"ऋग्वेदः सूक्तं १.१८५" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ३७:
 
{{सायणभाष्यम्|
‘कतरा पूर्वा' इत्येकादशर्चं षष्ठं सूक्तमागस्त्यं त्रैष्टुभम् । “कतरैकादश द्यावापृथिवीयम्' इत्यनुक्रान्तम् । आभिप्लविके षष्ठेऽहनि वैश्वदेवशस्त्रे द्यावापृथिव्यनिविद्धानमिदम् । 'तृतीयस्य' इति खण्डे सूत्रितं- 'कतरा पूर्वोषासानक्तेति वैश्वदेवम् ' ( आश्व. श्रौ. ७. ७) इति । महाव्रतेऽपि वैश्वदेवशस्त्रे इदमेव द्यावापृथिव्यनिविद्धानम् । ‘उत्तमदाभिप्लविकात्तृतीयसवनम्' (ऐ. आ. ५. ३. २ ) इत्यतिदेशात् ॥
 
 
क॒त॒रा पूर्वा॑ कत॒राप॑रा॒योः क॒था जा॒ते क॑वय॒ः को वि वे॑द ।
 
विश्वं॒ त्मना॑ बिभृतो॒ यद्ध॒ नाम॒ वि व॑र्तेते॒ अह॑नी च॒क्रिये॑व ॥
 
कतरा । पूर्वा । कतरा । अपरा। अयोः । कथा । जाते इति । कवयः । कः । वि। वेद ।
 
विश्वम् । त्मना । बिभृतः । यत् । ह। नाम । वि। वर्तेते इति । अहनी इति । चक्रियाऽइव ॥१॥
 
“अयोः एनयोर्द्यावापृथिव्योर्मध्ये “कतरा “पूर्वा पूर्वमुत्पन्ना। “कतरा वा “अपरा पश्चाद्भाविनी । एवं पौर्वापर्यप्रश्नः । उभयोः अविनाभावेन सहैव वर्तमानत्वादिति भावः । तथा “कथा केन हेतुना “जाते किमनयोरुत्पादनमित्यर्थः । हे “कवयः क्रान्तदर्शिनोऽतीन्द्रियज्ञाः यूयं वदत “को "वि “वेद पौर्वापर्यं कारणं च विशेषेण विविच्य वा जानाति । न केनापि ज्ञायते इत्यर्थः । अज्ञाने कारणमाह। “यद्ध यस्मात्खलु हेतोः “नाम प्रसिद्धं “विश्वं कृत्स्नमपि जगत् अविशेषेण “त्मना आत्मनैव अन्यनैरपेक्ष्येणैव “बिभृतः धारयतः । यद्वा । यद्ध नाम यत्किंचित् पदार्थजातमस्ति विश्वं तत्सर्वमात्मना बिभृतः । अनेन यत्कारणं ब्रूमस्तदपि आभ्यामेव भ्रियते इति कारणाभावः प्रतिपादितः । 'उत्तरेण पौर्वापर्याभाव उच्यते । “अहनी एते द्यावापृथिव्यौ “चक्रियेव चक्रयुक्ते इव वि “वर्तेते । अत्र ‘कतरा पूर्वा कतरापरैनयोः ' ( निरु. ३. २२) इत्यादि निरुक्तं द्रष्टव्यम् ॥
 
 
भूरिं॒ द्वे अच॑रन्ती॒ चर॑न्तं प॒द्वन्तं॒ गर्भ॑म॒पदी॑ दधाते ।
 
नित्यं॒ न सू॒नुं पि॒त्रोरु॒पस्थे॒ द्यावा॒ रक्ष॑तं पृथिवी नो॒ अभ्वा॑त् ॥
 
भूरिम् । द्वे इति । अचरन्ती इति । चरन्तम् । पत्ऽवन्तम् । गर्भम् । अपदी इति । दधाते इति ।
 
नित्यम् । न । सूनुम् । पित्रोः । उपऽस्थे । द्यावा । रक्षतम् । पृथिवी इति । नः । अभ्वात् ॥२॥
 
