"ऋग्वेदः सूक्तं १.१९१" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १०:
 
{{ऋग्वेदः मण्डल १}}
<poem><span style="font-size: 14pt; line-height:200%">कङ्कतो न कङ्कतोऽथो सतीनकङ्कतः ।
<poem>
{|
|
कङ्कतो न कङ्कतोऽथो सतीनकङ्कतः ।
द्वाविति प्लुषी इति न्यदृष्टा अलिप्सत ॥१॥
अदृष्टान्हन्त्यायत्यथो हन्ति परायती ।
Line ४५ ⟶ ४२:
कुषुम्भकस्तदब्रवीद्गिरेः प्रवर्तमानकः ।
वृश्चिकस्यारसं विषमरसं वृश्चिक ते विषम् ॥१६॥
</span></poem>
|
{{सायणभाष्यम्|
‘कङ्कतः' इति षोडशर्चं द्वादशं सूक्तम् । ऋषिरगस्त्यः । अप्तृणसूर्यास्त्रयो देवताः । त्रिष्टुप् छन्दः। ‘सूर्ये विषम्' इत्याद्यास्तिस्रो महापङ्क्तयः। ‘अष्टकौ सप्तकः षट्को दशको नवकश्च' (अनु. १०. ३) इत्युक्तलक्षणोपेतत्वात् । ‘नवानाम्' इत्येषा त्रयोदशी महाबृहती। चत्वारोऽष्टका जागतश्च महाबृहती ' (अनु. ९. ९) इति ह्युक्तम् । अत्र यद्यपि अक्षराणि न्यूनानि तथापि व्यूहेन पूरणीयानि । अत्रानुक्रमणिका- कङ्कतः षोळशोपनिषदानुष्टुभमप्तृणसौर्यं विषशङ्कावानगस्त्यः प्राब्रवीद्दशम्याद्याश्च तिस्रो महापङ्क्तयो महाबृहती च' इति । उपनिषदिति रहस्यमित्यर्थः । विषशङ्कायुक्तोऽगस्त्यः तत्परिहाराय इदमुक्तवान् । श्रौतस्य विशेषविनियोगो लैङ्गिकः । अत्र शौनकः- कङ्कतो नेति सूक्तुं तु विषार्तः प्रयतो जपेत् । विषं न क्रमते चास्य सर्पाद्दृष्टिविषादपि ॥ यत् कीटलूतासु विषं दंष्ट्रिवृश्चिकतश्च यत् । मूलं च कृत्रिमं चैव जपन्सर्वमपोहति ' ( ऋग्वि. १. १५४,-१ ५६ ) इति ।।
 
 
कङ्क॑तो॒ न कङ्क॒तोऽथो॑ सती॒नक॑ङ्कतः ।
 
द्वाविति॒ प्लुषी॒ इति॒ न्य१॒॑दृष्टा॑ अलिप्सत ॥
 
कङ्कतः । न । कङ्कतः । अथो इति । सतीनऽकङ्कतः ।।
 
द्वौ । इति । प्लुषी इति । इति । नि । अदृष्टाः । अलिप्सत् ॥ १ ॥
 
“कङ्कतः अल्पविषः कश्चित् “न “कङ्कतः तद्विपरीतोऽनल्पविषो महोरगादिः ॥ तकतेर्गत्यर्थस्य वर्णव्यत्ययेन कङ्कत इति सरन् भवति । “अथो अपि च “सतीनकङ्कतः । सतीनमित्युदकनाम 'सतीनं गहनम्' (नि. १. १२.५९) इति तन्नामसु पाठात् । उदकचारी अल्पविषवान् कश्चिद्दुन्दुभादिः । एवं “द्वाविति अल्पविषमहाविषभेदेन जलस्थलभेदेन वा द्विप्रकाराविति। “प्लुषी "इति प्लोषणाविति । प्रकारद्वैविध्यदाहकत्वयोः प्रतिपादनाय इतिकारद्वयम् । तथा “अदृष्टाः अदृश्यमानरूपा एतत्संज्ञकाश्च केचिद्विषधराः एवमुक्तप्रकारा ये सन्ति ते नूनं मां “नि अलिप्सत विशेषेण लिम्पन्ति । सर्वाण्यङ्गानि विषमावृणोति । केन एवं कृतमिति न ज्ञायते इति भावः ॥
 
