"ऋग्वेदः सूक्तं १०.९९" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ८:
| notes = दे. इन्द्रः। त्रिष्टुप् ।
}}
{{ऋग्वेदः मण्डल १०}}
 
<poem><span style="font-size: 14pt; line-height: 200%">
<div class="verse">
<pre>
कं नश्चित्रमिषण्यसि चिकित्वान्पृथुग्मानं वाश्रं वावृधध्यै ।
कत्तस्य दातु शवसो व्युष्टौ तक्षद्वज्रं वृत्रतुरमपिन्वत् ॥१॥
Line ३६ ⟶ ३५:
स इयानः करति स्वस्तिमस्मा इषमूर्जं सुक्षितिं विश्वमाभाः ॥१२॥
 
</prespan></poem>
== ==
</div>
{{सायणभाष्यम्|
{{ऋग्वेदः मण्डल १०}}
‘कं नः' इति द्वादशर्चं नवमं सूक्तं वैखानसस्य वम्रस्यार्षं त्रैष्टुभमैन्द्रम् । तथा चानुक्रान्तं – कं नो वम्रो वैखानसः' इति । गतो विनियोगः ॥
 
 
कं न॑श्चि॒त्रमि॑षण्यसि चिकि॒त्वान्पृ॑थु॒ग्मानं॑ वा॒श्रं वा॑वृ॒धध्यै॑ ।
 
कत्तस्य॒ दातु॒ शव॑सो॒ व्यु॑ष्टौ॒ तक्ष॒द्वज्रं॑ वृत्र॒तुर॒मपि॑न्वत् ॥
 
कम् । नः । चित्रम् । इषण्यसि । चिकित्वान् । पृथुऽग्मानम् । वाश्रम् । ववृधध्यै ।
 
कत्। तस्य । दातुं । शवसः । विऽउष्टौ । तक्षत्। वज्रम् । वृत्रऽतुरम् । अपिन्वत् ॥ १ ॥
 
हे इन्द्र “नः अस्माकं “चित्रं चायनीयं “कं धनविशेषम् “इषण्यसि प्रेरयसि । “चिकित्वान् सर्वथा प्रेरणीयमिति जानन् । कीदृशं तम् । “पृथुग्मानं पृथुभावं प्राप्नुवन्तं “वाश्रं शब्दनीयं स्तुत्यम् । किमर्थम्। “ववृधध्यै अस्माकं वर्धनाय । किंच “तस्य इन्द्रस्य “शवसः बलस्य “व्युष्टौ व्युच्छने सति “कत् “दातु किं दानमस्माकं भवतीति शेषः । यं "वज्रं “वृत्रतुरं वृत्रस्यावरकस्य पापस्य हिंसकं त्वष्टा “तक्षत् अतक्षत् साधु संपादितवान् अपिन्वत् असिञ्चच्च । तस्य शवसो व्युष्टाविति संबन्धः । यद्वा । हे इन्द्र कत् किं तस्य वज्रस्य दानं भवति यं वज्रमिन्द्रार्थं तक्षदिति योजना । ‘मह्यं त्वष्टा वज्रमतक्षदायसम्' ( ऋ. सं. १०, ४८. ३ ) इति मन्त्रान्तरम् ॥
 
 
स हि द्यु॒ता वि॒द्युता॒ वेति॒ साम॑ पृ॒थुं योनि॑मसुर॒त्वा स॑साद ।
 
स सनी॑ळेभिः प्रसहा॒नो अ॑स्य॒ भ्रातु॒र्न ऋ॒ते स॒प्तथ॑स्य मा॒याः ॥
 
सः । हि। द्युता । विद्युता । वेति । साम । पृथुम् । योनिम् । असुरऽत्वा । आ । ससाद।
 
सः । सऽनीळेभिः । प्रऽसहानः । अस्य । भ्रातुः । न । ऋते । सप्तथस्य । मायाः ॥ २ ॥
 
“स “हिः स खल्विन्द्रः “द्युता द्योतमानेन विद्युता एतन्नामकेनायुधेन युक्तः सन् “साम स्तोत्रात्मकं यज्ञसंबन्धि "वेति गच्छति । तथा “असुरत्वा असुरत्वेन बलेन युक्तः सन् "पृथुं विस्तीर्णं “योनिं फलस्योत्पादकं यज्ञं “ससाद संगतो भवति । “सः इन्द्रः सनीळेभिः । नीडं विमानम्। सविमानैर्मरुद्भिर्युक्तः सन् “प्रसहानः अभिभवन् भवति । तस्य “सप्तथस्य आदित्यानां धात्रादीनां मध्ये सप्तमस्येन्द्रस्य “भ्रातुः भागैर्भक्तव्यस्य "माया आसुरी “ऋते यज्ञे “न संभवतीति शेषः ॥
 
