १९३ ) इत्युदात्तत्वम् । परिभूरित्यत्र अव्ययपूर्वपदप्रकृतिस्वरत्वे प्राप्ते ( पा. सू. ६. २. २) तदपवादत्वेन कृदुत्तरपदप्रकृतिस्वरत्वम् ( पा. सू. ६. २. १३९) । असि इति तिङन्तस्य ‘ यद्वृतान्नित्यम्' ( पा. सू. ८. १. ६६ ) इति निघाताभावः ॥
 
 
अ॒ग्निर्होता॑ क॒विक्र॑तुः स॒त्यश्चि॒त्रश्र॑वस्तमः ।
 
दे॒वो दे॒वेभि॒रा ग॑मत् ॥
 
अग्निः । होता । कविऽक्रतुः । सत्यः । चित्रश्रवःऽतमः ।
 
देवः । देवेभिः । । गमत् ॥ ५ ॥
 
अयम् “अग्निः “देवः अन्यैर्देवैर्हविर्भोजिभिः सह “आ “गमत् अस्मिन् यज्ञे समागच्छतु । कीदृशोऽग्निः। “होता होमनिष्पादकः “कविक्रतुः। कविशब्दोऽत्र क्रान्तवचनो न तु मेधाविनाम । क्रतुः प्रज्ञानस्य कर्मणो वा नाम । ततः क्रान्तप्रज्ञः क्रान्तकर्मा वा । “सत्यः अनृतरहितः फलमवश्यं प्रयच्छतीत्यर्थः । “चित्रश्रवस्तमः । श्रूयते इति श्रवः कीर्तिः । अतिशयेन विविधकीर्तियुक्तः॥ कविक्रतुः चित्रश्रवस्तमः इत्यत्रोभयत्र बहुव्रीहित्वात् पूर्वपदप्रकृतिस्वरत्वम् ( पा. सू. ६. २. १ )। सत्सु साधुः सत्यः ‘सत्यादशपथे' (पा, सू. ५, ४. ६६ ) इत्यत्रान्तोदात्तो हरदत्तेन निपातितः ।
लोडन्तस्य गच्छतु इति शब्दस्य छत्वाभावः। उकारलोपश्छान्दसः। ततो रूपं गमत् इति भवति । स्पष्टमन्यत् ॥ ॥ १ ॥
 
 
यद॒ङ्ग दा॒शुषे॒ त्वमग्ने॑ भ॒द्रं क॑रि॒ष्यसि॑ ।
 
तवेत्तत्स॒त्यम॑ङ्गिरः ॥
 
यत् । अङ्ग । दाशुषे । त्वम् । अग्ने । भद्रम् । करिष्यसि ।
 
तव । इत् । तत् । सत्यम् । अङ्गिरः ॥६॥
 
अङ्ग इत्यभिमुखीकरणार्थो निपातः । “अङ्ग “अग्ने हे अग्ने त्वं “दाशुषे हविर्दत्तवते यजमानाय तत्प्रीत्यर्थं “यत् भद्रं वित्तगृहप्रजापशुरूपं कल्याणं “करिष्यसि “तत् भद्रं “तव “इत् तवैव । सुखहेतुरिति शेषः। हे “अङ्गिरः अग्ने एतच्च “सत्यं न त्वत्र विसंवादोऽस्ति । यजमानस्य विज्ञादिसंपत्तौ सत्यामुत्तरक्रत्वनुष्ठानेनाग्नेरेव सुखं भवति । भद्रशब्दार्थं शाट्यायनिनः समामन्ति---- यद्वै पुरुषस्य वित्तं तद्भद्रं गृहा भद्रं प्रजा भद्रं पशवो भद्रम्' इति।। अङ्गशब्दस्य निपातत्वेऽपि अभ्यादित्वात् (फि. सू. ८१) अन्तोदात्तत्वम्। ‘दाश्वान्साह्वान् ' (पा. सू. ६. १. १२) इति सूत्रेण • दाश दाने ' इति धातोः क्वसुप्रत्ययो निपातितः । तत्र प्रत्ययस्वरः ( पा. सू. ३. १. ३)। आमन्त्रितस्य अग्निशब्दस्य पदात्परत्वेन आष्टमिकानुदात्तत्वं (पा. सू. ८. १. १९ ) न शङ्कनीयम्, अपादादौ' ( पा. सू. ८. १. १८) इति पर्युदस्तत्वात् । ततः पाष्टिकम् ( पा. सू. ६. १. १९८ ) आद्युदात्तत्वमेव । भद्रशब्दस्य नब्विषयत्वेन फि. सू. २६) आद्युदात्तत्वप्रसक्तावपि भदि कल्याणे' इति धातोरुपरि रक्प्रत्ययेन निपातनादन्तोदात्तत्वम् । अस्मिन् वाक्ये यच्छब्दप्रयोगात् निपातैर्यद्यदिहन्त ' (पा. सू. ८. १. ३० ) इति निघाते प्रतिषिद्धे स्यप्रत्ययस्वरेण सति शिष्टेन करिष्यसिशब्द उपान्त्योदात्तः । तवेत्यत्र ‘युष्मदस्मदोर्ङसि ( पा. सू. ६. १. २ १ १ ) इत्याद्युदात्तत्वम् । “ अङ्गिरा अङ्गाराः ' ( निरु० ३. १७ ) इति यास्कः । ऐतरेयिणोऽपि प्रजापतिदुहितृध्यानोपाख्याने समामनन्ति- येऽङ्गारा आसंस्तेऽङ्गिरसोऽभवन् ' ( ऐ. ब्रा. ३. ३४ ) इति । तस्मात् अङ्गिरोनामकमुनिकारणत्वात् अङ्गाररूपस्याग्नेरङ्गिरस्त्वम् । अत्र पदात्परत्वेनाष्टमिकानुदात्तत्वम् ।
 