 
अ॒दृष्टा॑न्हन्त्याय॒त्यथो॑ हन्ति पराय॒ती ।
 
अथो॑ अवघ्न॒ती ह॒न्त्यथो॑ पिनष्टि पिंष॒ती ॥
 
अदृष्टान् । हन्ति । आऽयती । अथ इति । हन्ति । पराऽयती ।
 
अथो इति । अवऽघ्नती । हन्ति । अथो इति । पिनष्टि । पिंषती ॥ २ ॥
 
अनेन विषघ्न्योषधिः स्तूयते । “आयती विषदष्टस्य सकाशमागच्छन्ती विषनिर्हरणसाधनौषधिः “अदृष्टान् अदृश्यमानान्विषधरान् “हन्ति हिनस्ति । “अथो अपि च “परायती परागच्छन्ती संमार्जनसमये अर्वाक्प्रवृत्ता “हन्ति नाशयति जलचरविषधरान् । अथो अपि च अवघ्नती । कर्मणि
कर्तृप्रत्ययः ॥ अवहन्यमानौषधिः स्वगन्धेन हन्ति बहुविषान् । यद्वा । काचिदोषधिर्दंशकान्मारयत्येव । “अथो अपि च “पिंषती पेषणकर्त्री दृषत्पिष्यमाणा वौषधिः “पिनष्टि चूर्णीकरोत्यल्पविषान् । अथवा सर्वेषु वाक्येष्वविशेषेण सर्वविषकारिणां नाश उक्तः ।।
 
 
श॒रास॒ः कुश॑रासो द॒र्भासः॑ सै॒र्या उ॒त ।
 
मौ॒ञ्जा अ॒दृष्टा॑ वैरि॒णाः सर्वे॑ सा॒कं न्य॑लिप्सत ॥
 
शरासः । कुशरासः । दर्भासः । सैर्याः । उत ।
 
मौञ्जाः । अदृष्टाः । वैरिणाः । सर्वे । साकम् । नि । अलिप्सत ॥ ३ ॥
 
अन्यांश्च विषहेतूनाह । “शरासः शरा वेणुदण्डसदृशा अन्तश्छिद्रास्तृणविशेषाः । “कुशरासः कुत्सितशराः अन्तश्छिद्राः शरसदृशास्तृणविशेषाः । “दर्भासः दर्भाः कुशाः । "सैर्याः तटाकादिप्रान्तोद्भवास्तृणविशेषा अश्ववाला इति प्रसिद्धाः। “मौञ्जाः मुञ्जाः प्रसिद्धाः । वैरिणाः वीरणप्रकाराः। एतेषु वर्तमानाः अदृष्टाः उक्तरूपाः “सर्वे विषधराः “साकं मिलित्वा “न्यलिप्सत निलिम्पन्ति स्म ॥
 
 
नि गावो॑ गो॒ष्ठे अ॑सद॒न्नि मृ॒गासो॑ अविक्षत ।
 
नि के॒तवो॒ जना॑नां॒ न्य१॒॑दृष्टा॑ अलिप्सत ॥
 
नि । गावः । गोऽस्थे । असदन् । नि । मृगासः। अविक्षत ।।
 
नि । केतवः । जनानाम् । नि । अदृष्टाः । अलिप्सत ।। ४ ।।
 
“गावो “गोष्ठे “नि असदन् निषीदन्ति । “मृगासः मृगाः "नि अविक्षत निविष्टाः । स्वस्वस्थाने उपरताः । “जनानां प्राणिनां “केतवः प्रज्ञानानि “नि । उपसर्गश्रुतेर्योग्यक्रियाध्याहारः ।। नीचान्यभवन् । एते अस्मिन्समये “अदृष्टाः अदृश्यमानरूपाः सन्तः “नि “अलिप्सत निलिम्पन्ति विशेषेण ॥
 
