"ऋग्वेदः सूक्तं १.१७२" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः २०:
</span></poem>
{{सायणभाष्यम्|
‘चित्रो वः' इति तृचात्मकमष्टमं सूक्तमागस्त्यं मारुतं गायत्रम् । ‘चित्रस्तृचं गायत्रम्' इत्यनुक्रमणिका । लैङ्गिको विशेषविनियोगः ॥
 
 
चि॒त्रो वो॑ऽस्तु॒ याम॑श्चि॒त्र ऊ॒ती सु॑दानवः ।
 
मरु॑तो॒ अहि॑भानवः ॥
 
चित्रः। वः। अस्तु । यामः । चित्रः । ऊती । सुऽदानवः ।
 
मरुतः । अहिऽभानवः ॥१॥
 
हे “मरुतः “वः युष्माकं "यामः अस्मद्यज्ञागमः "चित्रः चायनीयः पूज्यः आश्चर्यभूतो वा “अस्तु भवतु । न केवलमागमनमेव चित्रं किंतु हे “सुदानवः शोभनदानाः हे “अहिभानवः अहीयमानप्रकाशाः युष्माकं संबन्धी “चित्रः स आगमः “ऊती ऊत्यै रक्षणाय इष्टतर्पणाय वा युक्तश्च भवतु । तदागमनं शीघ्रमस्तु अभिमतप्रदं चास्त्वित्यर्थः ॥
 
 
आ॒रे सा व॑ः सुदानवो॒ मरु॑त ऋञ्ज॒ती शरु॑ः ।
 
आ॒रे अश्मा॒ यमस्य॑थ ॥
 
आरे। सा। वः । सुऽदानवः। मरुतः । ऋञ्जती। शरुः ।
आरे। अश्मा। यम् । अस्यथ ॥२॥
 
हे “सुदानवः शोभनदानाः “मरुतः वः युष्माकं संबन्धिनी “ऋञ्जती प्रसाधयन्ती स्वतेजसा स्वात्मानमलंकुर्वती प्रसिद्धिं प्राप्नुवाना वा “सा प्रसिद्धा “शरुः हिंसका ऋष्टिः "आरे दूरे भवतु । तथा “यम् “अस्यथ क्षिपथ सः “अश्मा व्यापकः आयुधविशेषः “आरे। दूरनामैतत् । दूरे भवतु मां न प्राप्नोतु । यद्वा । आरेशब्दः आराच्छब्दपर्यायः । स च दूरे समीपे च वर्तते । अत्र समीपवचनः । यम् अस्मत्तोऽन्यम् अस्यथ तं वैरिणमस्माकमुपलोपमः कठिन आयुधविशेषः आरे समीपं प्राप्नोतु ॥
 
 
तृ॒ण॒स्क॒न्दस्य॒ नु विश॒ः परि॑ वृङ्क्त सुदानवः ।
 
ऊ॒र्ध्वान्न॑ः कर्त जी॒वसे॑ ॥
 
तृणऽस्कन्दस्य। नु। विशः। परि। वृङ्क्त। सुऽदानवः ।
ऊर्ध्वान्। नः। कर्त। जीवसे ॥३॥
 
हे मरुतः “सुदानवः शोभनदानाः यूयं “तृणस्कन्दस्य तृणवत् चलनस्वभावस्य शुष्यमाणस्य वा मम “विशः पुत्रभृत्यादिरूपाः प्रजाः “नु क्षिप्रं “परि “वृङ्क्त परिवर्जयत बाधापरिहारेण रक्षत । यद्वा । उक्तलक्षणकालस्यासुरविशेषस्य वा प्रजाः परिवर्जयत । किंच “नः अस्मान् “ऊर्ध्वान् “कर्त कुरुत “जीवसे चिरजीवनाय ।। ॥ १२ ॥
 
 
}}
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.१७२" इत्यस्माद् प्रतिप्राप्तम्