 
अग्नीषोमप्रणयने : उप त्वाग्ने ' इत्यादिकोऽनुवचनीयस्तृचः । एतच्च ब्राह्मणे समाम्नातम्- उप त्वाग्ने दिवेदिव उप प्रियं पनिप्नतमिति तिस्रश्चैकां चान्वाह ' ( ऐ. ब्रा. १. ३० ) इति ।
 
उप॑ त्वाग्ने दि॒वेदि॑वे॒ दोषा॑वस्तर्धि॒या व॒यम् ।
 
नमो॒ भर॑न्त॒ एम॑सि ॥
 
उप । त्वा । अग्ने । दिवेऽदिवे । दोषाऽवस्तः । धिया । वयम् ।
 
नमः । भरन्तः । आ। इमसि ।।७।।
 
हे “अग्ने वयम् अनुष्ठातारः “दिवेदिवे प्रतिदिनं दोषावस्तः रात्रावहनि च “धिया बुद्ध्या “नमः “भरन्तः नमस्कारं संपादयन्तः “उप समीपे “त्वा “एमसि त्वामागच्छामः । उपशब्दस्य निपातस्वरः (फि. सू. ८०)। त्वामौ द्वितीयायाः' ( पा. सू. ८. १. २३) इति युष्मच्छब्दस्यानुदात्तस्त्वादेशः । दोषाशब्दो रात्रिवाची । वस्तर् इति अहर्वाची । द्वन्द्वसमासे कार्तकौजपादित्वात् ( पा. सू. ६. २. ३७ ) आद्युदात्तः । ‘सावेकाचः० ' ( पा. सू. ६. १. १६८ ) इति धियो विभक्तिरुदात्ता । नम इति निपातः । भरन्त इत्यत्र शपः (पा. सू. ३. १. ६८ ) पित्वा वत् शतुर्लसार्वधातुकत्वाच्च अनुदात्तत्वे सति ( पा. सु. ६. १. १८६ ) धातुस्वरः शिष्यते । इमसि इत्यत्र ‘इदन्तो मसिः' (पा. सू. ७. १. ४६ ) इत्यादेशो निघातश्च ।
 
 
राज॑न्तमध्व॒राणां॑ गो॒पामृ॒तस्य॒ दीदि॑विम् ।
 
वर्ध॑मानं॒ स्वे दमे॑ ॥
 
राजन्तम् । अध्वराणाम् । गोपाम् । ऋतस्य । दीदिविम्।
 
वर्धमानम् । स्वे। दमे ॥ ८ ॥
 
पूर्वमन्त्रे त्वामुपैम इत्यग्निमुद्दिश्योक्तम् । कीदृशं त्वाम् । राजन्तं दीप्यमानम् “अध्वराणां राक्षसकृतहिंसारहितानां यज्ञानां “गोपां रक्षकम् “ऋतस्य सत्यस्यावश्यंभाविनः कर्मफलस्य “दीदिविं पौनःपुन्येन भृशं वा द्योतकम् । आहुत्याधारमग्निं दृष्ट्वा शास्त्रप्रसिद्धं कर्मफलं स्मर्यते । “स्वे “दमे स्वकीयगृहे यज्ञशालायां हविर्भिः “वर्धमानम् ॥ राजन्तं वर्धमानमित्यत्रोभयत्र पूर्ववत् धातुस्वरः शिष्यते। दीदिविशब्दस्य ‘अभ्यस्तानामादिः' (पा. सू. ६. १. १८९) इत्याद्युदात्तत्वम् । दमशब्दो वृषादित्वात् ( पा. सू. ६. १. २०३ ) आद्युदात्तः ॥
 
 
स न॑ः पि॒तेव॑ सू॒नवेऽग्ने॑ सूपाय॒नो भ॑व ।
 
सच॑स्वा नः स्व॒स्तये॑
 
सः । नः । पिताऽइव। सूनवे । अग्ने । सुऽउपायनः । भव ।
सचस्व । नः । स्वस्तये ॥९॥
 
हे “अग्ने “सः त्वं “नः अस्मदर्थं सूपायनः शोभनप्राप्तियुक्तः “भव । तथा नः अस्माकं “स्वस्तये विनाशराहित्यार्थं “सचस्व समवेतो भव । तन्नोभयत्र दृष्टान्तः । यथा “सूनवे पुत्रार्थं पिता सुप्रापः प्रायेण समवेत्तो भवति तद्वत् ॥ अस्मच्छब्दादेशस्य न इत्येतस्य अनुदात्तं सर्वम् ' ( पा. सू. ८. १. १८ ) इत्यनुदात्तत्वम् । ‘चादयोऽनुदात्ताः' (फि. सू. ८४ ) इति इवशब्देऽनुदात्तः । ‘इवेन नित्यसमासः पूर्वपदकृतिस्वरत्वं च वक्तव्यम्' (पा. सू. २. १. ४. २ ) इति समस्तः पितेवेति शब्दो मध्योदात्तः। शोभनमुपायनं यस्येति बहुव्रीहौ ‘नञ्सुभ्याम् ' ( पा. सू. ६. २. १७२) इत्यन्तोदात्तत्वम् । सचस्वेत्यत्र पदात्परत्वं नास्तीति न निघातः। लसार्वधातुकानुदात्तत्वे सति धातुस्वरावशेषः ॥ ॥ २ ॥
 
 
}}
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.१" इत्यस्माद् प्रतिप्राप्तम्