"ऋग्वेदः सूक्तं १.१८२" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ४६:
 
{{सायणभाष्यम्|
‘अभूदिदम्' इत्यष्टर्चं तृतीयं सूक्तम् आश्विनं जागतम् । “ अवविद्धम्' इति षष्ठी ‘तद्वां नरा नासत्यौ' इत्यष्टमी च उभे त्रिष्टुभौ । ‘अभूदिदमष्टौ षष्ठ्यन्त्ये त्रिष्टुभौ' इत्यनुक्रमणिका । प्रातरनुवाकाश्विनशस्त्रयोर्जागते छन्दस्यस्य विनियोगः । तथा च सूत्रितम्- ‘अभूदिदं यो वां परिज्मेति त्रीणि ( आश्व. श्रौ. ४. १५ ) इति ॥ ।
 
 
अभू॑दि॒दं व॒युन॒मो षु भू॑षता॒ रथो॒ वृष॑ण्वा॒न्मद॑ता मनीषिणः ।
 
धि॒यं॒जि॒न्वा धिष्ण्या॑ वि॒श्पला॑वसू दि॒वो नपा॑ता सु॒कृते॒ शुचि॑व्रता ॥
 
अभूत् । इदम् । वयुनम् । ओ इति । सु । भूषत । रथः । वृषण्वान् । मदत । मनीषिणः ।
 
धियम्ऽजिन्वा । धिष्ण्या । विश्पलावसू इति । दिवः । नपाता। सुऽकृते । शुचिऽव्रता ॥१।।
 
इन्द्र॑तमा॒ हि धिष्ण्या॑ म॒रुत्त॑मा द॒स्रा दंसि॑ष्ठा र॒थ्या॑ र॒थीत॑मा ।
 
पू॒र्णं रथं॑ वहेथे॒ मध्व॒ आचि॑तं॒ तेन॑ दा॒श्वांस॒मुप॑ याथो अश्विना ॥
 
किमत्र॑ दस्रा कृणुथ॒ः किमा॑साथे॒ जनो॒ यः कश्चि॒दह॑विर्मही॒यते॑ ।
 
अति॑ क्रमिष्टं जु॒रतं॑ प॒णेरसुं॒ ज्योति॒र्विप्रा॑य कृणुतं वच॒स्यवे॑ ॥
 
ज॒म्भय॑तम॒भितो॒ राय॑त॒ः शुनो॑ ह॒तं मृधो॑ वि॒दथु॒स्तान्य॑श्विना ।
 
वाचं॑वाचं जरि॒तू र॒त्निनीं॑ कृतमु॒भा शंसं॑ नासत्यावतं॒ मम॑ ॥
 
यु॒वमे॒तं च॑क्रथु॒ः सिन्धु॑षु प्ल॒वमा॑त्म॒न्वन्तं॑ प॒क्षिणं॑ तौ॒ग्र्याय॒ कम् ।
 
येन॑ देव॒त्रा मन॑सा निरू॒हथु॑ः सुपप्त॒नी पे॑तथु॒ः क्षोद॑सो म॒हः ॥
 
अव॑विद्धं तौ॒ग्र्यम॒प्स्व१॒॑न्तर॑नारम्भ॒णे तम॑सि॒ प्रवि॑द्धम् ।
 
चत॑स्रो॒ नावो॒ जठ॑लस्य॒ जुष्टा॒ उद॒श्विभ्या॑मिषि॒ताः पा॑रयन्ति ॥
 
कः स्वि॑द्वृ॒क्षो निष्ठि॑तो॒ मध्ये॒ अर्ण॑सो॒ यं तौ॒ग्र्यो ना॑धि॒तः प॒र्यष॑स्वजत् ।
 
प॒र्णा मृ॒गस्य॑ प॒तरो॑रिवा॒रभ॒ उद॑श्विना ऊहथु॒ः श्रोम॑ताय॒ कम् ॥
 
तद्वां॑ नरा नासत्या॒वनु॑ ष्या॒द्यद्वां॒ माना॑स उ॒चथ॒मवो॑चन् ।
 
अ॒स्माद॒द्य सद॑सः सो॒म्यादा वि॒द्यामे॒षं वृ॒जनं॑ जी॒रदा॑नुम् ॥
 
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.१८२" इत्यस्माद् प्रतिप्राप्तम्