 
ए॒त उ॒ त्ये प्रत्य॑दृश्रन्प्रदो॒षं तस्क॑रा इव ।
 
अदृ॑ष्टा॒ विश्व॑दृष्टा॒ः प्रति॑बुद्धा अभूतन ॥
 
एते । ऊँ इति । त्ये । प्रति । अदृश्रन् । प्रऽदोषम् । तस्कराःऽइव ।।
 
अदृष्टाः । विश्वऽदृष्टाः । प्रतिऽबुद्धाः । अभूतन ॥ ५ ॥
 
“त्ये एते “ते सर्पाः प्रत्यदृश्रन् प्रतिदृश्यन्ते रात्रौ श्वासादिलिङ्गेन । यद्वा । ते रात्रौ हन्तारो दिवा एते प्रतिदृश्यन्ते । तत्र दृष्टान्तः । “प्रदोषम् । रात्रिर्दोषा । रात्रिं प्रति तमसाभिभूतासु रात्रिषु “तस्कराइव हिंसकाश्चौरा दृश्यन्ते यथा तद्वत् । कीदृशास्ते । “अदृष्टाः अपरिदृश्यमानाः “विश्वदृष्टाः विश्वं दृष्टं यैस्ते तादृशाः प्रतिदृश्यन्ते । अतो हे नराः “प्रतिबुद्धा “अभूतन भवत ॥ ॥ १४ ॥
 
 
द्यौर्वः॑ पि॒ता पृ॑थि॒वी मा॒ता सोमो॒ भ्रातादि॑ति॒ः स्वसा॑ ।
 
अदृ॑ष्टा॒ विश्व॑दृष्टा॒स्तिष्ठ॑ते॒लय॑ता॒ सु क॑म् ॥
 
द्यौः । वः। पिता । पृथिवी । माता। सोमः । भ्राता । अदितिः । स्वसा ।
 
अदृष्टाः । विश्वऽदृष्टाः । तिष्ठत । इलयत । सु । कम् ॥ ६ ॥
 
अतःपरं विषविचिकित्सा । तत्र तावत् हे सर्पाः “वः युष्माकं “द्यौः “पिता। “पृथिवी “माता । “सोमो “भ्राता । “अदितिः देवमाता “स्वसा। एवंमहानुभावा महोरगाः “अदृष्टाः अन्यैरदृश्यमानरूपाः स्वयं तु “विश्वदृष्टाः सर्वस्य द्रष्टारो यूयं “तिष्ठत स्वस्वस्थाने। मां प्रति मा गच्छत । "सु सुतरां “कं सुखं यथा तथा “इलयत ईरयत गच्छत । सोमशब्देन सोमाधारो द्युलोक उच्यते । पृथिव्यन्तरिक्षद्युस्थानस्थाः सर्पाः स्वस्वस्थानं प्राप्नुत अस्मद्बाधं मा कुरुतेत्यर्थः ॥
 