 
स वाजं॒ याताप॑दुष्पदा॒ यन्स्व॑र्षाता॒ परि॑ षदत्सनि॒ष्यन् ।
 
अ॒न॒र्वा यच्छ॒तदु॑रस्य॒ वेदो॒ घ्नञ्छि॒श्नदे॑वाँ अ॒भि वर्प॑सा॒ भूत् ॥
 
सः । वाजम् । याता । अपदुःऽपदा । यन् । स्वःऽसाता। परि । सदत् । सनिष्यन् ।
 
अनर्वा । यत् । शतऽदुरस्य । वेदः । घ्नन् । शिश्नऽदेवान् । अभि । वर्पसा । भूत् ॥ ३ ॥
 
“वाजं शूरैर्गन्तव्यं संग्रामं “याता “सः इन्द्रः । ‘न लोकाव्यय” इति षष्ठीप्रतिषेधः । “अपदुष्पदा अपगतदुष्टपतनेन “यन् गच्छन् “सनिष्यन् तत्र शत्रुधनानि संभक्तुमिच्छन् “परि “षदत् परिषीदति । कुत्रेति उच्यते । “स्वर्षाता स्वर्षातौ सर्वलाभोपेते संग्रामे। किंच “अनर्वा युद्धे अप्रत्यृत इन्द्रः “शतदुरस्य शतद्वारस्य शत्रुपुरस्य अन्तर्निहितं “यत् “वेदः धनमस्ति तद्धनं “वर्पसा आवरकेण बलेन “अभि "भूत् अभिभवति । किं कुर्वन् । “शिश्नदेवान् अब्रह्मचर्यान् शतद्वारेषु शत्रुपुरसंबन्धिषु वर्तमानान् “घ्नन् हिंसन् ॥
 
 
स य॒ह्व्यो॒३॒॑ऽवनी॒र्गोष्वर्वा जु॑होति प्रध॒न्या॑सु॒ सस्रिः॑ ।
 
अ॒पादो॒ यत्र॒ युज्या॑सोऽर॒था द्रो॒ण्य॑श्वास॒ ईर॑ते घृ॒तं वाः ॥
 
सः । यह्व्यः । अवनीः । गोषु । अर्वा । आ । जुहोति । प्रऽधन्यासु । सस्रिः ।।
 
अपादः। यत्र । युज्यासः । अरथाः । द्रोणिऽअश्वासः । ईरते । घृतम् । वारिति वाः ।।४।।
 
"सः इन्द्रः “अर्वा मेघेष्वभिगन्ता सस्रिः सरणकुशलः प्रधन्यासु प्रकृष्टधननिमित्तासु “गोषु भूमिषु "यह्व्यः । महन्नामैतत् । महतीः “अवनीः। अवन्तीत्यवनय आपः । ताः “आ जुहोति आक्षिपति । “यत्र यासु भूमिषु “अपादः पादरहिताः "अरथाः रथवर्जिताः । पादरहिताः केचन रथेन गच्छन्ति । केनापि शून्याः “द्रोण्यश्वासः द्रुतव्यापनाः "युज्यासः युज्या इन्द्रस्य सख्यो नद्यः "वाः वारकं “घृतम् उदकम् “ईरते प्रेरयन्ति तत्राजुहोति ॥
 
 
स रु॒द्रेभि॒रश॑स्तवार॒ ऋभ्वा॑ हि॒त्वी गय॑मा॒रेअ॑वद्य॒ आगा॑त् ।
 
व॒म्रस्य॑ मन्ये मिथु॒ना विव॑व्री॒ अन्न॑म॒भीत्या॑रोदयन्मुषा॒यन् ॥
 
सः । रुद्रेभिः । अशस्तऽवारः । ऋभ्वा । हित्वी । गयम् । आरेऽअवद्यः । आ । अगात्।
 
वम्रस्य । मन्ये । मिथुनाः। विवव्री इति विऽवव्री । अन्नम्। अभिऽइत्य । अरोदयत्। मुषायन्॥५॥
 
