"ऋग्वेदः सूक्तं १.१८६" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ३७:
== ==
{{सायणभाष्यम्|
‘आ न इळाभिः' इति सप्तमं सूक्तमेकादशर्चमागस्त्यं त्रैष्टुभं वैश्वदेवम् । आ नो वैश्वदेवम् इत्यनुक्रान्तम् । विनियोगो लैङ्गिकः ॥
 
 
आ न॒ इळा॑भिर्वि॒दथे॑ सुश॒स्ति वि॒श्वान॑रः सवि॒ता दे॒व ए॑तु ।
 
अपि॒ यथा॑ युवानो॒ मत्स॑था नो॒ विश्वं॒ जग॑दभिपि॒त्वे म॑नी॒षा ॥
 
आ। नः । इळभिः । विदथे । सुऽशस्ति । विश्वानरः । सविता । देवः । एतु ।
 
अपि । यथा । युवानः । मत्सथ । नः । विश्वम् । जगत् । अभिऽपित्वे । मनीषा ॥ १ ॥
 
“नः “विदथे अस्मदीये यज्ञे “सुशस्ति ॥ सुपो लुक् ॥ सुशस्तिभिः शोभनशंसनैः स्तुतिभिः प्रदेयैः रत्नैः सह । यद्वा । "इळाभिः। तदाश्रितेषु तच्छब्द्यम् । भूमिस्थानाभिर्देवताभिः सह। “विश्वानरः सर्वप्राणिहितकार्यग्निः “सविता प्रेरक आदित्यश्च “देवः “एतु आगच्छतु । हे "युवानः नित्यतरुणा यज्ञस्य मिश्रयितारो वा यूयं “नः अस्मान् “अभिपित्वे अभिपतनीयेऽस्मद्यज्ञे “मनीषा मनीषया मनसः ईशितृत्वेन स्वेच्छयेत्यर्थः । अपिः संभावनायाम् । “अपि अस्मान् “मत्सथ मादयथ। "यथा “विश्वं “जगत् । एतत्स्थावरस्याप्युपलक्षणम् । यद्वा कृत्स्नं प्रपञ्चे मत्सथ तथा अस्मानपि । यद्वा । जगच्छब्दो यजमानरूपमनुष्यवाची । सर्वानपि यजमानान् यथा मत्सथ तथेत्यर्थः ॥
 
 
वैश्वदेवे पशौ ‘आ नो विश्वे' इत्येषा हविषः पुरोनुवाक्या । ‘आ नो देवानामुपवेतु शंस आ नो विश्व आस्क्रा गमन्तु देवाः ' ( आश्व. श्रौ. ३. ७) इति ।।
 
आ नो॒ विश्व॒ आस्क्रा॑ गमन्तु दे॒वा मि॒त्रो अ॑र्य॒मा वरु॑णः स॒जोषा॑ः ।
 
भुव॒न्यथा॑ नो॒ विश्वे॑ वृ॒धास॒ः कर॑न्सु॒षाहा॑ विथु॒रं न शव॑ः ॥
 
आ। नः । विश्वे । आस्क्राः । गमन्तु । देवाः । मित्रः । अर्यमा । वरुणः । सऽजोषाः ।।
भुवन् । यथा। नः । विश्वे । वृधासः । करन् । सुऽसहा । विथुरम् । न । शवः ॥ २ ॥
 
“नः अस्माकं यज्ञं “विश्वे सर्वे देवाः “आस्क्राः शत्रूणामास्कन्दयितारः आक्रमितारो वा “आ “गमन्तु आगच्छन्तु । के ते । “मित्रो “अर्यमा “वरुणः च त्रयोऽपि “सजोषाः समानप्रीतयः सन्तः आगच्छन्तु । किंतु “विश्वे देवाः “नः अस्माकं “वृधासः वर्धयितारः यथा “भुवन् भवेयुः तथा “सुषाहा सुष्ठु शत्रूणामभिभवेन नोऽस्मदीयं “शवः अन्नं “विथुरं हीनं यथा “न “करन् न कुर्युः तथा आगच्छन्तु ॥
 
