"ऋग्वेदः सूक्तं १.१८१" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ११:
{{ऋग्वेदः मण्डल १}}
<poem><span style="font-size: 14pt; line-height: 200%">
कदु प्रेष्टाविषांप्रेष्ठाविषां रयीणामध्वर्यन्ता यदुन्निनीथो अपाम् ।
अयं वां यज्ञो अकृत प्रशस्तिं वसुधिती अवितारा जनानाम् ॥१॥
आ वामश्वासः शुचयः पयस्पा वातरंहसो दिव्यासो अत्याः ।
पङ्क्तिः ३३:
 
{{सायणभाष्यम्|
‘कदु प्रेष्ठौ ' इति नवर्चं द्वितीयं सूक्तमागस्त्यं त्रैष्टुभमाश्विनम् । ‘कदु नव' इत्यनुक्रान्तम् ॥ प्रातरनुवाकाश्विनशस्त्रयोर्विनियोगः पूर्वसूक्ते एव उक्तः ॥
कदु॒ प्रेष्टा॑वि॒षां र॑यी॒णाम॑ध्व॒र्यन्ता॒ यदु॑न्निनी॒थो अ॒पाम् ।
 
 
कदु॒ प्रेष्टा॑वि॒षांप्रेष्ठावि॒षां र॑यी॒णाम॑ध्व॒र्यन्ता॒ यदु॑न्निनी॒थो अ॒पाम् ।
 
अ॒यं वां॑ य॒ज्ञो अ॑कृत॒ प्रश॑स्तिं॒ वसु॑धिती॒ अवि॑तारा जनानाम् ॥
 
कत् । ऊँ इति । प्रेष्ठौ । इषाम् । रयीणाम् । अध्वर्यन्ता । यत् । उत्ऽनिनीथः । अपाम् ।
 
अयम् । वाम् । यज्ञः। अकृत। प्रशस्तिम्। वसुधिती इति वसुऽधिती । अवितारा। जनानाम् ॥१॥
 
हे अश्विनौ "प्रेष्ठौ प्रियतमौ वां युवां “कदु कदा भविष्यति' “इषाम् इष्यमाणानामन्नानां “रयीणां धनानाम् ॥ कर्मणि षष्ठ्यौ । अन्नानि धनानि च “उन्निनीथः ऊर्ध्वं प्रापयथः “अध्वर्यन्ता अध्वरं पारयितुमिच्छन्तौ युवाम् “अपां वृष्ट्युदकानां वृष्ट्युदकानि च उन्निनीथः उत्कृष्टम् अधः प्रापयथ इति “यत् तत्कदा । कस्मादेवमुच्यते इति उच्यते । “अयं “यज्ञः अस्माभिरनुष्ठीयमानः “वां युवयोरेव “प्रशस्ति प्रशंसां स्तुतिम् “अकृत करोति । यज्ञे शंसनीयानि शस्त्राणि युवामेव प्रशंसन्तीत्यर्थः । यस्मादेवं तस्मात् हे "वसुधिती वसुनो धनस्य धातारौ वस्तव्यकर्माणौ तथा हे “जनानाम् “अवितारौ उक्तलक्षणौ युवा कदा अन्नानां धनानां च दातारौ भवथ इति ॥
 
