"ऋग्वेदः सूक्तं १.१७१" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ३५:
 
र॒रा॒णता॑ मरुतो वे॒द्याभि॒र्नि हेळो॑ ध॒त्त वि मु॑चध्व॒मश्वा॑न् ॥
 
प्रति । वः । एना । नमसा। अहम् । एमि । सुऽउक्तेन । भिक्षे । सुऽमतिम् । तुराणाम् ।
 
रराणता । मरुतः । वेद्याभिः । नि । हेळ: । धत्त । वि । मुचध्वम् । अश्वान् ॥ १ ॥
 
.हे मरुतः “वः युष्मान् “अहं “प्रति “एमि अभिगच्छामि । केन साधनेन । "नमसा नमस्कारेण हविषा वा । नम इत्यन्ननाम । तथा “सूक्तेन शोभनवचनेन स्तुतिरूपेण । “तुराणां त्वरमाणानां शत्रूणां हिंसकानां वा युष्माकं “सुमतिं शोभनमतिम् अनुग्रहबुद्धिं “भिक्षे याचे । इन्द्रस्यैव पुनर्हविष्प्रदानादिदं याच्यते । किंच हे “मरुतः यूयं “वेद्याभिः वेदितव्याभिः स्तुतिभिः “रराणता रममाणेन मनसा इत्थंभूताः सन्तः “हेळ: । क्रोधनामैतत् । क्रोधं युष्मदभिक्रमजनितं “नि “धत्त निकृष्टं धारयत त्यजतेत्यर्थः । तथा “अश्वान् “वि “मुचध्वम् रथेभ्यो वियोजयत । क्रोधात् पुनर्गमनं मा कुरुतेत्यर्थः ॥
 
 
ए॒ष व॒ः स्तोमो॑ मरुतो॒ नम॑स्वान्हृ॒दा त॒ष्टो मन॑सा धायि देवाः ।
 
उपे॒मा या॑त॒ मन॑सा जुषा॒णा यू॒यं हि ष्ठा नम॑स॒ इद्वृ॒धास॑ः ॥
 
एषः । वः । स्तोमः। मरुतः । नमस्वान् । हृदा । तष्टः । मनसा । धायि । देवाः ।।
 
उप । ईम् । आ। यात । मनसा। जुषाणाः । यूयम्। हि। स्थ। नमसः । इत् । वृधासः ॥२॥
 
हे “मरुतः “एष “वः स्तोमः इदानींक्रियमाणप्रकारो वो युष्माकम् । युष्मदर्थं इत्यर्थः । कीदृशोऽयम् । “नमस्वान् । नम इत्यन्ननाम । हविर्लक्षणान्नवान् । न केवलं स्तुतिमात्रं भक्षणाय हविरपि युष्माकमित्यर्थः । किंच 'हृदा “तष्टः युष्मन्निवेदनबुद्ध्या संपादितः । तादृशः स्तोमो हे “देवाः देवनशीलाः “मनसा अस्मदनुग्रहवता चित्तेन “धायि धार्यताम् । तदर्थं “मनसा आदरया बुद्ध्या "जुषाणाः “ईम् एनां स्तुतिं तद्धविश्च सेवमानाः “उप “आ “यात उपागच्छतैव । मा विलम्बं कुरुत । "यूयं “नमसः अन्नस्य हवीरूपस्य “वृधासः “स्थ "हि वर्धयितारो भवथ खलु । अतो गन्तव्यमेव । “इत् पूरणः ॥
 
 
स्तु॒तासो॑ नो म॒रुतो॑ मृळयन्तू॒त स्तु॒तो म॒घवा॒ शम्भ॑विष्ठः ।
 
ऊ॒र्ध्वा न॑ः सन्तु को॒म्या वना॒न्यहा॑नि॒ विश्वा॑ मरुतो जिगी॒षा ॥
 
स्तुतासः । नः । मरुतः । मृळयन्तु । उत। स्तुतः । मघऽवा । शम्ऽभविष्ठः ।
 
ऊर्ध्वा । नः । सन्तु। कोम्या । वनानि । अहानि । विश्वा । मरुतः । जिगीषा ॥ ३ ॥
 
ते “मरुतः “स्तुतासः स्तुताः सन्तः “नः अस्मान् “मृळयन्तु सुखयन्तु । “उत अपि च “मघवा । मघमिति धननाम । अस्मद्दातव्यबहुधनेन तद्वानिन्द्रः “स्तुतः “शंभविष्ठः सुखस्य भावयितृतमः सन् अस्मान् मृळयतु । किंच हे “मरुतः “नः अस्माकं “जिगीषा ॥ जिगातेर्गतिकर्मणो जिगीषा ॥ जिगीषितव्यानि प्राप्तव्यानि उत्तरत्रानुभूयमानानि “विश्वा सर्वाणि "अहानि दिवसानि “ऊर्ध्वा उन्नतान्युपर्युपरि श्रिया यशसा वा उत्कृष्टानि “कोम्या काम्यानि स्पृहणीयानि “वनानि सर्वैः संभजनीयानि “सन्तु । जिगीषा जेतुमिष्टानि जेतव्यानि च सन्त्विति वा योज्यम् । एवं कृत्वा मरुत इन्द्रश्च सुखयन्त्वित्यर्थः ।।
 
