"ऋग्वेदः सूक्तं १.१८३" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ३३:
 
येनो॑पया॒थः सु॒कृतो॑ दुरो॒णं त्रि॒धातु॑ना पतथो॒ विर्न प॒र्णैः ॥
 
तम् । युञ्जाथाम् । मनसः । यः । जवीयान् । त्रिऽवन्धुरः । वृषणा । यः । त्रिऽचक्रः ।
 
येन । उपऽयाथः । सुऽकृतः । दुरोणम् । त्रिऽधातुना । पतथः । विः । न । पर्णैः ॥ १ ॥
 
हे "वृषणा वर्षकौ कामानां युवां "तं वक्ष्यमाणगुणविशिष्टं रथं "युञ्जाथां योजयतम् । तमित्युक्तं कमित्याह । "यः रथः "त्रिवन्धुरः त्रिप्रकारसारथिस्थानः । वन्धुरं रथिनः स्थानमित्याहुः । ‘आ याह्यर्वाङुप वन्धुरेष्ठाः' ( ऋ. सं. ३. ४३. १ ) इत्यादिमन्त्रान्तरात् । "यः च "त्रिचक्रः चक्रत्रितयोपेतः । पुनः स एव विशेष्यते । "येन रथेन “उपयाथः उपगच्छथः । किम् । 'सुकृतः शोभनसोमाख्यकर्मवतो यजमानस्य “दुरोणम् । गृहनामैतत् । यागगृहम् । येनेत्युक्तं केनेत्याह । “त्रिधातुना त्रिप्रकारस्थानोपेतेन सुवर्णरजतताम्रधातुत्रयोपेतेन वा रथेन । गमने दृष्टान्तः। "विर्न "पर्णैः पक्षी पक्षैर्यथा शीघ्रमप्रयत्नेन गच्छति तद्वदुक्तलक्षणेन रथेन “पतथः गच्छथः ॥
 
 
सु॒वृद्रथो॑ वर्तते॒ यन्न॒भि क्षां यत्तिष्ठ॑थ॒ः क्रतु॑म॒न्तानु॑ पृ॒क्षे ।
 
वपु॑र्वपु॒ष्या स॑चतामि॒यं गीर्दि॒वो दु॑हि॒त्रोषसा॑ सचेथे ॥
 
सुऽवृत् । रथः । वर्तते । यन् । अभि । क्षाम् । यत् । तिष्ठथः । क्रतुऽमन्ता। अनु । पृक्षे।
 
वपुः । वपुष्या। सचताम् । इयम् । गीः । दिवः । दुहित्रा । उषसा । सचेथे इति ॥ २ ॥
 
हे अश्विनौ युवयोः "रथः सुवृत् शोभनवर्तनः शोभनचक्रपरिभ्रमणः “यन् गच्छन् "क्षाम् “अभि “वर्तते देवयजनभूमिं प्रति गच्छति । "यत् यं रथं “क्रतुमन्ता संकल्पवन्तौ कर्मवन्तौ वा "पृक्षे। अन्ननामैतत् । हविषि निमित्तभूते सति । "अनु अधीत्यर्थे । अधि “तिष्ठथः आश्रयथः। तादृशो रथो देवयजनं प्रत्यागत इत्यर्थः । अनन्तरं “वपुष्या युष्मद्वपुषि हिता शरीरवर्धनी “इयं "गीः इदानीं क्रियमाणप्रकारा स्तुतिरूपा वाक् "वपुः "सचताम् । युवां च "दिवः द्युलोकस्य आदित्यस्य वा “दुहित्रा दुहितृस्थानीयया "उषसा उषोदेवतया "सचेथे यज्ञं संगच्छेथे। उषस्याश्विनयोः समानकालत्वादिति भावः ॥
 
 
आ ति॑ष्ठतं सु॒वृतं॒ यो रथो॑ वा॒मनु॑ व्र॒तानि॒ वर्त॑ते ह॒विष्मा॑न् ।
 
येन॑ नरा नासत्येष॒यध्यै॑ व॒र्तिर्या॒थस्तन॑याय॒ त्मने॑ च ॥
 
आ। तिष्ठतम् । सुऽवृतम् । यः । रथः । वाम् । अनु । व्रतानि । वर्तते । हविष्मान् ।
 
येन । नरा । नासत्या । इषयध्यै । वर्तिः । याथः । तनयाय । त्मने । च ।। ३ ॥
 
हे अश्विनौ "वां युवां "सुवृतं शोभनवर्तनं रथम् “आ “तिष्ठतम् आश्रयतम् । "यो "रथः “हविष्मान् । षष्ठ्यर्थे प्रथमा । हविष्मतो यजमानस्य “व्रतानि कर्माणि "अनु "वर्तते । यद्वा । यजमानाय दत्तहविषा तद्वान् । "येन च रथेन हे "नरा नेतारौ वा हे "नासत्या असत्यरहितौ युवाम् “इषयध्यै यज्ञं प्राप्तुमिच्छतमिति शेषः । तेन रथेन "वर्तिः । गृहनामैतत् । यजमानस्य यज्ञगृहं “तनयाय पुत्रलाभाय “त्मने आत्मने आत्महिताय "च "याथः ।।
 
