"ऋग्वेदः सूक्तं १.१८७" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ३६:
 
{{सायणभाष्यम्|
‘पितुं नु' इत्येकादशर्चमष्टमं सूक्तमागस्त्यमन्नदेवताकं गायत्रम् । आद्या अनुष्टुब्गर्भोष्णिक् । ‘आद्यः पञ्चकस्त्रयोऽष्टका अनुष्टुब्गर्भा' (अनु. ५. ७) इत्युक्तत्वात् । तृतीया पञ्चमी षष्ठी सप्तम्येकादशी च इति पञ्चानुष्टुभः । तथा च अनुक्रमणिका-पितुं न्वन्नस्तुतिर्गायत्रं त्वाद्यानुष्टुब्गर्भा तृतीयान्त्ये पञ्चम्याद्याश्च तिस्रोऽनुष्टुभः' इति । विनियोगं शौनक आह- पितुं न्वित्युपतिष्ठेत नित्यमन्नमुपस्थितम् । पूजयेदशनं नित्यं भुञ्जीत ह्यविकुत्सयन् ॥ नास्य स्यादन्नजो व्याधिर्विषमप्यमृतं भवेत् । विषं च पीत्वैतत्सूक्तं जपेद्विषविनाशनम् ।। नावाग्यतस्तु भुञ्जीत नाशुचिर्न जुगुप्सितम् । दद्याञ्च पूजयेच्चैव जुहुयाच्च हविस्तदा । क्षुद्भयं नास्य किंचित्स्यान्नान्नजं व्याधिमाप्नुयात् ' ( ऋग्वि. १. १४८-१५१ ) इति ।।
 
 
पि॒तुं नु स्तो॑षं म॒हो ध॒र्माणं॒ तवि॑षीम् ।
 
यस्य॑ त्रि॒तो व्योज॑सा वृ॒त्रं विप॑र्वम॒र्दय॑त् ॥
 
पितुम् । नु । स्तोषम् । महः । धर्माणम् । तविषीम् ।।
 
यस्य । त्रितः । वि। ओजसा । वृत्रम् । विऽपर्वम् । अर्दयत् ॥ १ ॥
 
अहमगस्त्यः “नु क्षिप्रं “पितु पालकमन्नं “स्तोषं स्तौमि। “महः महान्तं “धर्माणं सर्वस्य धारकं “तविषीं बलात्मकम् । यद्वा । महतो लोकस्य धारकम् । “यस्य अन्नस्य “ओजसा बलेन सामर्थ्येन “त्रितः विस्तीर्णतमः प्रख्यातकीर्तिः त्रिषु क्षित्यादिस्थानेषु तायमानोऽपि इन्द्रः “वृत्रं “विपर्वं विच्छिन्नसंधिकं यथा तथा अर्दयत् हिंसितवान् ।
 
 
स्वादो॑ पितो॒ मधो॑ पितो व॒यं त्वा॑ ववृमहे ।
 
अ॒स्माक॑मवि॒ता भ॑व ॥
 
स्वादो इति । पितो इति। मधो इति । पितो इति । वयम् । त्वा । ववृमहे ।
 
अस्माकम् । अविता । भव ॥ २ ॥
 
हे “स्वादो आस्वादनीय “पितो पालक “मधो माधुर्योपेत “पितो हे पानसाधनान्न "वयं “त्वा त्वां “ववृमहे सेवामहे ।। अत्र सर्वत्र अननुदात्तानां पूर्वस्य असामान्यवचनत्वेनानिघातत्वम् । अनुदात्तानां तु विशेषवचनत्वान्निघातत्वम् ।। असकृत्पितुशब्दश्रवणं तस्य प्राशस्त्यज्ञापनार्थम् । हे पितो “अस्माकमविता तर्पयिता “भव ॥
 
 
उप॑ नः पित॒वा च॑र शि॒वः शि॒वाभि॑रू॒तिभि॑ः ।
 
म॒यो॒भुर॑द्विषे॒ण्यः सखा॑ सु॒शेवो॒ अद्व॑याः ॥
 
उप । नः । पितो इति । आ । चर। शिवः । शिवाभिः । ऊतिऽभिः ।
 
मयःऽभुः । अद्विषेण्यः । सखा । सुऽशेवः । अद्वयाः ॥ ३ ॥
 
हे “पितो यतः त्वं “शिवः मङ्गलः अतः “शिवाभिः मङ्गलयुक्ताभिः “ऊतिभिः रक्षणैः “नः अस्मान् “आ “चर आगच्छ। आगत्य च “मयोभुः सुखस्य भावयिता “अद्विषेण्यः अद्वेष्यरसः प्रियरस इत्यर्थः । “सखा सखिवत्प्रियकारी “सुशेवः अत एव सुष्ठु सुखकरः “अद्वयाः द्वयरहितः उक्तगुण एव न तु तद्विपरितो भवेत्यर्थः । अथवा दृष्टान्तवादोऽयम् । सुशेवोऽद्वया मनःकर्मविसंवादरहितः सखा यथा मयोभुः अद्वेष्यश्च भवति तद्वत् त्वमपि भवेत्यर्थः ।।
 