 
अ॒स्माद॒हं त॑वि॒षादीष॑माण॒ इन्द्रा॑द्भि॒या म॑रुतो॒ रेज॑मानः ।
 
यु॒ष्मभ्यं॑ ह॒व्या निशि॑तान्यास॒न्तान्या॒रे च॑कृमा मृ॒ळता॑ नः ॥
 
अस्मात् । अहम् । तविषात् । ईषमाणः । इन्द्रात् । भिया । मरुतः । रेजमानः ।
 
युष्मभ्यम् । हव्या । निऽशितानि । आसन् । तानि । आरे । चकृम। मृळतं । नः ॥ ४ ॥
 
हे "मरुतः शृणुत । “अहम् “अस्मात् प्रसिद्धात् “तविषात् बलवतः “इन्द्रात् तत्सकाशात् “भिया भीत्या “ईषमाणः पलायमानः पुरतः स्थातुमशक्तः तथा “रेजमानः वेपमानश्चाभवम् । ततश्च किमायातमिति अत आह । यानि “युष्मभ्यं “हव्या हवींषि “निशितानि संस्कृतानि “आसन् “तानि तान्येव “आरे “चकृम । दूरे कृतवन्तो वयमिन्द्रभयात् । अतः “नः अस्मान् अनपराधिनः “मृळत मृळयत सुखयत ।।
 
 
येन॒ माना॑सश्चि॒तय॑न्त उ॒स्रा व्यु॑ष्टिषु॒ शव॑सा॒ शश्व॑तीनाम् ।
 
स नो॑ म॒रुद्भि॑र्वृषभ॒ श्रवो॑ धा उ॒ग्र उ॒ग्रेभि॒ः स्थवि॑रः सहो॒दाः ॥
 
येन । मानासः । चितयन्ते । उस्राः । विऽउष्टिषु । शवसा । शश्वतीनाम् ।।
 
सः । नः । मुरुत्ऽभिः । वृषभ । श्रवः । धाः । उग्रः। उग्रेभिः । स्थविरः । सहःऽदाः ॥५॥
 
हे इन्द्र "येन “शवसा बलभूतेन त्वयानुगृहीताः “मानासः मान्यास्त्वयाभिमानिताः वा “उस्राः रश्मयः “शश्वतीनां नित्यानां बह्वीनामुषसां “व्युष्टिषु सतीषु प्रकाशेषु सत्सु “चितयन्ते चेतयन्ते प्राणिनां स्वस्वव्यवहाराय प्रज्ञापयन्ति । ऐन्द्र्यां दिशि तेनैवानुगृहीता उषसो रश्मय उद्गच्छन्तीति प्रसिद्धम् । हे “वृषभ वर्षितरिन्द्र “सः तादृशस्त्वं “मरुद्भिः सहितः “श्रवो “धाः सर्वत्र श्रूयमाणमन्नं धेहि स्थापय देहीत्यर्थः । कीदृशस्त्वम् । “उग्रः उद्गूर्णबलः “सहोदाः । पराभिभवसामर्थ्यं बलं सहः । तस्य दाता “स्थविरः पुरातनः । कीदृशैर्मरुद्भिः। “उग्रेभिः क्रूरबलैः । एवंमहानुभावः अन्नं देहि ॥
 
 
त्वं पा॑हीन्द्र॒ सही॑यसो॒ नॄन्भवा॑ म॒रुद्भि॒रव॑यातहेळाः ।
 
सु॒प्र॒के॒तेभि॑ः सास॒हिर्दधा॑नो वि॒द्यामे॒षं वृ॒जनं॑ जी॒रदा॑नुम् ॥
 
त्वम् । पाहि । इन्द्र । सहीयसः । नॄन् । भव । मरुत्ऽभिः । अवयातऽहेळाः ।
 
सुऽप्रकेतेभिः । ससहिः । दधानः । विद्याम । इषम् । वृजनम् । जीरऽदानुम् ॥ ६ ॥
 
हे “इन्द्र “त्वं “पाहि रक्ष । कान् । “सहीयसो “नॄन् सहस्वितमान् त्वदनुग्रहेण अतिप्रवृद्धबलान् नेतॄन् मनुष्यानस्मान् मरुतो वा । किंच “मरुद्भिः साकम् अस्मासु “अवयातहेळ: “भव । अपगतमन्युर्भव । मरुत्सु वा तथा भव । किंच “सुप्रकेतेभिः शोभनप्रज्ञानैर्मरुद्भिः सह “सासहिः शत्रूणामभिभविता सन् “दधानः अस्मदभिमतस्य धारयिता भवेति शेषः । शिष्टो व्याख्यातः । ॥११॥
 
 
 
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.१७१" इत्यस्माद् प्रतिप्राप्तम्