“अचरन्ती अविचले “द्वे एव एते द्यावापृथिव्यौ “भूरि बहुतरं चरन्तं पद्वन्तं पादयुक्तं “गर्भवदाश्रितं कृत्स्नं प्राणिजातम् “अपदी स्वयं पादरहिते “दधाते धारयतः । अनयोर्मध्ये खलु सर्वं जगत् क्षेमेण वर्तते । धारणे दृष्टान्तः । “पित्रोः मातापित्रोः “उपस्थे उत्सङ्गे वर्तमानं नित्यं ध्रुवमात्मजं “सूनुं न पुत्रमिव यथा स्नेहेन वर्धयन्तौ धारयन्तौ मातापितरौ तद्वत् । अथ प्रत्यक्षेणाह। हे “द्यावा “पृथिवी द्यावापृथिव्यौ । इतरेतरापेक्षया द्वित्वमुभयोः । “नः अस्मान् “अभ्वात् महतो भयहेतोः पापात् “रक्षतं पालयतम् । यद्वा । अभ्वात् अभ्वं महत् । अत्यर्थमित्यर्थः । अभ्वेति महन्नाम ॥ द्वन्द्वे कृतद्यावादेशस्य द्यावापृथिवीशब्दस्य मध्ये रक्षतम् इति पदप्रयोगश्छन्दसः। आमन्त्रितस्याविद्यमानत्वेन निघाताभावः ॥
 
 
अ॒ने॒हो दा॒त्रमदि॑तेरन॒र्वं हु॒वे स्व॑र्वदव॒धं नम॑स्वत् ।
 
तद्रो॑दसी जनयतं जरि॒त्रे द्यावा॒ रक्ष॑तं पृथिवी नो॒ अभ्वा॑त् ॥
 
अनेहः । दात्रम् । अदितेः । अनर्वम् । हुवे । स्वःऽवत् । अवधम् । नमस्वत् ।
 
तत् । रोदसी इति । जनयतम् । जरित्रे । द्यावा । रक्षतम् । पृथिवी इति । नः । अभ्वात् ॥३॥
 
“अदितेः । एतदन्तरिक्षस्याप्युपलक्षणम् । अखण्डनीयायाः पृथिव्याः तादृशस्यान्तरिक्षस्य च संबन्धि दात्रं धनं “हुवे आह्वयामि स्पृहयामीत्यर्थः । कीदृशं तद्धनम् । “अनेहः अपापं दुःखरहितं सुखात्मकम् “अनर्वम् अनरणम् अक्षीणमित्यर्थः । “स्वर्वत् सर्वतः फलभूतेन स्वर्गेण तद्वत् “अवधम् अहिंसितं “नमस्वत् अन्नवत् । ईदृशं धनं हुवे । “तत् अस्माभिः काङ्क्षितमुक्तलक्षणं धनं हे “रोदसी द्यावापृथिव्यौ “जरित्रे स्तोत्रे यजमानाय “जनयतम् उत्पादयतम् । द्यावेत्यादि व्याख्यातम् ।।
 
 
अत॑प्यमाने॒ अव॒साव॑न्ती॒ अनु॑ ष्याम॒ रोद॑सी दे॒वपु॑त्रे ।
 
उ॒भे दे॒वाना॑मु॒भये॑भि॒रह्नां॒ द्यावा॒ रक्ष॑तं पृथिवी नो॒ अभ्वा॑त् ॥
 
अतप्यमाने इति । अवसा । अवन्ती इति । अनु । स्याम । रोदसी इति । देवपुत्रे इति देवपुत्रे ।
 
उभे इति । देवानाम् । उभयेभिः । अह्नाम् । द्यावा । रक्षतम् । पृथिवी इति । नः । अभ्वात् ॥४॥
 
“अवसा स्वतोऽधिकेन केनचित् कृतेन अवनेन समृद्ध्या “अतप्यमाने अनीश्वरे ॥ तपेः ऐश्वर्यकर्मणः इदं रूपम् ॥ अतप्यमाने अन्यैरपीड्यमाने। 'अवसा अनेन “अवन्ती तर्पयन्त्यौ “देवपुत्रे देवाः व्यवहर्तारो मनुष्याः पुत्रस्थानीयाः ययोस्तादृश्यौ । लोकद्वयस्थाः मनुष्याश्च देवाश्च तदुपजीव्यत्वात् पुत्राः इत्युच्यन्ते । ईदृशौ “उभे रोदसी द्यावापृथिव्यौ "देवानाम् “अह्नाम् । एतद्रात्रेरप्युपलक्षणम् । द्योतमानानाम् अह्नां रात्रीणां च संबन्धिभिः उभयविधैः शीतोष्णादिरूपैः विलक्षणैः धनैः निमित्तभूतैः । तेषां लाभायेत्यर्थः । तदर्थं युवाम् “अनु “स्याम अनुभवेम । शिष्टो व्याख्यातः ॥
 
