"ऋग्वेदः सूक्तं १.१७७" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः २४:
</span></poem>
{{सायणभाष्यम्|
‘ आ चर्षणिप्राः' इति पञ्चर्चं त्रयोदशं सूक्तमागस्त्यमैन्द्रं त्रैष्टुभम् । ‘आ चर्षणिप्राः पञ्च' इत्यनुक्रमणिका । होत्रकशस्त्रेषु स्तोमवृद्धावस्य विशेषविनियोगः । ‘ ऐन्द्राणि त्रैष्टुभान्यमरुच्छब्दान्यावपेरन् ' ( आश्व. श्रौ. ७. १२ ) इति सूत्रितत्वात् ॥
 
 
आ च॑र्षणि॒प्रा वृ॑ष॒भो जना॑नां॒ राजा॑ कृष्टी॒नां पु॑रुहू॒त इन्द्र॑ः ।
 
स्तु॒तः श्र॑व॒स्यन्नव॒सोप॑ म॒द्रिग्यु॒क्त्वा हरी॒ वृष॒णा या॑ह्य॒र्वाङ् ॥
 
आ । चर्षणिऽप्राः । वृषभः । जनानाम् । राजा । कृष्टीनाम् । पुरुऽहूतः । इन्द्रः ।
 
स्तुतः । श्रवस्यन् । अव॑सा । उप । मद्रिक् । युक्त्वा । हरी इति । वृषणा । आ । याहि । अर्वाङ् ॥ १ ॥
 
अयम् “इन्द्रः “चर्षणिप्राः । चर्षणयो मनुष्याः । तेषां धनादिना प्रीणयिता । “जनानां सर्वेषां “वृषभः कामानां वर्षिता । तथा "कृष्टीनाम् । मनुष्यनामैतत् । मनुष्याणां “राजा स्वामी “पुरुहूतः बहुभिराहूतः । ईदृश इन्द्रोऽस्मानाजानातु आगच्छतु वा । उत्तरार्धः परोक्षवादः । हे इन्द्र “स्तुतः अस्माभिः “श्रवस्यन् हविर्लक्षणान्नमिच्छन् “अवसा अस्मद्रक्षणेन तर्पणेन वा युक्तः सन् “मद्रिक मदभिमुखमञ्चन् “वृषणा वर्षकौ युवानौ “हरी अश्वौ युक्त्वा रथे योजयित्वा “अर्वाङ् अस्मदभिमुखम् “आ “याहि आगच्छ ॥
 
 
ये ते॒ वृष॑णो वृष॒भास॑ इन्द्र ब्रह्म॒युजो॒ वृष॑रथासो॒ अत्या॑ः ।
 
ताँ आ ति॑ष्ठ॒ तेभि॒रा या॑ह्य॒र्वाङ्हवा॑महे त्वा सु॒त इ॑न्द्र॒ सोमे॑ ॥
 
ये । ते । वृषणः । वृषभासः । इन्द्र । ब्रह्मऽयुजः । वृषऽरथासः । अत्याः ।
 
तान्। आ । तिष्ठ। तेभिः । आ। याहि । अर्वाङ् । हवामहे । त्वा । सुते । इन्द्र । सोमे ॥ २ ॥
 
हे "इन्द्र “ते तव संबन्धिनः “वृषणः वर्षका युवानो वर्षणवन्तो वा “वृषभासः श्रेष्ठाः “ब्रह्मयुजः परिवृढेन मन्त्रेण युज्यमानाः “वृषरथासः वर्षणरथवन्तः । तत्र नियुक्ता इत्यर्थः । ईदृशाः “अत्याः अश्वा "ये सन्ति “तान् आ “तिष्ठ आश्रय आरोह । “तेभिः तैः “अर्वाङ् अस्मदभिमुखम् “आ “याहि आगच्छ । वयं च हे “इन्द्र “सोमे "सुते सति “त्वा त्वां हवामहे आह्वयामः ॥
 
 
आ ति॑ष्ठ॒ रथं॒ वृष॑णं॒ वृषा॑ ते सु॒तः सोम॒ः परि॑षिक्ता॒ मधू॑नि ।
 
यु॒क्त्वा वृष॑भ्यां वृषभ क्षिती॒नां हरि॑भ्यां याहि प्र॒वतोप॑ म॒द्रिक् ॥
 
आ । तिष्ठ । रथम् । वृषणम् । वृषा । ते । सुतः । सोमः । परिऽसिक्ता । मधूनि ।
 
युक्त्वा । वृषऽभ्याम् । वृषभ । क्षितीनाम् । हरिऽभ्याम् । याहि । प्रऽवता । उप । मद्रिक् ॥३॥
 
