"ऋग्वेदः सूक्तं १.१७०" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १०:
 
{{ऋग्वेदः मण्डल १}}
<poem><span style="font-size: 14pt; line-height: 200%">
<div class="verse">
<pre>
न नूनमस्ति नो श्वः कस्तद्वेद यदद्भुतम् ।
अन्यस्य चित्तमभि संचरेण्यमुताधीतं वि नश्यति ॥१॥
 
किं न इन्द्र जिघांससि भ्रातरो मरुतस्तव ।
तेभिः कल्पस्व साधुया मा नः समरणे वधीः ॥२॥
 
किं नो भ्रातरगस्त्य सखा सन्नति मन्यसे ।
विद्मा हि ते यथा मनोऽस्मभ्यमिन्न दित्ससि ॥३॥
 
अरं कृण्वन्तु वेदिं समग्निमिन्धतां पुरः ।
तत्रामृतस्य चेतनं यज्ञं ते तनवावहै ॥४॥
 
त्वमीशिषे वसुपते वसूनां त्वं मित्राणां मित्रपते धेष्ठः ।
इन्द्र त्वं मरुद्भिः सं वदस्वाध प्राशान ऋतुथा हवींषि ॥५॥
 
</prespan></poem>
 
</div>
{{सायणभाष्यम्|
‘न नूनमस्ति' इति पञ्चर्चं षष्ठं सूक्तमागस्त्यमैन्द्रम् । अत्रानुक्रमणिका-न नूनं पञ्चागस्त्येनैन्द्रे हविषि मरुतामुद्यत इन्द्रागस्त्ययोः संवादः ऐन्द्रस्तत्राद्या तृतीया चेन्द्रवाक्यं चतुर्थी चादौ बृहती तिस्रोऽनुष्टुभः' इति । सूक्तस्येन्द्रागस्त्यसंवादरूपत्वादाद्या तृतीया चतुर्थी चेन्द्रवाक्यम् । अतस्तासां यस्यवाक्यन्यायेन स ऋषिः । शिष्टे अगस्त्यवाक्ये। अतस्तयोः स एवर्षिः। आद्या च बृहती ततस्तिस्रोऽनुष्टुभः । अन्त्या अविशेषात् त्रिष्टुप् ॥ विशेषविनियोगो लैङ्गिकः। अत्र यास्कः-’अगस्त्य इन्द्राय हविर्निरुप्य मरुद्भ्यः संप्रदित्सांचकार स इन्द्र एत्य परिदेवयांचक्रे' (निरु. १.५ ) इति ॥
 
 
न नू॒नमस्ति॒ नो श्वः कस्तद्वे॑द॒ यदद्भु॑तम् ।
 
अ॒न्यस्य॑ चि॒त्तम॒भि सं॑च॒रेण्य॑मु॒ताधी॑तं॒ वि न॑श्यति ॥
 
किं न॑ इन्द्र जिघांससि॒ भ्रात॑रो म॒रुत॒स्तव॑ ।
 
तेभि॑ः कल्पस्व साधु॒या मा न॑ः स॒मर॑णे वधीः ॥
 
किं नो॑ भ्रातरगस्त्य॒ सखा॒ सन्नति॑ मन्यसे ।
 
वि॒द्मा हि ते॒ यथा॒ मनो॒ऽस्मभ्य॒मिन्न दि॑त्ससि ॥
 
अरं॑ कृण्वन्तु॒ वेदिं॒ सम॒ग्निमि॑न्धतां पु॒रः ।
 
तत्रा॒मृत॑स्य॒ चेत॑नं य॒ज्ञं ते॑ तनवावहै ॥
 
त्वमी॑शिषे वसुपते॒ वसू॑नां॒ त्वं मि॒त्राणां॑ मित्रपते॒ धेष्ठ॑ः ।
 
इन्द्र॒ त्वं म॒रुद्भि॒ः सं व॑द॒स्वाध॒ प्राशा॑न ऋतु॒था ह॒वींषि॑ ॥
 
}}
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.१७०" इत्यस्माद् प्रतिप्राप्तम्