 
सं॒गच्छ॑माने युव॒ती सम॑न्ते॒ स्वसा॑रा जा॒मी पि॒त्रोरु॒पस्थे॑ ।
 
अ॒भि॒जिघ्र॑न्ती॒ भुव॑नस्य॒ नाभिं॒ द्यावा॒ रक्ष॑तं पृथिवी नो॒ अभ्वा॑त् ॥
 
संगच्छमाने इति सम्ऽगच्छमाने । युवती इर्ति । समन्ते इति सम्ऽअन्ते । स्वसारा । जामी इति । पित्रोः । उपऽस्थे ।
 
अभिजिघ्रन्ती इत्यभिऽजिघ्रन्ती। भुवनस्य । नाभिम् । द्यावा । रक्षतम् । पृथिवी इति । नः । अभ्वात् ॥ ५ ॥
 
“संगच्छमाने परस्परमुपकारित्वेन सह युज्यमाने। वृष्टिहविषोश्च परस्परमुपकार्योपकारकभावः । यद्वा । पूर्वं संसृष्टे एव सत्यौ पश्चाद्वियुज्य वृष्टिहविषी अकुर्वन्त्यौ पश्चात् मनुष्यैः प्रार्थितैर्देवैः विवाहिते सत्यौ संगते अभूतामित्याहुः । अयमर्थः ‘द्यावापृथिवी सहास्ताम्' (तै. ब्रा. १. १. ३. २ ) इत्यादिब्राह्मणे समाम्नातः । “युवती नित्यतरुण्यौ मिश्रयन्त्यौ वा सर्वेषु भावेषु “समन्ते समानान्तिके समानपर्यन्ते वा “स्वसारा परस्परं स्वसृभूते "जामी बन्धुभूते । प्रजापतेः सकाशात सहोत्पन्नत्वात् परस्परं जामित्वम् । तथा च निगमौ-’दिवं च पृथिवीं चान्तरिक्षमथो स्वः' ( ऋ. सं. १०. १९०. ३ ) ‘यतो द्यावापृथिवी निष्टतक्षुः ' ( ऋ. सं. १०.३१. ७) इति । “पित्रोः सर्वस्य पितृस्थानीययोः पालकयोस्तयोः “उपस्थे उत्सङ्गे स्थितं “भुवनस्य भूतजातस्य “नाभिं बन्धकमुदकम् “अभिजिघ्रन्ती अभिघ्राणं कुर्वन्त्यौ स्पृशन्त्यौ ।' समानमेतदुदकम् ' ( ऋ. सं. १. १६४. ५१ ) इत्यादिमन्त्रवर्णात् उभयोरुदकप्रदत्वं प्रसिद्धम् । ईदृश्यौ "नः रक्षतम् ॥ ॥ २ ॥
 
 
उ॒र्वी सद्म॑नी बृह॒ती ऋ॒तेन॑ हु॒वे दे॒वाना॒मव॑सा॒ जनि॑त्री ।
 
द॒धाते॒ ये अ॒मृतं॑ सु॒प्रती॑के॒ द्यावा॒ रक्ष॑तं पृथिवी नो॒ अभ्वा॑त् ॥
 
उर्वी इति। सद्मनी इति । बृहती इति । ऋतेन । हुवे। देवानाम् । अवसा । जनित्री इति ।
 
दधाते इति । ये इति । अमृतम्। सुप्रतीके इति सुऽप्रतीके । द्यावा । रक्षतम् । पृथिवी इति । नः । अभ्वात् ॥ ६ ॥
 
“उर्वी विस्तीर्णे “सद्मनी सदनाधारभूते “बृहती महत्यौ महानुभावे "देवानाम् । उपलक्षणमेतत् । देवमनुष्यादीनाम् “अवसा प्रीत्या निमित्तेन "जनित्री वृष्टिसस्ययोर्जनित्र्यौ । वृष्ट्यादेर्देवानामवसा तर्पणेन निमित्तेन “ऋतेन यज्ञेन च निमित्तभूतेन 'हुवे आह्वयामि । देवानां हविरर्थम् अस्मद्यज्ञायेत्यर्थः । "ये “सुप्रतीके शोभनरूपे “अमृतम् उदकं “दधाते धारयतः ते युवामाह्वयामि । शिष्टं स्पष्टम् ॥
 