हे इन्द्र त्वं “रथम् “आ “तिष्ठ आश्रय यज्ञगमनार्थम् । कीदृशं रथम् । “वृषणं वर्षकं कामानाम् । किमर्थमिति चेत् । उच्यते । “ते त्वदर्थं “वृषा वर्षकः “सोमः “सुतः अभिषुतः । तथा “मधूनि मधुराणि घृतक्षीरादीनि “परिषिक्ता परितः सिक्तानि संपादितानि । यद्वा । मधूनि मधुराः सोमरसाश्चमसेषु पूरिताः । आगमनप्रकार उच्यते । हे “वृषभ वर्षकेन्द्र “वृषभ्यां वर्षकाभ्यां “हरिभ्यां “युक्त्वा रथं योजयित्वा “क्षितीनां कर्मसु निवसतां यजमानानां अस्माकमनुग्रहाय । क्षितीनां वृषभेति वा योज्यम् । “प्रवता वेगवता रथेन “मद्रिक् मदभिमुखमञ्चन मदाभिमुख्येन उप “याहि ॥
 
 
अ॒यं य॒ज्ञो दे॑व॒या अ॒यं मि॒येध॑ इ॒मा ब्रह्मा॑ण्य॒यमि॑न्द्र॒ सोम॑ः ।
 
स्ती॒र्णं ब॒र्हिरा तु श॑क्र॒ प्र या॑हि॒ पिबा॑ नि॒षद्य॒ वि मु॑चा॒ हरी॑ इ॒ह ॥
 
अयम् । यज्ञः । देवऽयाः । अयम् । मियेधः । इमा । ब्रह्माणि । अयम् । इन्द्र । सोमः ।।
 
स्तर्णम् । बर्हिः । आ । तु । शक्र । प्र । याहि । पिब । निऽसद्य । वि। मुच। हरी इति । इह ॥ ४ ॥
 
अहर्गणेषु मध्येष्वहःसु हारियोजनग्रहस्य याज्या । अग्निष्टोमोऽत्यग्निष्टोमः' इति खण्डे सूत्रितम्- अयं यज्ञो देवया अयं मियेध इतीतरेषु ' ( आश्व. श्रौ. ६. ११ ) इति ॥ हे “इन्द्र “अयं “यज्ञो “देवयाः देवान् गच्छन् भवति । तथा “अयं यज्ञः “मियेधः । मेधः पशुः । पशुवै मेधः' इति हि श्रुतिः । “इमा इमानि “ब्रह्माणि मन्त्राः । अयं सुतः “सोमः । “स्तीर्णं “बर्हिः आसनायास्तृता दर्भाः । एते पदार्थास्त्वदुचिता एवं संपादिताः । हे “शक इन्द्र “तु पुनः किमित्युक्ते “आ “प्र “याहि प्रकर्षेण शीघ्रमागच्छ । आगत्य च “निषद्य बर्हिष्युपविश्य “पिब सोमम् । तदर्थम्। “इह अस्मिन् देवयजने “हरी अश्वौ "वि "मुच वियोजय ॥ छान्दसो नुमभावः ॥
 
 
ओ सुष्टु॑त इन्द्र याह्य॒र्वाङुप॒ ब्रह्मा॑णि मा॒न्यस्य॑ का॒रोः ।
 
वि॒द्याम॒ वस्तो॒रव॑सा गृ॒णन्तो॑ वि॒द्यामे॒षं वृ॒जनं॑ जी॒रदा॑नुम् ॥
 
ओ इति । सुऽस्तुतः । इन्द्र । याहि । अर्वाङ् । उप । ब्रह्माणि । मान्यस्य । कारोः ।
 
विद्याम । वस्तोः । अवसा । गृणन्तः । विद्याम । इषम् । वृजनम् । जीरऽदानुम् ॥ ५ ॥
 
हे “इन्द्र “सुष्टुतः अस्माभिः सम्यक्स्तुतः सन् “अर्वाङ् अस्मदभिमुखम् आ “याहि आगच्छैव । मा विलम्बय । किमुद्दिश्य । 'मान्यस्य माननीयस्य “कारोः स्तोतुर्होतुः कर्तुर्यजमानस्य वा “ब्रह्माणि मन्त्रान् “उप उपलक्ष्य । “गृणन्तः स्तुवन्तोऽभिमतं शब्दयन्तो वा वयम् “अवसा त्वद्रक्षणेन रक्षिताः सन्तः “वस्तोः वस्तुं सुखेन संस्थातुमहनि वा सर्वेष्वहःसु अन्नादिकं “विद्याम लभेमहि । विद्याम इत्यादि व्याख्यातम् ॥ ॥ २० ॥
 
 
}}
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.१७७" इत्यस्माद् प्रतिप्राप्तम्