 
ये अंस्या॒ ये अङ्ग्याः॑ सू॒चीका॒ ये प्र॑कङ्क॒ताः ।
 
अदृ॑ष्टा॒ः किं च॒नेह व॒ः सर्वे॑ सा॒कं नि ज॑स्यत ॥
 
ये। अंस्याः । ये । अङ्ग्याः । सूचीकाः । ये । प्रऽकङ्कताः ।
 
अदृष्टाः । किम् । चन । इह । वः । सर्वे । साकम् । नि । जस्यत ॥ ७ ॥
 
“ये “अंस्याः अंसार्हाः अंसगाः अंसे भवा अंसाभ्यां खादन्तो वा । तथा “ये "अङ्ग्याः अङ्गगा अङ्गेन शरीरेण हन्तारो वा लूतिकादयः । “सूचीकाः सूचीसदृशपुच्छरोमाणो वृश्चिकाद्याः । ये च “प्रकङ्कताः प्रकृष्टविषाः प्रकृष्टगामिनो वा महोरगाः “अदृष्टाः अदृश्यमानाः “किं “चन यत्किंचित्सर्पजातमस्ति । “इह अस्मिन् समीपे “वः युष्माकं किमस्ति । अतो यूयं “सर्वे “साकं सह नितरां “जस्यत मुञ्चत अस्मान् ॥ ‘जसु मोक्षणे' । दैवादिकः ॥
 
 
उत्पु॒रस्ता॒त्सूर्य॑ एति वि॒श्वदृ॑ष्टो अदृष्ट॒हा ।
 
अ॒दृष्टा॒न्सर्वा॑ञ्ज॒म्भय॒न्सर्वा॑श्च यातुधा॒न्यः॑ ॥
 
उत् । पुरस्तात् । सूर्यः । एति । विश्वऽदृष्टः । अदृष्टऽहा ।।
 
अदृष्टान् । सर्वान् । जम्भयन् । सर्वाः । च । यातुऽधान्यः ॥ ८ ॥
 
असौ सूर्यः “पुरस्तात् पूर्वस्यां दिशि “उत् “एति । कीदृशः सः । “विश्वदृष्टः । विश्वे द्रष्टव्या यस्य स तादृशः । “अदृष्टहा । अदृष्टा विषविशेषा विषधरविशेषा वा । तेषां हन्ता । यद्वा । अदृष्टमदर्शनमज्ञानमन्धकारः । तस्य हन्ता । सूर्ये उदिते सति सर्वे विषधरा विषाणि वा पलायन्ते । किं कुर्वन्नुदेति इति चेत् उच्यते । “सर्वान् “अदृष्टान् अद्रष्टव्यान्विषराक्षसादीन् जम्भयन् हिंसयन् । तथा “सर्वाः “यातुधान्यः । यातवो यातनास्तीव्रवेदनाः । तासां धात्रीरुत्पादयित्रीर्महोरगीः राक्षसीर्वा जम्भयन पुरस्तादुदेति । अतोऽस्मत्तो नि जस्यत इति संबन्धः ॥
 
 
उद॑पप्तद॒सौ सूर्यः॑ पु॒रु विश्वा॑नि॒ जूर्व॑न् ।
 
आ॒दि॒त्यः पर्व॑तेभ्यो वि॒श्वदृ॑ष्टो अदृष्ट॒हा ॥
 
उत् । अपप्तत् । असौ । सूर्यः । पुरु। विश्वानि । जूर्वन् ।
 
आदित्यः । पर्वतेभ्यः । विश्वऽदृष्टः । अदृष्टऽहा ॥ ९ ॥
 
“असौ पुरस्तात् दृश्यमानः “सूर्यः सर्वस्य प्रेरकः आदित्यः “उदपप्तत् ऊर्ध्वं गच्छति ॥ पततेर्लुङि पुमागमे रूपम् ॥ किं कुर्वन् । “विश्वानि बहूनि विषाणि “पुरु प्रभूतं “जूर्वन् हिंसन् । कीदृशोऽसौ । “पर्वतेभ्यः पर्ववद्भ्यः प्राणिभ्यः तेषामुपकाराय “आदित्यः विपोदकादीनामदनशीलः “विश्वदृष्टः विश्वं दृष्टं येन तादृशः “अदृष्टहा अदृष्टानां विषविशेषाणां हन्ता । एवंमहानुभावः सूर्यः ऊर्ध्वमारोहति । अतो विषशङ्का न कार्या ॥
 