 
प्रेष्ठं॑ वो॒ अति॑थिं गृणीषे॒ऽग्निं श॒स्तिभि॑स्तु॒र्वणि॑ः स॒जोषा॑ः ।
 
अस॒द्यथा॑ नो॒ वरु॑णः सुकी॒र्तिरिष॑श्च पर्षदरिगू॒र्तः सू॒रिः ॥
 
प्रेष्ठम् । वः । अतिथिम् । गृणीषे । अग्निम् । शस्तिऽभिः । तुर्वणिः । सऽजोषाः ।
 
असत् । यथा । नः । वरुणः । सुऽकीर्तिः । इषः । च । पर्षत् । अरिऽगूर्तः। सूरिः ॥३॥
 
हे देवाः “वः युष्माकं प्रेष्ठं प्रियतमम् । सर्वेषामाह्वातृत्वाद्धविर्वहनाच्च अग्निः देवानां प्रियतमः। तम् “अतिथिं गृणीषे गृणे स्तौमि ॥ व्यत्ययेन मध्यमः ॥ केन साधनेन । “शस्तिभिः शंसनैः स्तुतिभिः । कीदृशोऽहम् । “तुर्वणिः तूर्णवनिः शीघ्रं संभक्ता “सजोषाः युष्माभिः सह प्रीयमाणः । यद्वा । एते अग्निविशेषणे । यः तुर्वणिः शीघ्रं यज्ञस्य संभक्ता सजोषा युष्माभिः सह प्रीयमाणः तम् “अग्निं गृणीषे । “यथा येन प्रकारेण “नः अस्माकं “वरुणः एतन्नामको देवः “सुकीर्तिः शोभनकीर्तिमान् “असत् । ‘सुकीर्तिं भिक्षे वरुणस्य भूरेः' (ऋ. सं. २. २८.१ ) इत्यादिमन्त्रवर्णेषु वरुणात् सुकीर्तिरेव एषणीया । “अरिगूर्तः अरिषु अदातृषु सदा शब्दितः अरीणां हननाय उद्युक्तो वा “सूरिः प्रेरयिता अयं वरुणः “इषश्च अन्नानि “पर्षत् पूरयेत् । तथा तमपि स्तुम इत्यर्थः ॥
 
 
उप॑ व॒ एषे॒ नम॑सा जिगी॒षोषासा॒नक्ता॑ सु॒दुघे॑व धे॒नुः ।
 
स॒मा॒ने अह॑न्वि॒मिमा॑नो अ॒र्कं विषु॑रूपे॒ पय॑सि॒ सस्मि॒न्नूध॑न् ॥
 
उप । वः । आ । ईषे । नमसा । जिगीषा। उषसानक्ता । सुदुघाऽइव । धेनुः ।
 
समाने । अहन् । विऽमिमानः । अर्कम् । विषुऽरूपे । पयसि । सस्मिन् । ऊधन् ॥ ४ ॥
 
हे देवाः “वः युष्माकं “नमसा हविषा नमस्कारेण वा “उप उपेत्य “जिगीषा पापानां जिगीषया “एषे इच्छामि ।। ‘इष गतौ ' इत्यस्य वा ईषतेर्वा गत्याद्यर्थस्य लिटि उत्तमैकवचने इदं रूपम् ॥ भजामि । कस्मिन् काले । “उषासानक्ता अहनि रात्रौ च । यद्वा । अहोरात्रदेवते अपि अभिगच्छामि । गतौ दृष्टान्तः । “सुदुघा “धेनुः “इव सुदोग्ध्री धेनुः यथा दोहाय दोग्धुः गृहमागच्छति तद्वत् । किं कुर्वन् । “सस्मिन् समाने “ऊधन ऊधस्युत्पन्ने “विषुरूपे नानारूपे “पयसि क्षीरघृतादिके “अर्कम् अर्चनीयमन्नं चरुपुरोडाशादिकं “विमिमानः विविधं मिमानः । कस्मिन् काले। “समाने “अहन् षष्ठेऽहनि । एकस्मिन्नेवाहनि सर्वदैव वा इत्यर्थः । एकस्मिन्नेवाहनि समाने ऊधस्युत्पन्ने नानारूपे पयसि त्वदर्थं हविर्मिमान उपगच्छामीत्यर्थः । यद्वा । सस्मिन् सर्वस्मिन्नूधसि फलाख्यक्षीरोत्पादके यज्ञे निमित्तभूते सति विषुरूपे पयसि नानारूपे सोमलक्षणोदके अर्कमन्नसाधनं स्तोत्रं विमिमानोऽहं युष्मानभिगच्छामि ॥
 