 
आ वा॒मश्वा॑स॒ः शुच॑यः पय॒स्पा वात॑रंहसो दि॒व्यासो॒ अत्या॑ः ।
 
म॒नो॒जुवो॒ वृष॑णो वी॒तपृ॑ष्ठा॒ एह स्व॒राजो॑ अ॒श्विना॑ वहन्तु ॥
 
आ। वाम् । अश्वासः । शुचयः । पयःऽपाः । वातऽरंहसः । दिव्यासः । अत्याः ।
 
मनःऽजुवः । वृषणः । वीतऽपृष्ठाः । आ । इह । स्व॒ऽराजः । अश्विना । वहन्तु ॥ २ ॥
 
अश्विनौ शोभनाश्वयुक्तौ "वां युवाम् “अश्वासः युष्मदीयाः “इह अस्मिन् यज्ञे “आ “वहन्तु प्रापयन्तु । अवशिष्टानि अश्वविशेषणानि । कीदृशास्ते । “शुचयः शुद्धा दीप्ता वा “पयस्पाः वृष्ट्युदकस्य पातारः “वातरंहसः वायुवेगाः दिव्याः दिविभवाः “अत्याः अतनशीलाः “मनोजुवः मनोजवाः “वृषणः वर्षकाः युवान इत्यर्थः । “वीतपृष्ठाः कान्तपृष्ठाः वपुष्मन्त इत्यर्थः । “स्वराजः स्वयमेव राजमानाः। ईदृशा भवन्तु ॥
 
 
आ वां॒ रथो॒ऽवनि॒र्न प्र॒वत्वा॑न्सृ॒प्रव॑न्धुरः सुवि॒ताय॑ गम्याः ।
 
वृष्ण॑ः स्थातारा॒ मन॑सो॒ जवी॑यानहम्पू॒र्वो य॑ज॒तो धि॑ष्ण्या॒ यः ॥
 
आ। वाम् । रथः । अवनिः । न । प्रवत्वान् । सृप्रऽवन्धुरः । सुविताय । गम्याः ।
 
वृष्णः । स्थातारा । मनसः । जवीयान् । अहम्ऽपूर्वः । यजतः । धिष्ण्या । यः ॥ ३ ॥
 
पूर्वमन्त्रेऽश्वव्याजेन अश्विनोरागमनमुक्तम् । अनेन रथव्याजेनोच्यते । हे “धिष्ण्या उन्नतस्थानार्हौ “स्थातारा स्वरथाधिष्ठानौ "वां युवयोः “यः “रथः अस्ति सः “सुविताय शोभनफलाय “आ “गम्याः अस्मद्यज्ञमागच्छतु ॥ पुरुषव्यत्ययः ॥ कीदृशो रथ इति स विशेष्यते । “अवनिर्न “प्रवत्वान् भूमिरिवात्यन्तविस्तारवान् "सृप्रवन्धुरः विस्तीर्णपुरोभागः “वृष्णः वर्षकस्याश्वस्य “मनसः अपि “जवीयान् मनोवेगवानित्यर्थः । “अहंपूर्वः अहंकारपूर्वो मनस्वी वा अत्युदारः “यजतः यष्टव्यः । ईदृशो रथ आगच्छतु ।।
 
 
इ॒हेह॑ जा॒ता सम॑वावशीतामरे॒पसा॑ त॒न्वा॒३॒॑ नाम॑भि॒ः स्वैः ।
 
जि॒ष्णुर्वा॑म॒न्यः सुम॑खस्य सू॒रिर्दि॒वो अ॒न्यः सु॒भग॑ः पु॒त्र ऊ॑हे ॥
 
इहऽइह । जाता । सम् । अवावशीताम् । अरेपसा । तन्वा । नामऽभिः । स्वैः ।
 
जिष्णुः । वाम् । अन्यः । सुऽमखस्य । सूरिः । दिवः । अन्यः । सुऽभगः । पुत्रः । ऊहे ॥४॥
 