 
मा वां॒ वृको॒ मा वृ॒कीरा द॑धर्षी॒न्मा परि॑ वर्क्तमु॒त माति॑ धक्तम् ।
 
अ॒यं वां॑ भा॒गो निहि॑त इ॒यं गीर्दस्रा॑वि॒मे वां॑ नि॒धयो॒ मधू॑नाम् ॥
 
मा। वाम् । वृकः । मा । वृकीः । आ । दधर्षीत् । मा । परि । वर्क्तम् । उत। मा। अति । धक्तम् ।।
 
अयम् । वाम् । भागः । निऽहितः । इयम् । गीः । दस्रौ । इमे । वाम् । निऽधयः । मधूनाम् ॥४॥
 
हे "दस्रौ शत्रूणामुपक्षपयितारावश्विनौ "वां युवयोः अनुग्रहादिति शेषः । "वृकः हिंसकः अरण्यश्वादिः "मा “दधर्षीत् माम् । तथा “वृकीः वृक्यो हिंसिका अन्य अपि "मा दधर्षीत् ॥ वचनव्यत्ययः ।। धर्षणं मा कार्षुः । युवामेव वा मा दधर्षीदिति योज्यम् । तथा युवां "मा "परि "वर्क्त परितो मा वर्जयतं माम् । "उत अपि च "माति “धक्तम् अस्मानतिक्रम्य अन्यस्मै मा दत्तम् । किमर्थमेवमिति उच्यते । “वां युवयोरर्थाय "अयं "भागः भजनीयो हविरंशः "निहितः। तथा “इयं च "गीः स्तुतिरूपा वागपि निहितेति शेषः । हे दस्रावश्विनौ “वां युवाभ्याम् “इमे इमानि "मधूनां सोमरसानां “निधयः निधानानि स्थापितानि ।।
 
 
यु॒वां गोत॑मः पुरुमी॒ळ्हो अत्रि॒र्दस्रा॒ हव॒तेऽव॑से ह॒विष्मा॑न् ।
 
दिशं॒ न दि॒ष्टामृ॑जू॒येव॒ यन्ता मे॒ हवं॑ नास॒त्योप॑ यातम् ॥
 
युवाम् । गोतमः । पुरुऽमीळ्हः । अत्रिः । दस्रा । हवते । अवसे । हविष्मान् ।
 
दिशम् । न । दिष्टाम् । ऋजुयाऽइव । यन्ता । आ । मे। हवम् । नासत्या। उप । यातम् ॥५॥
 
हे "दस्रा दस्रावश्विनौ "युवां "गोतमः च "पुरुमीळ्हः च "अत्रिः च महर्षयश्च एतेषु एकैकः "हविमान् सन् "अवसे रक्षणाय युष्मत्तर्पणाय वा "हवते आह्वयति । एवमहमप्याह्वयामि । फलसाधनाह्वाने दृष्टान्तः। "यन्ता उपगन्ता उपगन्तुकामः “ऋजूयेव ॥ द्वितीयाया अकारः ।। ऋजुगामिनं मार्गज्ञं “दिष्टां “दिशं "न गन्तव्यामभिमतां दिशं प्रति यथा तथा वामपि । यथा अध्वगामी स्वगन्तव्यस्य शीघ्रगमनाय मार्गज्ञमृजुगामिनमाह्वयति तद्वत् । यद्वा । ऋजूयेव । इवशब्द एवार्थे । गन्ता ऋजुनैव मार्गेण इष्टां दिशमिव तथा युष्मत्प्रीणनेन मार्गेण स्वाभिमतं फलं प्राप्नोति । हे नासत्यावश्विनौ "मे मम "हवम् आह्वानमालक्ष्य “उप "यातम् उपगच्छतम् ॥
 
 
अता॑रिष्म॒ तम॑सस्पा॒रम॒स्य प्रति॑ वां॒ स्तोमो॑ अश्विनावधायि ।
 
एह या॑तं प॒थिभि॑र्देव॒यानै॑र्वि॒द्यामे॒षं वृ॒जनं॑ जी॒रदा॑नुम् ॥
 
अतारिष्म । तमसः । पारम् । अस्य । प्रति । वाम् । स्तोमः । अश्विनौ । अधायि ।
 
आ। इह । यातम्। पथिऽभिः । देवऽयानैः । विद्याम । इषम् । वृजनम् । जीरऽदानुम् ॥६॥
 
हे अश्विनौ युवयोः प्रसादात् "अस्य “तमसः तमनहेतोः श्रेयःप्रतिबन्धरूपस्य दुःखस्य "पारं पर्यन्तभूमिम् "अतारिष्म उत्तीर्णाः स्मः । हे "अश्विनौ “वां “प्रति "स्तोमः स्तोत्रम् "अधायि अकारीत्यर्थः । युवां "देवयानैः देवगन्तव्यैर्मार्गैः "इह अस्मद्यज्ञे "आ "यातम् आगच्छतम् । शिष्टो व्याख्यातः ॥ ॥ २९ ॥
 
वेदार्थस्य प्रकाशेन तमो हार्दं निवारयन् ।
 
पुमर्थाश्चतुरो देयाद्विद्यातीर्थमहेश्वरः ॥
 
इति श्रीमद्राजाधिराजपरमेश्वरवैदिकमार्गप्रवर्तकश्रीवीरबुक्कभूपालसाम्राज्यधुरंधरेण सायणाचार्येण विरचिते माधवीये वेदार्थप्रकाशे
ऋक्संहिताभाष्ये द्वितीयाष्टके चतुर्थोऽध्यायः समाप्तः ॥
 
 
 
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.१८३" इत्यस्माद् प्रतिप्राप्तम्