 
सूर्ये॑ वि॒षमा स॑जामि॒ दृतिं॒ सुरा॑वतो गृ॒हे ।
 
सो चि॒न्नु न म॑राति॒ नो व॒यं म॑रामा॒रे अ॑स्य॒ योज॑नं हरि॒ष्ठा मधु॑ त्वा मधु॒ला च॑कार ॥
 
सूर्ये । विषम् । आ । सजामि । दृतिम् । सुराऽवतः । गृहे ।
 
सः । चित् । नु । न । मराति । नो इति । वयम् । मराम । आरे । अस्य । योजनम् । हरिऽस्थाः । मधु । त्वा । मधुला। चकार ॥ १० ॥
 
आदित्यमण्डले चतुर्थेनाङ्गुलिना विषमादाय मधुकृत्य योजयित्वा निर्विषो भवेदिति यदेतद्विषविद्यायामुक्तं तदिदमत्रोच्यते । अहं विषावृतोऽगस्त्यः “सूर्ये सर्वस्य प्रेरयितरि मधुविद्यारूपे सूर्यमण्डले “विषम् आवृत्य वर्तमानं सूर्ये “आ “सजामि आसक्तं करोमि । तत्र दृष्टान्तः । “सुरावतो “गृहे सुरानिर्मातृसदने “दृतिम् इव चर्ममयं सुरापात्रमिव । यथा तत्कर्तुः न दोषाय भवति तद्वद्विषम् आदित्यस्य न बाधकमित्यर्थः । “सो “चित् । चित् पूजायाम् । नुः प्रसिद्धौ । पूज्यः सः सूर्यः खलु न मराति न म्रियते । "नो “वयं “मराम । तदनुग्रहात्तत्रैव विषस्य योजितत्वात् वयमपि न म्रियामहे । उभयोरमरणे कारणमाह । “हरिष्ठाः । हरयोऽश्वाः । तेषु स्थित आदित्यः "आरे दूरे “अस्य विषस्य “योजनं प्रापणं चकार । तदेवाच्यते । हे विष “त्वा त्वां “मधु अमृतं “चकार । विषस्य विषभावं दूरेऽपनोद्य अमृतीचकारेति । एषैव “मधुला मधुदात्री निर्विषीकर्त्री मधुविद्या । यदेतदादित्यस्य विषयोजनं तेन च अमृतीकरणं यदस्ति एषा मधुविद्या ॥ ॥ १५ ॥
 
 
इ॒य॒त्ति॒का श॑कुन्ति॒का स॒का ज॑घास ते वि॒षम् ।
 
सो चि॒न्नु न म॑राति॒ नो व॒यं म॑रामा॒रे अ॑स्य॒ योज॑नं हरि॒ष्ठा मधु॑ त्वा मधु॒ला च॑कार ॥
 
इयत्तिका । शकुन्तिका । सका । जघास । ते । विषम् ।
 
सो इति । चित् । नु । न । मराति । नो इति । वयम् । मराम । आरे । अस्य । योजनम् । हरिऽस्थाः । मधु । त्वा । मधुला । चकार ॥ ११ ॥
 
“इयत्तिका इयत्तां कुर्वाणा इयत्तावती वा । बालेत्यर्थः । “शकुन्तिका । शकुन्तः शकुनः । तस्य स्त्री । तां कपिञ्जलीमाहुः । “सका सा “ते तव “विषं “जघास भक्षितवती । सा विषहर्त्रीति प्रसिद्धा । “सो “चित् ॥ सा उ इति निपातसमुदायः एकं पदम् । सापि शकुन्तिका न म्रियते नित्यप्रतिपक्षत्वाद्विषस्य । शिष्टं व्याख्यातचरम् । अनेन विद्यायां यद्देहावृतं विषं तस्य शकुनेभ्यः आदित्याय च प्रदानमस्तीत्युक्तं भवति ।
 
 
त्रिः स॒प्त वि॑ष्पुलिङ्ग॒का वि॒षस्य॒ पुष्य॑मक्षन् ।
 
ताश्चि॒न्नु न म॑रन्ति॒ नो व॒यं म॑रामा॒रे अ॑स्य॒ योज॑नं हरि॒ष्ठा मधु॑ त्वा मधु॒ला च॑कार ॥
 