हे अश्विनौ युवां “समवावशीताम् । सह सम्यग्वा पुनःपुनः स्तूयेथे कामयेथां वा यज्ञम् ॥ पुरुषव्यत्ययः ॥ कीदृशौ युवाम् । “इहेह “जाता । उभाभ्यामिहशब्दाभ्यां मध्यमोत्तमस्थाने उच्येते । तयोः संभूतौ । चन्द्रसूर्येण इति यावत् । “ सूर्याचन्द्रमसावित्येके ' ( निरु. १२. १ ) इति निरुक्तम् । “अरेपसा अपापौ । आथर्वणस्य गुरोः शिरश्छेदनादिना पापलेपरहिताविति भावः । ‘आथर्वणायाश्विना दधीचेऽयं शिरः प्रत्यैरयतम् ' ( ऋ. सं. १. ११७. २२ ) इत्यादिमन्त्रवर्णात् । केन हेतुनेति उच्यते । “तन्वा शरीरेण शरीरसौन्दर्येण निमित्तेन “स्वैः “नामभिः स्वीयैर्माहात्म्यविशिष्टैश्विनौ नासत्यावित्यादिभिरपि । रमणीयशरीरवत्त्वान्महिमोपेतनामवत्त्वाच्च हेतोः संस्तूयेथे इत्यर्थः । यद्वा । अरेपसा तन्वेति योज्यम् । उक्तप्रकारेण गुरुशिरश्छेदादप्यपापेन शीर्षेण तादृङ्महत्त्व ख्यापनेनेति यावत् । किंच “वां युवयोः “अन्यः एको मध्यमस्यान्तरिक्षस्य पुत्रस्थानीयः सोमः “जिष्णुः जयशीलः “सुमखस्य शोभनयज्ञस्य “सूरिः प्रेरयिता सन् “ऊहे वहति विश्वं जगद्धारयति । चन्द्रात्मनस्तस्योदये सति ह्योषधिवनस्पत्यादयो वर्धन्ते । “अन्यः अपरः उत्तमस्थानः “दिवः द्युलोकस्य “पुत्रः पुत्रस्थानीय आदित्यः “सुभगः शोभनरश्मिरूपधनः ऊहे वहति । कृत्स्नमेवं पृथग्जगन्निर्वाहकौ महानुभावौ युवां सह स्तूयेथे । अन्न निरुक्तम्-' इहेह जातौ संस्तूयेथे पापेनालिप्यमानया तन्वा नामभिश्च स्वैर्जिष्णुर्वामन्यः सुमहतो बलस्येरयिता मध्यमो दिवोऽन्यः सुभगः पुत्र उह्यत आदित्यः ' (निरु. १२. ३ ) इति ॥
 
 
प्र वां॑ निचे॒रुः क॑कु॒हो वशाँ॒ अनु॑ पि॒शङ्ग॑रूप॒ः सद॑नानि गम्याः ।
 
हरी॑ अ॒न्यस्य॑ पी॒पय॑न्त॒ वाजै॑र्म॒थ्रा रजां॑स्यश्विना॒ वि घोषै॑ः ॥
 
प्र । वाम् । निऽचेरुः । ककुहः । वशान् । अनु । पिशङ्गऽरूपः । सदनानि । गम्याः ।
 
हरी इति । अन्यस्य । पीपयन्त । वाजैः । मथ्ना । रजांसि । अश्विना । वि । घोषैः ॥५॥
 
हे “अश्विना अश्विनौ “वां युवयोर्मध्ये अन्यस्य एकस्य “ककुहः श्रेष्ठः “पिशङ्गरूपः हिरण्यरूपः पीतवर्णो वा बहुभिरक्षाद्यवयवैर्निरूप्यमाणो वा रथः “वशान् अनु कामाननुलक्ष्य यथाकामम् । अस्मद्यज्ञागमनेच्छयेत्यर्थः । यद्वा । वशान्स्वाधीनाः ककुहो दिशो दिगन्तरालानुक्रमेण नीचैरुच्चैश्चरन् स्वस्थानाद्देवयजनमुखं गच्छन् । “सदनानि अस्मद्यागगृहाणि “प्र “गम्याः प्रकर्षेण गच्छतु॥ पुरुषव्यत्ययः ॥ अत्र यद्यप्यन्यस्येति नोक्तं तथाप्युत्तरवाक्ये तथोक्तत्वादत्रापि लभ्यते । “अन्यस्य युवयोरन्यतमस्य “हरी अश्वौ "रजांसि लोकाः । अत्र लोकशब्दो जनवाचकः । ते यजमानरूपा जनाः इत्यर्थः । ते च “मथ्ना प्रमथनेनालोडनेन निष्पादितैः "वाजैः अन्नैरामिक्षादिरूपैः “घोषैः स्तुतिभिश्च आह्वानादिशब्दविशिष्टैर्वा “पीपयन्त आप्याययन्ति ॥ ॥ २५ ॥
 