 
उ॒त नोऽहि॑र्बु॒ध्न्यो॒३॒॑ मय॑स्क॒ः शिशुं॒ न पि॒प्युषी॑व वेति॒ सिन्धु॑ः ।
 
येन॒ नपा॑तम॒पां जु॒नाम॑ मनो॒जुवो॒ वृष॑णो॒ यं वह॑न्ति ॥
 
उत । नः । अहिः । बुध्न्यः । मयः । करिति कः । शिशुम् । न । पिप्युषीऽइव । वेति । सिन्धुः ।
येन । नपातम् । अपाम् । जुनाम । मनःऽजुवः । वृषणः । यम् । वहन्ति ॥ ५॥
 
“उत अपि च “नः अस्माकम् “अहिः अन्तरिक्षगामी अहन्ता वा अहीनो वा अहन्यमानो वा एतन्नामको देवः स एव “बुध्न्यः । बुध्नं बन्धकमन्तरिक्षम् । तदर्हतीति बुध्न्यः अन्तरिक्षचारी एतन्नामको देवः “मयः सुखं “कः करोतु ॥ करोतेर्लङि रूपम् ॥ किंच “पिप्युषी । इवशब्दः एवार्थः पूरणो वा । अस्मान् रसेन आप्याययन्ती “सिन्धुः नाम नदी वेतु आयच्छतु। तत्र दृष्टान्तः । “शिशुं “न यथा शिशुं प्याययन्ती गौर्गच्छति तद्वत् । “अपां नपातम् उदकानामपातयितारं वर्षकमेतन्नामकं यद्वा उदकानां नप्तारं तृतीयं पुत्रम् । अद्भ्यः ओषधिवनस्पतयः तेभ्योऽग्निरिति नप्तृत्वम् । तादृशमग्निं "जुनाम स्तुतिभिः संगच्छेम । जु इति सौत्रो धातुर्गत्यर्थः ॥ “यं देवं मनोजुवः मनोवेगाः “वृष्णः वर्षका मेघा अश्वाः “वहन्ति स सुखं करोतु ॥ ॥ ४ ॥
 
 
उ॒त न॑ ईं॒ त्वष्टा ग॒न्त्वच्छा॒ स्मत्सू॒रिभि॑रभिपि॒त्वे स॒जोषा॑ः ।
 
आ वृ॑त्र॒हेन्द्र॑श्चर्षणि॒प्रास्तु॒विष्ट॑मो न॒रां न॑ इ॒ह ग॑म्याः ॥
 
उत । नः । ईम् । त्वष्टा । आ । गन्तु । अच्छ। स्मत् । सूरिऽभिः । अभिऽपित्वे । सऽजोषाः।
 
आ । वृत्रऽहा । इन्द्रः । चर्षणिऽप्राः । तुविःऽतमः । नराम् । नः । इह । गम्याः ॥ ६ ॥
 
“त्वष्टा देवोऽपि “नः अस्मान् अच्छ अभिप्राप्तुं “ईम् इदानीम् इमं यज्ञं वा “आ “गन्तु। आगत्य च । “स्मत् सहार्थे प्राशस्त्ये वा वर्तते । अत्र प्रशंसायाम् । प्रशस्तं यथा तथा “अभिपित्वे अभिगन्तव्ये यज्ञे निमित्तभूते सति “सूरिभिः स्तोतृभिर्ऋत्विग्भिः “सजोषाः समानप्रीतिर्भवत्विति शेषः । तथा “वृत्रहा वृत्रघाती “चर्षणिप्राः। चर्षणयो मनुष्या यजमानाः । कामैः तेषां पूरकः । “तुविष्टमः बहुतमो महत्तमः “इह अस्मिन् कर्मणि “नरां नृणां “नः अस्माकम् उक्तगुणोपेतः सन् “आ “गम्याः आगच्छतु ॥
 