त्रिः । सप्त । विष्पुलिङ्गकाः । विषस्य । पुष्यम् । अक्षन् ।
 
ताः । चित् । नु । न । मरन्ति । नो इतिं । वयम् । मराम । आरे ।
अस्य । योजनम् । हरिऽस्थाः । मधु । त्वा । मधुला । चकार ॥ १२ ॥
 
“त्रिः “सप्त त्रिगुणिताः सप्तसंख्याकाः विष्पुलिङ्गकाः विविधाः विष्पुलिङ्गकाः । सप्तसु जिह्वासु लोहितशुक्लकृष्णभेदेन एकविंशतिर्यासां ताः। यद्वा । त्रिः सप्त एकविंशतिभेदा विष्पुलिङ्गकाः सूक्ष्मचटकिका विषप्रतिपक्षभूताः । “विषस्य अस्मदावरकस्य पुष्यं पोषम् “अक्षन् अदन्तु नाशयन्तु । “ताः च “न “मरन्ति न “वयम् अपि । शिष्टमविशिष्टम् ॥
 
 
न॒वा॒नां न॑वती॒नां वि॒षस्य॒ रोपु॑षीणाम् ।
 
सर्वा॑सामग्रभं॒ नामा॒रे अ॑स्य॒ योज॑नं हरि॒ष्ठा मधु॑ त्वा मधु॒ला च॑कार ॥
 
नवानाम् । नवतीनाम् । विषस्य । रोपुषीणाम् ।
 
सर्वासाम् । अग्रभम् । नाम । आरे । अस्य । योजनम् । हरिऽस्थाः । मधु । त्वा । मधुला । चकार ॥ १३ ॥
 
“नवानां “नवतीनां नवाधिकानां नवतिसंख्याकानां नदीनाम् । पुनः कीदृशीनाम् । “विषस्य अस्मद्व्यापकस्य सर्वस्य विषस्य “रोपुषीणां लोपयित्रीणां छेत्त्रीणाम् । “सर्वासाम् उक्तानां गङ्गादिनदीनां “नाम अग्रभं गृह्णामि संकीर्तयामि ॥ गृहेश्छन्दसे लुङि छान्दसः च्लेर्लुक् । हृग्रहोर्भः ॥ अस्य योजनमित्यादि गतम् ॥
 
 
त्रिः स॒प्त म॑यू॒र्यः॑ स॒प्त स्वसा॑रो अ॒ग्रुवः॑ ।
 
तास्ते॑ वि॒षं वि ज॑भ्रिर उद॒कं कु॒म्भिनी॑रिव ॥
 
त्रिः । सप्त । मयूर्यः । सप्त । स्वसारः । अग्रुवः ।
 
ताः । ते । विषम् । वि । जभ्रिरे । उदकम् । कुम्भिनीःऽइव ॥ १४ ॥
 
“त्रिः सप्त एकविंशतिसंख्याकाः मयूर्यः मयूरस्त्रियः । ता विषकारिसर्पद्वेषिण्यः इति प्रसिद्धाः नागद्वेषिगरुडपक्षादुत्पन्नत्वात् । तथा “सप्त एतसंख्याकाः सर्पणस्वभावाः “स्वसारः स्वयमेव सरणाः “अग्रुवः । नदीनामैतत् । सुरगङ्गाद्याः प्रसिद्धाः सप्त नद्यः सन्ति । “तास्ते हे देह तव “विषं “वि “जभ्रिरे विशेषेण हरन्तु । तत्र दृष्टान्तः । “उदकं “कुम्भिनीः कुम्भिन्यः कुम्भवत्यः कुम्भेन जलहारिण्यः “इव । ता यथा तद्धरन्ति तद्वत् नद्यो मयूर्यश्च अतिप्रभूतं हरन्तु ॥
 