“सः इन्द्रः “रुद्रेभिः रुद्रपुत्रैर्मरुद्भिः सहितः “आगात् आगच्छतु । कीदृशः । “अशस्तवारः स्तोतृभिरप्रार्थितधनः । स्वयमेव प्रदातेत्यर्थः । तथा “ऋभ्वा महान् “गयं “हित्वी हित्वा स्वस्थानं परित्यज्यागात् आगच्छतु । तत्र संबन्धः। “आरेअवद्यः दूरगतगर्ह्यः । किंच “वम्रस्य एतन्नामकस्य ऋषेर्मम “मिथुना मिथुनौ मातापितरौ “विवव्री विगतज्वरौ “मन्ये अवगच्छामि । अयं वम्रः “अन्नं शत्रुसंबन्धि "अभीत्य अभिप्राप्य "मुषायन् मुष्णन् “अरोदयत् रोदयति । 'छन्दसि शायजपि ' इत्यहावपि मुषेः श्नः शायजादेशः ॥
 
 
स इद्दासं॑ तुवी॒रवं॒ पति॒र्दन्ष॑ळ॒क्षं त्रि॑शी॒र्षाणं॑ दमन्यत् ।
 
अ॒स्य त्रि॒तो न्वोज॑सा वृधा॒नो वि॒पा व॑रा॒हमयो॑अग्रया हन् ॥
 
सः । इत् । दासम् । तुविऽरवम् । पतिः । दन् । षट्ऽअक्षम्। त्रिऽशीर्षाणम् । दमन्यत् ।
 
अस्य । त्रितः । नु । ओजसा । वृधानः । विपा । वराहम् । अयःऽअग्रया । हन्निति हन् ॥ ६॥
 
 
स द्रुह्व॑णे॒ मनु॑ष ऊर्ध्वसा॒न आ सा॑विषदर्शसा॒नाय॒ शरु॑म् ।
 
स नृत॑मो॒ नहु॑षो॒ऽस्मत्सुजा॑त॒ः पुरो॑ऽभिन॒दर्ह॑न्दस्यु॒हत्ये॑ ॥
 
सो अ॒भ्रियो॒ न यव॑स उद॒न्यन्क्षया॑य गा॒तुं वि॒दन्नो॑ अ॒स्मे ।
 
उप॒ यत्सीद॒दिन्दुं॒ शरी॑रैः श्ये॒नोऽयो॑पाष्टिर्हन्ति॒ दस्यू॑न् ॥
 
स व्राध॑तः शवसा॒नेभि॑रस्य॒ कुत्सा॑य॒ शुष्णं॑ कृ॒पणे॒ परा॑दात् ।
 
अ॒यं क॒विम॑नयच्छ॒स्यमा॑न॒मत्कं॒ यो अ॑स्य॒ सनि॑तो॒त नृ॒णाम् ॥
 
अ॒यं द॑श॒स्यन्नर्ये॑भिरस्य द॒स्मो दे॒वेभि॒र्वरु॑णो॒ न मा॒यी ।
 
अ॒यं क॒नीन॑ ऋतु॒पा अ॑वे॒द्यमि॑मीता॒ररुं॒ यश्चतु॑ष्पात् ॥
 
अ॒स्य स्तोमे॑भिरौशि॒ज ऋ॒जिश्वा॑ व्र॒जं द॑रयद्वृष॒भेण॒ पिप्रोः॑ ।
 
सुत्वा॒ यद्य॑ज॒तो दी॒दय॒द्गीः पुर॑ इया॒नो अ॒भि वर्प॑सा॒ भूत् ॥
 
ए॒वा म॒हो अ॑सुर व॒क्षथा॑य वम्र॒कः प॒ड्भिरुप॑ सर्प॒दिन्द्र॑म् ।
 
स इ॑या॒नः क॑रति स्व॒स्तिम॑स्मा॒ इष॒मूर्जं॑ सुक्षि॒तिं विश्व॒माभाः॑ ॥
 
 
}}
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.९९" इत्यस्माद् प्रतिप्राप्तम्