 
तव॒ त्ये पि॑तो॒ रसा॒ रजां॒स्यनु॒ विष्ठि॑ताः ।
 
दि॒वि वाता॑ इव श्रि॒ताः ॥
 
तव । त्ये। पितो इति। रसाः । रजांसि। अनु। विऽस्थिताः ।
 
दिवि । वाताःऽइव । श्रिताः ॥४॥
 
हे “पितो “तव त्वत्संबन्धिनः “त्ये ते स्वाद्वम्लादि षट् “रसाः “रजांसि लोकान् लोकस्थानार्थान् “अनु आनुकूल्येन “विष्ठिताः विविधं स्थिताः । विविधस्थितौ दृष्टान्तः । “दिवि द्युलोकेऽन्तरिक्षे “श्रिताः “वाताः वायवः ते यथा व्याप्तास्तद्वत् ॥
 
 
तव॒ त्ये पि॑तो॒ दद॑त॒स्तव॑ स्वादिष्ठ॒ ते पि॑तो ।
 
प्र स्वा॒द्मानो॒ रसा॑नां तुवि॒ग्रीवा॑ इवेरते ॥
 
तव । त्ये। पितो इति । ददतः । तव । स्वादिष्ठ । ते । पितो इति ।
 
प्र । स्वाद्मानः । रसानाम् । तुविग्रीवःऽइव । ईरते ॥ ५ ॥
 
हे "पितो पालकान्न “त्ये ते त्वदर्थिनो नराः “तव भोक्तारो भवन्तीति शेषः । के ते नराः । “स्वादिष्ट स्वादुतम “पितो पालक “तव त्वदनुग्रहात् "ते त्वां “ददतः प्रयच्छन्तो भवन्ति । यद्वा। ते पितो इत्यादरार्थम् । अभ्यासे हि भूयांसमर्थं मन्यन्ते । किंच तव “रसानां स्वाद्वम्लादीनां षण्णां
“स्वाद्मानः स्वादयितारो भक्षयितार एव “तुविग्रीवाइव । तुवीति बहुनाम । प्रवृद्धग्रीवा एव “प्र “ईरते प्रकर्षेण गच्छन्ति संचरन्ति । इवशब्द एवकारार्थः पूरणो वा । भूलोके अत्तार एव दृढाङ्गा भवन्तीति प्रसिद्धम् । अनशने हि ग्रीवा अधो लम्बन्ते । यद्वा । तव रसानामत्तारः असंख्यातग्रीवा इव भवन्ति रसानां बाहुल्यादिति भावः । एवं वहुरसोपेतमन्नमिति तस्य स्तुतिः ॥ ॥ ६ ॥
 
 
त्वे पि॑तो म॒हानां॑ दे॒वानां॒ मनो॑ हि॒तम् ।
 
अका॑रि॒ चारु॑ के॒तुना॒ तवाहि॒मव॑सावधीत् ॥
 
त्वे इति । पितो इतिं । महानाम् । देवानाम् । मनः । हितम् ।
 
अकारि । चारु । केतुना । तव । अहिम् । अवसा । अवधीत् ॥ ६ ॥
 
हे “पितो "महानां पूज्यानां महतां वा “देवानाम् इन्द्रादीनां “मनः “त्वे त्वयि “हितं निहितम् “अकारि कृतम् । अमृतमपि विहाय त्वय्येव वर्तते । हे पितो “तव “चारु समीचीनेन “केतुना त्वत्कृतेन प्रज्ञानलक्षणेन “अवसा रक्षणेन "अहिं मेघं वृत्रं वा “अवधीत हतवानिन्द्रः । ‘अन्नमयं हि सोम्य मनः ' ( छा. उ. ६. ५. ४) इति श्रुतेः । अथवा त्वत्केतुना जगद्गक्षणेन निमित्तेनेति योज्यम् । जगद्रक्षणार्थं हि इन्द्रेणाहिर्भिद्यते ॥
 
