"जैमिनीयं ब्राह्मणम्/काण्डम् २/१८१-१९०" इत्यस्य संस्करणे भेदः

<span style="font-size: 14pt; line-height: 200%">अथैतान्य् आप्रीर् आज्यानि भ... नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
पङ्क्तिः १:
<poem><span style="font-size: 14pt; line-height: 200%">अथैतान्य् आप्रीर् आज्यानि भवन्ति। प्रजापतिः प्रजा असृजत। स सृष्ट्वा रिरिचानो ऽमन्यत। स एतान्य् आप्रीर् आज्यान्य् अपश्यत्। तैर् आत्मानम् आप्रीणीतायातयामतायै। रिच्यत इव वा एष यत् सर्वं ददाति। तद् यद् एतान्य् आप्रीर् आज्यानि भवन्त्य् आत्मानम् एवैतैर् यजमान आप्रीणीते ऽयातयामतायै। तद् आहुर् वीव वा एते प्राणैर् ऋध्यन्ते य एतानि नानारूपाणि नानादेवत्यानि नानाछन्दःसु समाने यज्ञक्रतौ संप्रोहन्तीति। तद् यद् गायत्रीषु बृहद् भवति - प्राणो वै बृहत्। प्राणो गायत्री - प्राणैर् एव तत् समृध्यन्ते। यद् यथापूर्वं पृष्ठान्य् उपेयू रेवतीर् उत्तमाः कुर्यू रेवतीनाम् एता रूपम् ऋचस्, तेनैव रेवतीनां रूपान् न यन्ति। तद् आहुर् यन्ति वा एते ऽग्निष्टोमसाम्नो ये त्रयस्त्रिंशं स्तोमं कुर्वन्तीति। एकविंशत्यक्षरा एता ऋचो भवन्ति। तेनैवाग्निष्टोमसाम्नो न यन्ति। तद् आहुर् यन्ति वा एते यज्ञायज्ञीयाद् य बृहद् अग्निष्टोमसाम कुर्वन्तीति। तद् यत् त्वम् अग्ने यज्ञानां होतेति भवति तेनैव यज्ञायज्ञीयस्य रूपान् न यन्ति, तेन तृतीयसवनान् न यन्ति। तद् आहुर् वीव वा एष पशुभिर् ऋध्यते यत् सर्वं ददातीति॥2.181॥
 
 
पङ्क्तिः २९:
 
 
</span></poem>