"ऋग्वेदः सूक्तं १.१८८" इत्यस्य संस्करणे भेदः
Content deleted Content added
No edit summary |
No edit summary |
||
पङ्क्तिः १०:
{{ऋग्वेदः मण्डल १}}
<poem><span style="font-size: 14pt; line-height:200%">
<poem>▼
समिद्धो अद्य राजसि देवो देवैः सहस्रजित् ।
दूतो हव्या कविर्वह ॥१॥
Line ३५ ⟶ ३३:
पुरोगा अग्निर्देवानां गायत्रेण समज्यते ।
स्वाहाकृतीषु रोचते ॥११॥
▲</span></poem>
== ==
{{सायणभाष्यम्|
समि॑द्धो अ॒द्य रा॑जसि दे॒वो दे॒वैः स॑हस्रजित् ।
दू॒तो ह॒व्या क॒विर्व॑ह ॥
तनू॑नपादृ॒तं य॒ते मध्वा॑ य॒ज्ञः सम॑ज्यते ।
दध॑त्सह॒स्रिणी॒रिषः॑ ॥
आ॒जुह्वा॑नो न॒ ईड्यो॑ दे॒वाँ आ व॑क्षि य॒ज्ञिया॑न् ।
अग्ने॑ सहस्र॒सा अ॑सि ॥
प्रा॒चीनं॑ ब॒र्हिरोज॑सा स॒हस्र॑वीरमस्तृणन् ।
यत्रा॑दित्या वि॒राज॑थ ॥
वि॒राट् स॒म्राड्वि॒भ्वीः प्र॒भ्वीर्ब॒ह्वीश्च॒ भूय॑सीश्च॒ याः ।
दुरो॑ घृ॒तान्य॑क्षरन् ॥
सु॒रु॒क्मे हि सु॒पेश॒साधि॑ श्रि॒या वि॒राज॑तः ।
उ॒षासा॒वेह सी॑दताम् ॥
प्र॒थ॒मा हि सु॒वाच॑सा॒ होता॑रा॒ दैव्या॑ क॒वी ।
य॒ज्ञं नो॑ यक्षतामि॒मम् ॥
भार॒तीळे॒ सर॑स्वति॒ या व॒ः सर्वा॑ उपब्रु॒वे ।
ता न॑श्चोदयत श्रि॒ये ॥
--स्तिस्र आदित्यप्रभावविशेषरूपा इत्याहुः । "याः तिस्रः "सर्वाः "वः युष्मान् "उपब्रुवे उपेत्य स्तौमि “ताः यूयं "नः अस्मान् "श्रिये संपदे “चोदयत प्रेरयत ।
त्वष्टा॑ रू॒पाणि॒ हि प्र॒भुः प॒शून्विश्वा॑न्समान॒जे ।
तेषां॑ नः स्फा॒तिमा य॑ज ॥
त्वष्टा । रूपाणि। हि । प्रऽभुः । पशून् । विश्वान् । सम्ऽआनजे ।
तेषाम् । नः । स्फातिम् । आ । यज ॥९॥
“त्वष्टा यज्ञसाधनपात्राभिमानी देवः “रूपाणि योनौ सृष्टानि रेतांसि रूपाणि कर्तुं "प्रभुः “हि । हिशब्दः श्रुत्यन्तरप्रसिद्धिद्योतनार्थः । ‘यावच्छो वै रेतसः सिक्तस्य', त्वष्टा रूपाणि विकरोति' (तै. सं. १. ५. ९. १-२ ) इति श्रुतेः । स देवः "विश्वान् सर्वानपि पशून् अस्मदीयान् गवादिकान् “समानजे सम्यगनक्ति व्यक्तीकरोति ॥ संपूर्वादनक्तेर्लिटि तस्मात् नुड्' इति नुट् ॥ अथ प्रत्यक्षः । “तेषाम् अक्तानां पशूनां "स्फातिं वृद्धिं "नः अस्मदर्थम् “आ “यन सर्वतः पूजय कुर्वित्यर्थः ।।
उप॒ त्मन्या॑ वनस्पते॒ पाथो॑ दे॒वेभ्यः॑ सृज ।
अ॒ग्निर्ह॒व्यानि॑ सिष्वदत् ॥
उप । त्मन्या । वनस्पते । पाथः । देवेभ्यः । सृज।
अग्निः । हव्यानि । सिस्वदत् ॥१०॥
हे "वनस्पते यूपाभिमानिदेव “त्मन्या आत्मनैव "देवेभ्यः अग्न्यादिभ्यः "पाथः पशुरूपमन्नम् “उप “सृज उत्पादय । यूपाभावे पशुनियोजनाभावेन हविषोऽभावात् । त्वयि एवं कृतवति सति “अग्निः हव्यानि हवींषि "सिस्वदत् स्वदयतु स्वादूकरोतु ॥
पु॒रो॒गा अ॒ग्निर्दे॒वानां॑ गाय॒त्रेण॒ सम॑ज्यते ।
स्वाहा॑कृतीषु रोचते ॥
पुरःऽगाः । अग्निः । देवानाम् । गायत्रेण । सम् । अज्यते ।
स्वाहाऽकृतीषु । रोचते ॥११॥
अयम् "अग्निः "देवानां “पुरोगाः असुरयुद्धं प्रति पुरोगामी । यद्वा । देवानां मध्ये यज्ञं प्रति अग्निरेव पुरोगामी । अत एव अग्रणीत्वादेव अग्निशब्दो निष्पन्नः । ‘अग्निः कस्मादग्रणीर्भवति' ( निरु. ७. १४ ) इति निरुक्तम् । तादृशोऽयं "गायत्रेण एतदुपलक्षितेन मन्त्रेण "समज्यते सम्यग्लक्ष्यते । "स्वाहाकृतीषु स्वाहाकारेषु सत्सु हविःषु दीयमानेषु "रोचते अत्यर्थं दीप्यते । एता: प्रयाजदेवताः यज्ञावयवाभिमानिन्यः । तद्द्वारा यज्ञ एव स्तूयते इति केषांचित् मतम् । अग्नेरेव नामान्तरमित्यन्ये ॥ ॥ ९ ॥
}}
== ==
{{टिप्पणी|
|