 
उ॒त न॑ ईं म॒तयोऽश्व॑योगा॒ः शिशुं॒ न गाव॒स्तरु॑णं रिहन्ति ।
 
तमीं॒ गिरो॒ जन॑यो॒ न पत्नी॑ः सुर॒भिष्ट॑मं न॒रां न॑सन्त ॥
 
उत । नः । ईम् । मतयः । अश्वऽयोगाः । शिशुम् । न । गावः । तरुणम् । रिहन्ति ।
 
तम् । ईम् । गिरः । जनयः । न । पत्नीः । सुरभिःऽतमम् । नराम् । नसन्त ॥ ७ ॥
 
“उत अपि च “ईम् एनं “तरुणं नित्ययुवानमिन्द्रं “मतयः अस्मद्बुद्धयः “अश्वयोगाः अश्वसमानप्राप्तयः “रिहन्ति आस्वादयन्ति स्तुवन्तीत्यर्थः । तत्र दृष्टान्तः । “गावः दोग्र्योः धेनवः “शिशुं “न शिशुमिव वत्समिव तं यथा लिहन्ति तद्वत् । तदेवाह । “तमीं तमेवैनं “नरां नराणां यजमानानां “सुरभिष्टमम् अतिशयेन सुरभिं “जनयः फलस्योत्पादयित्र्यः “गिरः स्तुतयः “नसन्त व्याप्नुवन्ति । नसतिर्व्यप्तिकर्मा । तत्र दृष्टान्तः । “जनयः “न उत्पादयित्र्यः “पत्नीः पत्न्यः पतिमिव ।
 
 
उ॒त न॑ ईं म॒रुतो॑ वृ॒द्धसे॑ना॒ः स्मद्रोद॑सी॒ सम॑नसः सदन्तु ।
 
पृष॑दश्वासो॒ऽवन॑यो॒ न रथा॑ रि॒शाद॑सो मित्र॒युजो॒ न दे॒वाः ॥
 
उत । नः । ईम् । मरुतः । वृद्धऽसेनाः । स्मत् । रोदसी इति । सऽमनसः । सदन्तु ।
पृषत्ऽअश्वासः । अवनयः । न । रथाः । रिशादसः । मित्रऽयुजः । न । देवाः ॥ ८ ॥
 
“उत अपि च “नः अस्मदीयम् “ईम् इदानीम् एनं यागं वा “मरुतः “स्मत् सह अपि "सदन्तु गच्छन्तु । कुतो देशात् । “रोदसी रोदस्योर्द्यावापृथिव्योः सकाशात् । यद्वा । रोदस्यावपि गच्छताम् । कीदृशास्ते मरुतः । “वृद्धसेनाः प्रवृद्धबलाः “समनसः समानमनस्काः “पृषदश्वासः पृषद्वर्णाश्वाः । ‘पृषत्यो मरुताम् ' (नि. १, १५, ६) इति यास्कः । “अवनयो “न यथैव नमनस्वभावाः “रथाः रंहणस्वभावा रथवन्तो वा ।। मत्वर्थों लुप्यते ।। यद्वा । अवनयो रक्षका रथा इव स्थिताः। “रिशादसः । रिशाः शत्रवः । तेषाम् अत्तारः “मित्रयुजः “देवाः “न मैत्रीयुक्ता व्यवहर्तारः ऋत्विज इव । यद्वा । मैत्रीयुक्ता अन्ये देवा यथा गच्छन्ति तद्वत् ॥
 
 
प्र नु यदे॑षां महि॒ना चि॑कि॒त्रे प्र यु॑ञ्जते प्र॒युज॒स्ते सु॑वृ॒क्ति ।
 
अध॒ यदे॑षां सु॒दिने॒ न शरु॒र्विश्व॒मेरि॑णं प्रुषा॒यन्त॒ सेना॑ः ॥
 
प्र । नु । यत् । एषाम् । महिना । चिकित्रे । प्र । युञ्जते । प्रऽयुजः । ते । सुऽवृक्ति ।
 
अध । यत् । एषाम् । सुऽदिने । न । शरुः । विश्वम्। आ । इरिणम् । प्रुषायन्त । सेनाः ॥९॥
 