 
यद॒दो पि॑तो॒ अज॑गन्वि॒वस्व॒ पर्व॑तानाम् ।
 
अत्रा॑ चिन्नो मधो पि॒तोऽरं॑ भ॒क्षाय॑ गम्याः ॥
 
यत् । अदः । पितो इति । अजगन् । विवस्व । पर्वतानाम् ।
 
अत्र । चित् । नः । मधो इति । पितो इति । अरम् । भक्षाय । गम्याः ॥ ७ ॥
 
हे “पितो अन्न त्वां “यत् यदा “विवस्व ।। सुपो लुक् । अन्त्यलोपश्छान्दसः ॥ विवासनवतां विद्युद्रूपप्रकाशनवताम् । विवो धनमुदकलक्षणम् । धनवतां वा “पर्वतानां मेघानां संबन्धि “अदः प्रसिद्धं तदुदकम् “अजगन् अगमत् गच्छेत् । “अत्र “चित् अस्मिन्काले "नः अस्मान् हे “मधो हे “पितो माधुर्योपेतान्न त्वं नोऽस्मान् “अरम् अलं संपूर्णं “भक्षाय भक्षणाय “गम्याः गच्छ संनिहितो भव ॥
यद्पामोषधीनां परिंशमरिशामहे । वातापे पीव इर्द्धव ॥ ८ ॥
 
 
यद॒पामोष॑धीनां परिं॒शमा॑रि॒शाम॑हे ।
 
वाता॑पे॒ पीव॒ इद्भ॑व ॥
 
यत् । अपाम् । ओषधीनाम् । परिंशम्। आऽरिशामहे ।
 
वातापे। पीवः । इत्। भव ॥८॥
 
"यत् येन “अपामोषधीनां संबन्धि “परिंशं परिलेशं परितः सुखकरमन्नम् “आरिशामहे आस्वादयामः भक्षयामः तेन अन्नोदकसारेण हे “वातापे । वातेन प्राणेन आप्नोति स्वनिर्वाहमिति वातेनाप्यायत इति वा वातापि शरीरम् । हे शरीर त्वं “पीव “इत् आप्यायित एव “भव । अन्नोदकाभ्यां शरीरवृद्धिः प्रसिद्धा । यद्वा । यद्यपि अपामोषधीनां परिंशं लेशमास्वादयामः तथापि हे वातापे वातवत्सर्वव्यापक पितो त्वम् अल्पमपि पीवः पीवानेव भव ॥
 
 
यत्ते॑ सोम॒ गवा॑शिरो॒ यवा॑शिरो॒ भजा॑महे ।
 
वाता॑पे॒ पीव॒ इद्भ॑व ॥
 
यत् । ते । सोम। गोऽअशिरः। यवऽआशिरः। भजामहे ।
 
वातापे । पीवः । इत् । भव ॥९॥
 
पूर्वम् अन्नसामान्येन स्तुत्वा इदानीं सोमलक्षणमन्नं स्तौति । हे "सोम “ते तव “यत् यम् अंशं “गवाशिरः गोविकारक्षीराद्याश्रयणद्रव्यं "यवाशिरः यवविकाराश्रयणद्रव्यं “भजामहे सेवामहे तेन हे “वातापे शरीर “पीवः भव ॥
 
 
क॒र॒म्भ ओ॑षधे भव॒ पीवो॑ वृ॒क्क उ॑दार॒थिः ।
 
वाता॑पे॒ पीव॒ इद्भ॑व ॥
 
करम्भः । ओषधे । भव । पीवः । वृक्कः। उदारथिः ।
 
वातापे। पीवः । इत् । भव ॥ १० ॥
 
“करम्भः यः करम्भादिरूपः सक्तुपिण्डोऽस्ति तदात्मक हे “ओषधे त्वं “पीवः स्थौल्यवान् “वृक्कः व्याधेर्वर्जयिता “भव । उदारथिः ऊर्ध्वगमः इन्द्रियाणामुद्दीपयिता भव । शिष्टो गतः ॥
 
 
तं त्वा॑ व॒यं पि॑तो॒ वचो॑भि॒र्गावो॒ न ह॒व्या सु॑षूदिम ।
 
दे॒वेभ्य॑स्त्वा सध॒माद॑म॒स्मभ्यं॑ त्वा सध॒माद॑म् ॥
 
तम् । त्वा । वयम् । पितो इति । वचःऽभिः । गावः । न । हव्या । सुसूदिम् ।।
 
देवेभ्यः । त्वा । सधऽमादम् । अस्मभ्यम् । त्वा । सधऽमादम् ॥ ११ ॥
 
हे “पितो अन्न सोमरूप “तं तादृशं स्तुतं “त्वा त्वां महानुभावं “वचोभिः स्तुतिवाग्भिः “वयं “सुषूदिम क्षारयामो रसान् । तत्र दृष्टान्तः । “गावो “न “हव्या गाव इव हवींष्युत्पादयन्ति तथा त्वत्सकाशात् सोमं सुषूदिम । किमर्थं कीदृशं च इति चेत् उच्यते । “देवेभ्यः इन्द्रादिभ्यः तदर्थं “सधमादं तेषां सह मादयितारम् । न केवलं देवेभ्य एव किंतु “सधमादम् अस्माभिः सह मादयितारं हुतशेषरूपं “त्वा त्वाम् “अस्मभ्यम् अस्मदर्थमपि ॥ ॥ ७ ॥
 
 
 
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.१८७" इत्यस्माद् प्रतिप्राप्तम्