 
प्र वां॑ श॒रद्वा॑न्वृष॒भो न नि॒ष्षाट् पू॒र्वीरिष॑श्चरति॒ मध्व॑ इ॒ष्णन् ।
 
एवै॑र॒न्यस्य॑ पी॒पय॑न्त॒ वाजै॒र्वेष॑न्तीरू॒र्ध्वा न॒द्यो॑ न॒ आगु॑ः ॥
 
प्र। वाम् । शरत्ऽवान्। वृषभः । न । निष्षाट्। पूर्वीः । इषः । चरति। मध्वः । इष्णन् ।
 
एवैः । अन्यस्य । पीपयन्त । वाजैः । वेषन्तीः । ऊर्ध्वाः । नद्यः । नः । आ । अगुः ॥६॥
 
हे अश्विनौ युवयोरन्यतमो मध्यमस्थानः "शरद्वान् शरणवान् मेघवृक्षपर्णादीनां विशरणवान् । अथवा बहुसंवत्सरः पूर्वतनो नित्य इत्यर्थः । “वृषभो “न वर्षितैवेन्द्रः। स इव शत्रूणां “निष्षाट् निःसारयिता सन् "पूर्वीः बह्वीः पुरातनीर्वा “इषः अन्नानि सस्यादीन्युद्दिश्य “प्र “चरति प्रकर्षेण गच्छति । मध्यमस्थानश्चन्द्रः इति पक्षे शरद्वाञ्छरत्कालवान् । तस्मिन् ऋतौ हि चन्द्रः संनद्धः भवति । तेन च तृणगुल्मौषध्यादीनि वर्धन्ते । स किमर्थमेवं करोतीति उच्यते । “मध्व “इष्णन् मधुनो मधुसदृशस्य हविषः । कर्मणि षष्ठी ॥ हविरिच्छन् । तदर्थमेवं करोति । तथा “अन्यस्य उत्तमादित्यस्य “एवैः कामैर्गमनैर्वा निमित्तभूतैः “पीपयन्त आप्याययन्ति हविर्भिर्यजमानाः । तुष्टेन तेन प्रेरिताः “वेषन्तीः व्यापयन्तीः “ऊर्ध्वाः उन्नताः उत्तीराः “नद्यः न नदनशीला यथा “नः अस्मदर्थम् “आगुः आगच्छन्ति ।।
 
 
अस॑र्जि वां॒ स्थवि॑रा वेधसा॒ गीर्बा॒ळ्हे अ॑श्विना त्रे॒धा क्षर॑न्ती ।
 
उप॑स्तुताववतं॒ नाध॑मानं॒ याम॒न्नया॑मञ्छृणुतं॒ हवं॑ मे ॥
 
असर्जि । वाम् । स्थविरा । वेधसा । गीः । बाळ्हे । अश्विना । त्रेधा । क्षरन्ती ।
 
उपऽस्तुतौ । अवतम् । नाधमानम् । यामन् । अयामन् । शृणुतम् । हवम् । मे ॥ ७ ॥
 
हे वेधसा विधातारावश्विनौ “वां युवयोः "बाळ्हे दृढे स्थैर्ये निमित्तभूते सति “गीः स्तुतिरूपा वाक् “असर्जि सृज्यते। कीदृशी सा । “स्थविरा अत्यन्त स्थिरा नित्या वेदमयी “त्रेधा मन्त्रादिभेदेन त्रिप्रकारा “क्षरन्ती युवां गच्छन्ती । ईदृशी स्तुतिः कृतेत्यर्थः । तथा “उपस्तुतौ सन्तौ “नाधमानम् अभिमतफलं याचमानम् “अवतं रक्षतं तर्पयतं वा । किंच “यामन् गमने “अयामन् अगमने च “हवम् आह्वानं “शृणुतम् ॥
 