 
उ॒र्वी पृ॒थ्वी ब॑हु॒ले दू॒रेअ॑न्ते॒ उप॑ ब्रुवे॒ नम॑सा य॒ज्ञे अ॒स्मिन् ।
 
द॒धाते॒ ये सु॒भगे॑ सु॒प्रतू॑र्ती॒ द्यावा॒ रक्ष॑तं पृथिवी नो॒ अभ्वा॑त् ॥
 
उर्वी इति । पृथ्वी इति । बहुले इति । दूरेअन्ते इति दूरेऽअन्ते। उप । ब्रुवे। नमसा। यज्ञे। अस्मिन् ।
 
दधाते इति । ये इति । सुभगे इति सुऽभगे। सुप्रतूर्ती इति सुऽप्रतूर्ती । द्यावा । रक्षतम् । पृथिवी इति । नः । अभ्वात् ॥ ७ ॥
 
“उर्वी उर्व्यौ महत्यौ “पृथ्वी पृथिव्यौ “बहुले अनेकप्रकारेण प्रथमाने बह्वाकारे “दूरेअन्ते विप्रकृष्टान्तदेशे अपारे इत्यर्थः । ईदृश्यौ युवाम् “अस्मिन् “यज्ञे “नमसा नमःसाधनेन स्तोत्रेण “उप “ब्रुवे उपेत्य ब्रवीमि स्तौमीत्यर्थः । पुनः कीदृश्यौ । "ये "सुभगे शोभनभाग्ये “सुप्रतूर्ती सुप्रतरणे शोभनदाने “दधाते विश्वं जगत् ते युवाम् उप ब्रुवे स्तौमि ।।
 
 
दे॒वान्वा॒ यच्च॑कृ॒मा कच्चि॒दाग॒ः सखा॑यं वा॒ सद॒मिज्जास्प॑तिं वा ।
 
इ॒यं धीर्भू॑या अव॒यान॑मेषां॒ द्यावा॒ रक्ष॑तं पृथिवी नो॒ अभ्वा॑त् ॥
 
देवान् । वा। यत् । चकृम । कत् । चित् । आगः । सखायम् । वा। सदम् । इत् । जाःपतिम् । वा।
 
इयम् । धीः । भूयाः। अवऽयानम् । एषाम् । द्यावा । रक्षतम् । पृथिवी इति । नः। अभ्वात् ॥८॥
 
हे द्यावापृथिव्यौ वयं “देवान् देवान् प्रति “यत् "कञ्चित् "आगः अपराधं तत्तद्यागकाले तेषांतेषाम् अयागलक्षणं “सदमित् सर्वदैव “चकृम कृतवन्तो वयम् । “सखायं “वा प्रियं मित्रं वा प्रति यच्चकृम । “जास्पतिम् । जाः पुत्र्यः । तासां पतिं जामातरं “वा जायापतिं प्रति दोषारोपणकलहोत्पादनादिरूपं यत्सर्वदैव चकृम । “एषाम् उक्तरूपाणां पापानाम् अपगमं कर्तुम् “इयं “धीः युष्मत्स्तुतिरूपम् इदं कर्म “भूयाः भूयात् भवतु । द्यावेत्यादि गतम् । अत्र सर्वत्र प्रकारान्तरेण मन्त्रमन्तरेण रक्षतं रक्षतमिति प्रार्थनं तयोः अश्विन्यादिबहुमननासंभवात् उचितमेव । तस्मात् स्वस्थाने एव स्थिते अनुकूले भवतमित्येवं प्रार्थ्यते ।।
 