 
इ॒य॒त्त॒कः कु॑षुम्भ॒कस्त॒कं भि॑न॒द्म्यश्म॑ना ।
 
ततो॑ वि॒षं प्र वा॑वृते॒ परा॑ची॒रनु॑ सं॒वतः॑ ॥
 
इयत्तकः । कुषुम्भकः । तकम् । भिनद्मि। अश्मना ।
 
ततः । विषम् । प्र । ववृते । पराचीः । अनु । सम्ऽवतः ॥ १५ ॥
 
“इयत्तकः कुत्सितेयत्तः अल्पप्रमाण इत्यर्थः । “कुषुम्भकः कुं पृथ्वीं सुम्भति विलिखतीति सर्पाणां कुत्सितं सुम्भयिता निग्रहीता' कुषुम्भको नकुलः । स ते विषं हरत्विति शेषः । यदि न तथा स करोति “तकं कुत्सितं तं नकुलम् “अश्मना “भिनद्मि विदारयामि । विषनिर्हरणप्रयोगे यावद्विषापगमं तं
पाषाणानुघातमनुतिष्ठन्ति तद्विदः । तदिदमत्रोक्तम् । “ततः एवं प्रयोगे सति “विषं “प्र “वावृते विषावृताद्देहात् विषं प्रवर्तते निर्गच्छतु । काः प्रति । उच्यते । “पराचीः परागञ्चनवतीः अतिदूरगाः “संवतः संविभागवतो दिशः “अनु लक्षीकृत्य दिगन्तं प्रति गच्छतु न मां प्रति गच्छत्वित्यर्थः ॥
 
 
अध्यायोपाकरणोत्सर्गयोः ‘कुषुम्भकस्तत्' इत्यन्त्या विनियुक्ता। * दधिसक्तूञ्जुहोति' इत्युपक्रम्य * कुषुम्भकस्तदब्रवीत् ' ( आश्व. गृ. ३. ५, ७ ) इति सूत्रितत्वात् ॥
 
कु॒षु॒म्भ॒कस्तद॑ब्रवीद्गि॒रेः प्र॑वर्तमान॒कः ।
 
वृश्चि॑कस्यार॒सं वि॒षम॑र॒सं वृ॑श्चिक ते वि॒षम् ॥
 
|}
कुषुम्भकः । तत् । अब्रवीत् । गिरेः । प्रऽवर्तमानकः ।
</poem>
 
*[[ऋग्वेद:]]
वृश्चिकस्य । अरसम् । विषम् । अरसम् । वृश्चिक । ते । विषम् ॥ १६ ॥
 
एवं महानुभावेन अगस्त्यमहर्षिणा उच्यमाने सति "गिरेः सकाशात् प्रवर्तमानकः प्रवर्तमानः अतिशीघ्रमभिगच्छन् “कुषुम्भकः नकुलः “तदब्रवीत् तद्वाक्यमाचख्यौ। किं तदिति उच्यते । “वृश्चिकस्य एतत् “विषम् "अरसम् असारं बाधकं न भवतीत्यर्थः । तथा लोकेऽपि सर्पदष्टमपि क्रिम्यादिदंशनमेव अतो न बाधः इति हि वदन्ति । एवमभिवचनेन सोऽपि निर्विषोऽभवत् । अथ तं वृश्चिकं प्रति नकुल आह । हे “वृश्चिक “ते “विषम् “अरसम् । अतस्तमृषिं किं करिष्यति । तस्मात् परिहरेति । यदा एवमवादीत् तदाप्रभृति वृश्चिकविषम् असारमभवत् । एषा विषनिर्हरण्युपनिषत् ॥ ॥ १६ ॥
 
इति सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे द्वितीयाष्टके प्रथमे मण्डले चतुर्विंशोऽनुवाकः प्रथमं मण्डलं च ॥
 
}}
 
 
== ==
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.१९१" इत्यस्माद् प्रतिप्राप्तम्