 
उ॒त स्या वां॒ रुश॑तो॒ वप्स॑सो॒ गीस्त्रि॑ब॒र्हिषि॒ सद॑सि पिन्वते॒ नॄन् ।
 
वृषा॑ वां मे॒घो वृ॑षणा पीपाय॒ गोर्न सेके॒ मनु॑षो दश॒स्यन् ॥
 
उत । स्या । वाम् । रुशतः । वप्ससः । गीः । त्रिऽबर्हिषि । सदसि । पिन्वते । नॄन् ।
 
वृषा । वाम् । मेघः । वृषणा । पीपाय । गोः । न । सेके। मनुषः । दशस्यन् ॥ ८ ॥
हे अश्विनौ “वां युवयोः रुशतः दीप्तस्य “वप्ससः रूपस्यैव वपुषो वा ख्यापयित्री “गीः स्तुतिवाक् त्रिबर्हिषि त्रिधात्वास्तीर्णबर्हिष्के “सदसि यागसदने "नॄन् कर्मनेतॄनस्मान् "पिन्वते आप्याययति आप्याययतु वा उचितप्रदानादिना । केन प्रकारेण उच्यते । हे “वृषणा वर्षितारौ कामानां “वां युवयोः स्वभूतः “मेघः सेक्ता जलदः प्रदानविशेषो वा “वृषा वर्षकः सन् 'मनुषः मनुष्यान् प्रति “दशस्यन् प्रयच्छन् “पीपाय आप्याययति । आप्यायने दृष्टान्तः । “गोर्न “सेके उदकसेके इव शांतनात् सेके उदकस्येव । तद्यथा आप्याययति तद्वदित्यर्थः । यद्वा । नेति संप्रत्यर्थे । गोः उदकस्य सेके निमित्तभूते सति पीपायेति संबन्धः ॥
 
 
यु॒वां पू॒षेवा॑श्विना॒ पुरं॑धिर॒ग्निमु॒षां न ज॑रते ह॒विष्मा॑न् ।
 
हु॒वे यद्वां॑ वरिव॒स्या गृ॑णा॒नो वि॒द्यामे॒षं वृ॒जनं॑ जी॒रदा॑नुम् ॥
 
युवाम् । पूषाऽइव । अश्विना । पुरम्ऽधिः । अग्निम् । उषाम् । न । जरते। हविष्मान् ।
 
हुवे । यत् । वाम् । वरिवस्या । गृणानः । विद्याम । इषम् । वृजनम् । जीरऽदानुम् ॥९॥
 
हे अश्विनौ "युवां “पुरंधिः बहुप्रज्ञः पूषेव पोषक इव “हविष्मान् हविर्युक्तः "जरते स्तौति । यद्वा । पुरंधिर्बहूनां धारयित्री पूषेव पृथिवीव ॥ द्वितीयार्थे प्रथमा ॥ तां यथा स्तौति तद्वत् । किमिव "अग्निमुषां “न । अग्निमुषसं च यथा तथा युवामपि । प्रातरनुवाकाश्विनशस्त्रयोः आश्विनक्रतुवत् आग्नेयोषस्ययोरपि सद्भावादिति भावः । कदेति आह । “यत् यदा "वरिवस्या वरिवस्यया परिचर्यया युक्तः “गृणानः स्तोता स्तौति तदा यजमानोऽपि जरते इत्यर्थः । विद्यामेत्यादि गतम् ॥ ॥२३॥
 
 
 
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.१८१" इत्यस्माद् प्रतिप्राप्तम्