 
उ॒भा शंसा॒ नर्या॒ माम॑विष्टामु॒भे मामू॒ती अव॑सा सचेताम् ।
 
भूरि॑ चिद॒र्यः सु॒दास्त॑राये॒षा मद॑न्त इषयेम देवाः ॥
 
उभा। शंसा। नर्या। माम्। अविष्टाम्। उभे इति। माम् । ऊती इति । अवसा । सचेताम् ।
 
भूरि । चित् । अर्यः । सुदाःऽतराय । इषा । मदन्तः । इषयेम । देवाः ॥ ९ ॥
 
“उभा “शंसा द्यावापृथिव्योरुभयोः विषयौ उभावपि शंसौ “नर्या नरेभ्यो हितौ ईदृश्यौ उभयाश्रये स्तुती “माम् अविष्टां रक्षताम् । यद्वा । द्यावापृथिव्यभिमानिदेवयोरेव शंसशब्देन अभिधानात् पुंलिङ्गता । तथा “उभे “ऊती रक्षिके द्यावापृथिव्यौ "माम् “अवसा रक्षणेन सचेताम् । यद्वा । प्राणिभ्यो हितकरौ उभौ ऐहिकामुष्मिकविषयौ शंसौ माम् अविष्टां प्राप्नुताम् । तथा उभे अपि ऊती तयोः संबन्धिन्योरभिमानिदेवतयोः अवसा अस्मत्तर्पणेन निमित्तेन सचेताम् । हे “देवाः द्यावापृथिव्योरन्तर्भूताः सर्वेऽपि देवाः “अर्यः स्तोतारो वयं “सुदास्तराय अतिशयेन शोभनदातृत्वाय “इषा अन्नेन सोमलक्षणेन “मदन्तः मादयन्तः सन्तः “भूरि “चित् । चित् पूजायाम् । अभिपूजितं धनम् “इषयेम इच्छेम । यद्वा । अर्यः इति षष्ठ्या रूपम् । ईश्वराद्राजादेरपि सुदास्तरायेत्यर्थः । शिष्टं समानम् ॥
 
 
‘ऋतं दिवे' इति द्वे द्यावापृथिवीये पशौ पुरोडाशहविषोः अनुवाक्ये । ‘अग्नीषोमौ । इति खण्डे सूत्रितम्-’ऋतं दिवे तदवोचं पृथिव्या इति द्वे' ( आश्व. श्रौ. ३. ८) इति ॥
 
ऋ॒तं दि॒वे तद॑वोचं पृथि॒व्या अ॑भिश्रा॒वाय॑ प्रथ॒मं सु॑मे॒धाः ।
 
पा॒ताम॑व॒द्याद्दु॑रि॒ताद॒भीके॑ पि॒ता मा॒ता च॑ रक्षता॒मवो॑भिः ॥
 
ऋतम् । दिवे । तत् । अवोचम् । पृथिव्यै। अभिऽश्रावाय । प्रथमम् । सुऽमेधाः ।
 
पाताम् । अवद्यात् । दुःऽइतात् । अभीके। पिता । माता । च । रक्षताम् । अवःऽभिः ॥१०॥
 
“सुमेधाः शोभनप्रज्ञोऽहं “दिवे द्युदेवतायै “पृथिव्यै पृथिवीदेवतायै “तत् तत्प्रीतिकरम् “ऋतं स्तोत्रं “प्रथमम् । मुख्यनामैतत् । प्रतमं प्रष्टतमम् “अवोचं ब्रवीमि । किमर्थम् । “अभिश्रावाय अभितः सर्वतः श्रवणाय । किंच “पिता पालको द्युलोकः "माता सस्यादेर्निर्मात्री पृथिवी “च उभे “अवद्यात् निन्दितात् दुःखप्रापकात् अंहसः सकाशात् "पातां रक्षताम् । तथा "अभीके । अन्तिकनामैतत् । समीपे एव “अवोभिः अभिमततर्पणैः रक्षतां पालयताम् ॥
 
 
इ॒दं द्या॑वापृथिवी स॒त्यम॑स्तु॒ पित॒र्मात॒र्यदि॒होप॑ब्रु॒वे वा॑म् ।
 
भू॒तं दे॒वाना॑मव॒मे अवो॑भिर्वि॒द्यामे॒षं वृ॒जनं॑ जी॒रदा॑नुम् ॥
 
इदम् । द्यावापृथिवी इति । सत्यम् । अस्तु । पितः। मातः। यत् । इह । उपऽब्रुवे । वाम् ।
 
भूतम् । देवानाम् । अवमे इति । अवःऽभिः । विद्याम । इषम्। वृजनम्। जीरऽदानुम् ॥११॥
 
हे “द्यावापृथिवी द्यावापृथिव्यौ “इदम् अस्माभिः क्रियमाणं स्तोत्रं “सत्यमस्तु अवितथं भवतु फलवद्भवत्वित्यर्थः । इदमित्युक्तं किं तदित्याह । हे "पितः द्यौः हे “मातः पृथिवि “वां युवां प्रति “इह अस्मिन् यज्ञे “यत् स्तोत्रम् "उपब्रुवे उपेत्य ब्रवीमि तत्सत्यमस्तु । “देवानां स्तोतॄणामस्माकम् “अवमे। अन्तिकनामैतत् । नित्यसंनिहिते युवाम् अवोभिः तर्पणैर्युक्ते “भूतं भवतम् । अवशिष्टं गतम् ॥ ॥ ३॥
 
 
 
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.१८५" इत्यस्माद् प्रतिप्राप्तम्