"ऋग्वेदः सूक्तं १.१७०" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ३१:
 
अ॒न्यस्य॑ चि॒त्तम॒भि सं॑च॒रेण्य॑मु॒ताधी॑तं॒ वि न॑श्यति ॥
 
न । नूनम् । अस्ति । नो इति । श्वः । कः । तत् । वेद । यत् । अद्भुतम् ।
 
अन्यस्य । चित्तम् । अभि । सम्ऽचरेण्यम् । उत। आऽधीतम् । वि। नश्यति ॥ १ ॥
 
परिदेवनप्रकारः प्रतिपाद्यते । इन्द्र आह । अद्यतनं यदस्ति तत् "नूनम् अद्य न अस्ति । नूनमत्र विचिकित्सार्थे । अत्र अद्य इति यद्यपि नास्ति तथापि उत्तरवाक्ये श्वः इति दर्शनादत्र अद्येति गम्यते । तथा “श्वः अपि नूनं "नो। उशब्दः अवधारणे। श्वस्तनमपि नैव नास्ति । अद्य यथा अस्मदर्थनिरुप्तम् अस्मभ्यं नास्ति किल श्वः कथं लप्स्यते इति भावः। "यदद्भुतम् अन्यस्मै निरुप्य अन्यस्मै दत्तमति यदस्ति वैपरीत्यं “तत् "कः "वेद । यद्वा । यदद्भुतं भावि कार्यं यदस्ति तत्को वेद । अद्य श्वो वा लभ्यते इत्याशा न कार्येत्युक्तं भवति । तदेवाह । “अभि “संचरेण्यं सर्वतः संचारि "अन्यस्य “चित्तं मानसं जानतीति शेषः । “उत अपि च “आधीतम् आध्यातं चिन्तितमपि न दृश्यं किमु सकृत्स्मृतं “वि “नश्यति इति ॥
 
 
किं न॑ इन्द्र जिघांससि॒ भ्रात॑रो म॒रुत॒स्तव॑ ।
 
तेभि॑ः कल्पस्व साधु॒या मा न॑ः स॒मर॑णे वधीः ॥
 
किम् । नः । इन्द्र । जिघांससि । भ्रातरः । मरुतः । तव ।
 
तेभिः । कल्पस्व । साधुऽया। मा। नः । सम्ऽअरणे। वधीः ॥ २ ॥
 
इदमगस्त्यवाक्यम् । हे “इन्द्र "नः अस्मान् अनपराधिनः "किं "जिघांससि हन्तुमिच्छसि । कथमवध्यत्वमिति अत आह । "मरुतः “तव "भ्रातरः । त्वया भोगप्रदानेन भरणीया इत्यर्थः । अतो वयमवध्या इत्युक्तं भवति । मरुतामिन्द्रभ्रातृत्वम् एकस्मिन्नेवादितिगर्भे उत्पन्नत्वात् । सा चोत्पत्तिः पुराणेषु प्रसिद्धा । सन्तु भ्रातरस्ततश्च किमिति अत आह । "तेभिः तैर्मरुद्भिः सह "साधुया साधुत्वं “कल्पस्व कल्पय हविर्भागं तैः सह युद्धं वा । "नः अस्मान् "समरणे संग्रामे “मा “वधीः मा हिंसीः । यद्वा । लुप्तो दृष्टान्तः । संग्रामे यथा विरोधिनं हंसि न तथास्मानिति ॥
 
 
किं नो॑ भ्रातरगस्त्य॒ सखा॒ सन्नति॑ मन्यसे ।
 
वि॒द्मा हि ते॒ यथा॒ मनो॒ऽस्मभ्य॒मिन्न दि॑त्ससि ॥
 
किम् । नः । भ्रातः। अगस्त्य । सखा । सन् । अति । मन्यसे ।
 
विद्म । हि। ते। यथा । मनः । अस्मभ्यम् । इत् । न । दित्ससि ॥ ३ ॥
 
इदमिन्द्रवाक्यम् । हे “भ्रातः हे "अगस्त्य । हविष्प्रदानवरप्रदानाभ्यां परस्परोपकारत्वात् भ्रातृत्वम् । तादृशस्त्वं "सखा सन् अस्मद्धितकार्यपि सन् “नः अस्मान् "किम् "अति "मन्यसे । कस्मादपराधादतिक्रम्य मनुषे । अपलपसि । नायमपलापः किंतु तथ्यमेवेति चेत् उच्यते । गन्तव्यं “ते तव “मनः मानसं "यथा यथावस्तु "विद्म जानीमः । कथं जानीथेति उच्यते । "अस्मभ्यमिन्न “दित्ससि । अस्मदर्थं निरुप्तमस्मभ्यं दातुं नेच्छस्येव । इत् एवार्थे ।
 