“एषां मरुतां “महिना महिमा वृष्टिलक्षणः “यत् यस्मात् “प्र “चिकित्रे प्रज्ञायते । यद्वा । एषां महत्त्वेन युक्ता नराः चिकित्रे जानन्त्यनुष्ठेयम् । “नु इति पूरणः । ततः “ते ज्ञातारः “सुवृक्ति ॥ सुपो लुक् ॥ सुष्ठुतीनां “प्रयुजः प्रयोगान् “प्र “युञ्जते । “अध अथ प्रयोगानन्तरं “यत् यस्मात् “एषां “सेनाः वृष्ट्युत्पादकाः “विश्वं सर्वं भुवनम् “इरिणम् ऊषरप्रदेशं यथा तथा सर्वतः “प्रुषायन्त उत्पादयन्ति । तत्र दृष्टान्तः । “सुदिने मेघावरणादिरहिते दिने “शरुः अन्धकारहिंसकः प्रकाश इव। स यथा सर्वमावृणोति तथा मरुत्सेना वृष्ट्या सर्वम् ऊषरं करोति । यद्वा । मरुन्महिमा वृष्टिर्भवति । तदा सस्यादिसमृद्धौ सत्यां प्रयोगं कुर्वन्ति । यदा यजन्ति तदा मरुत्सेनाः सर्वा महीमुन्दन्तीत्येवं महानुभावा मरुत इति तेषां स्तुतिः ॥ ।
 
 
प्रो अ॒श्विना॒वव॑से कृणुध्वं॒ प्र पू॒षणं॒ स्वत॑वसो॒ हि सन्ति॑ ।
 
अ॒द्वे॒षो विष्णु॒र्वात॑ ऋभु॒क्षा अच्छा॑ सु॒म्नाय॑ ववृतीय दे॒वान् ॥
 
प्रो इति। अश्विनौ । अवसे । कृणुध्वम् । प्र । पूषणम् । स्वऽतवसः । हि । सन्ति ।
 
अद्वेषः । विष्णुः । वातः । ऋभुक्षाः । अच्छ। सुम्नाय । ववृतीय । देवान् ॥ १० ॥
 
हे ऋत्विजः “अश्विनौ एतन्नामकौ देवावुद्दिश्य “अवसे अस्मद्रक्षणाय “प्रो “कृणुध्वं स्तुतिं प्रकर्षेण कृणुध्वम् । “पूषणं पोषकम् एतन्नामकं देवमपि अवसे प्रकर्षेण स्तुतिं कृणुध्वम् । किंच ये “स्वतवसः स्वायत्तबलाः “सन्ति तानपि प्र कृणुध्वम् । के ते। "अद्वेषः द्वेषरहितः “विष्णुः व्याप्तः एतन्नामको देवः । प्रथममनाहूतोऽपि न कुप्यतीति वक्तुम् अद्वेषः इत्युक्तम् । तथा “वातः सर्वत्र संचारी वायुः “ऋभुक्षाः पतिरिन्द्रश्च । एतानपि प्र कृणुध्वम् । अतोऽहं स्वायत्तबलान् सर्वानपि “देवान् “सुम्नाय सुखाय "अच्छ आभिमुख्येन “ववृतीय स्तोत्रैः अभिवर्तयेयम् ॥
 
 
इ॒यं सा वो॑ अ॒स्मे दीधि॑तिर्यजत्रा अपि॒प्राणी॑ च॒ सद॑नी च भूयाः ।
 
नि या दे॒वेषु॒ यत॑ते वसू॒युर्वि॒द्यामे॒षं वृ॒जनं॑ जी॒रदा॑नुम् ॥
 
इयम् । सा। वः । अस्मे इति । दीधितिः । यजत्राः । अपिऽप्राणी। च । सदनी । च । भूयाः ।
 
नि । या । देवेषु । यतते । वसुऽयुः । विद्याम । इषम् । वृजनम् । जीरऽदानुम् ॥ ११ ॥
 
हे “यजत्राः यष्टव्या देवाः “वः युष्मत्संबन्धिनी “सा “इयं प्रसिद्धा "दीधितिः दीप्तिः “अस्मे अस्माकम् “अपिप्राणी सर्वदा चेष्टयित्री “सदनी “च निवासवती च “भूयाः भूयात् भवतु । “या दीधितिः “वसूयुः वसुमती “देवेषु “नि यतते नियमेन प्रयत्नं करोति । तानपि प्रकाशितुं सैव भूयात् । विद्याम इति गतः ॥ ॥ ५ ॥
 
 
 
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.१८६" इत्यस्माद् प्रतिप्राप्तम्