 
अरं॑ कृण्वन्तु॒ वेदिं॒ सम॒ग्निमि॑न्धतां पु॒रः ।
 
तत्रा॒मृत॑स्य॒ चेत॑नं य॒ज्ञं ते॑ तनवावहै ॥
 
अरम् । कृण्वन्तु । वेदिम् । सम् । अग्निम् । इन्धताम् । पुरः ।
 
तत्र । अमृतस्य । चेतनम् । य॒ज्ञम् । ते । तनवावहै ॥ ४ ॥
 
इदमिन्द्रवाक्यम् । अपरे अगस्त्यवाक्यमाहुः । हे ऋत्विजो यूयं अगस्त्योऽङ्गीकृतवान् तस्मात् "वेदिम् “अरं "कृण्वन्तु । संमार्जनपर्युक्षणादिना परिचरन्तु । तथा "पुरः पुरस्तात् "अग्निम् आहवनीयादिकं “सम् "इन्धताम् इध्मप्रक्षेपेण प्रज्वालयन्तु । "तत्र अग्नौ "अमृतस्य अमरणलक्षणस्य वेदत्वस्य “चेतन प्रज्ञापकं "यज्ञं हे अगस्त्य “ते त्वदीयं त्वं चाहं च “तनवावहै । अगस्त्यवाक्यपक्षे शिष्टमविशिष्टम् । तत्र वेद्याममृतस्य तत्साधनस्य हविषो वा चेतनं प्रज्ञापनमासादनं कुरुत । आवां पत्नीयजमानौ अध्वर्युयजमानौ वा हे इन्द्र ते त्वदर्थं यज्ञं तनवावहै ॥
 
 
त्वमी॑शिषे वसुपते॒ वसू॑नां॒ त्वं मि॒त्राणां॑ मित्रपते॒ धेष्ठ॑ः ।
 
इन्द्र॒ त्वं म॒रुद्भि॒ः सं व॑द॒स्वाध॒ प्राशा॑न ऋतु॒था ह॒वींषि॑ ॥
 
त्वम् । ईशिषे । वसुऽपते । वसूनाम् । त्वम् । मित्राणाम् । मित्रऽपते । धेष्ठः ।
 
इन्द्र । त्वम् । मरुत्ऽभिः । सम् । वदस्व । अध । प्र । अशान । ऋतुऽथा। हवींषि ॥५॥
 
इदमगस्त्यवाक्यम् । हे "वसूनां “वसुपते अतिप्रभूतानां पुरोडाशाज्यादिधनानां स्वामिन् हे इन्द्र “त्वमीशिषे ईश्वरो भवसि सर्वस्य। वृत्त्यवृत्तिभ्यां बहुत्वं नित्यं संबन्धश्च प्रतिपद्यते । यद्वा । हे वसुपते वसूनामीशिषे इति योजना । द्वितीयो वसुशब्दोऽनुवादो वा । तथा हे "मित्राणां "मित्रपते अस्मदादिमित्रस्य नित्यं पालकेन्द्र “त्वं “धेष्ठः सर्वस्यातिशयेन धारकोऽसि । हे “इन्द्र “त्वम् उक्तमहिमस्त्वं “मरुद्भिः "सं “वदस्व तैः साकं सम्यक्कृतमिति वदस्व । "अध अपि च त्वम् “ऋतुथा ऋतावृतौ । उपलक्षणमेतत्कालस्य । तत्तद्योगकाले “हवींषि आज्यचर्वादीनि “प्राशान प्रकर्षेण भुङ्क्ष्व ॥ ॥ १० ॥
 
 
}}
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.१७०" इत्यस्माद् प्रतिप्राप्तम्