"ऋग्वेदः सूक्तं १.१९१" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः २३६:
 
वसिष्ठस्य प्रकृतिः मुख्यतया ऊर्ध्वारोहणस्य भवति। तस्य पुत्रस्य नाम शक्तिरस्ति। शक्तेः प्रसारणं तिर्यक् रूपेण भवति, किन्तु पुराणेषु एको राक्षसः शक्तेः भक्षणं करोति। अतः परं वसिष्ठस्य विकासस्य संभावना ऊर्ध्वमुखीरेव अस्ति। वसिष्ठस्य विपरीते, अगस्त्यस्य विकासः अधोमुखी भवति, अयं प्रतीयते। अगः – न प्रसारः, पर्वतः। पुराणेषु पर्वतस्य कार्यं पृथिव्याः, प्रकृत्याः प्रतिष्ठा भवति। पर्वतः पुरुषः अस्ति, पृथिवी प्रकृति। पर्वतस्य एवं वृक्षस्य समानं कार्यमस्ति। वृक्षः स्वमूलेभिः प्रकृत्याः प्रतिष्ठापनं करोति। सर्वेषु जंगमेषु जीवेषु मूलस्य अभावमस्ति। जंगमेषु जीवेषु मुख-आन्त्रादि रूपेण मूलस्य विपर्ययं, दर्पणं दृश्यते। केन प्रकारेण जीवः दर्पणं विस्मृत्वा वृक्षस्य वास्तविक मूलस्य विकासं करिष्यति, अयं अगस्त्यस्य साधनायाः लक्ष्यं प्रतीयते।
 
जैमिनीय ब्राह्मणे [[जैमिनीयं ब्राह्मणम्/काण्डम् २/२११-२२०|२.२२०]] कथनमस्ति यत् यदि आगस्त्यः ब्राह्मणं आगच्छति, तर्हि सः ब्राह्मणस्य अनुचर इवैव भवति। साधनायां अनुचरं किं अस्ति, अयं अनुसंधेयः। संभावितरूपेण, प्रतिध्वनिः अनुचरमस्ति। प्रतिध्वनिः स्मृतिस्तरे भवति। यदा मंत्रस्य प्रतिध्वनिः भविष्यति, तदैव प्रकृत्याः रूपान्तरणं भविष्यति। ऋग्वेद १.१९१ सूक्ते कङ्कतो न कङ्कतो इति ऋचा अस्ति। कङ्कशब्दस्य सायणभाष्यम् अल्पविषमस्ति। महाभारते विराड्नगरे युधिष्ठिरस्य नामधेयः अपि कङ्कः अस्ति। कङ्कः अर्थात् केका, प्रतिध्वनि।
 
अस्मिन् सूक्ते अगस्त्य ऋषेः मुख्या चिन्ता अयं अस्ति यत् मनुष्यस्य चेतनायाः जाग्रदवस्थायां यः विस्तारः अस्ति, तत् केभिः कारणेभिः सीमितः अस्ति। कानि कारणानि सन्ति येभिः मनुष्यः भूत-भविष्यस्य ज्ञानं न धारयति। कारणस्य कुञ्जी अन्तिमया ऋचया प्रदीयते - वृश्चिकस्यारसं विषं इत्यादि। आध्यात्मिके क्षेत्रे अयं सर्वविदितं अस्ति यत् यस्य जन्मराशिः वृश्चिकः भवति, तस्य साधना ऊर्ध्वमुखी भवति। सः परिवारस्य, आश्रमस्य स्थापनां न करोति। अगस्त्यस्य साधना वृश्चिक राशेः गुणेभ्यः विपरीतमस्ति - सामाजिके क्षेत्रे विस्तारं, जगतः कल्याणम्। अस्मिन् लक्ष्ये कानि बाधाः सन्ति। बहवः प्रकाराणां विषाः सन्ति ये चेतनायाः जागरणे विषरूपाः सन्ति। ऋषिः कथयति यत् सूर्योदयेन सर्वस्य तमस्य नाशं भवति, सर्वे प्राणिनः जाग्रन्ति, तदा केन कारणेन अस्याः चेतनायाः जागरणं आंशिकरूपेणैव भवति। ये स्थावराः, जङ्गमाः विषाः सन्ति, ते चेतनां सुप्तावस्थां प्रति नयन्ति। तेषां विषाणां चिकित्सा अपि अस्मिन् संसारे उपलब्धा भवति। ओषधिरूपेण कश्चित् अप्तृणसूर्यायाः उल्लेखः सूक्तस्य देवतारूपेण अस्ति। अप्तृण शब्दः दुर्बोधनीयमस्ति। ऋग्वेदे तूर्णि शब्दः प्रकटयति। तूर्णि - त्वरमाणः। त्वरा- त्वरिता, शीघ्रता।
अप्तृणसूर्या -- द्र. (अ) विश्वेदेवासो अप्तुरः सुतमा गन्त तूर्णयः - ऋ. १.३.८, (आ) वाजसनिं पूर्भिदं तूर्णिमप्तुरं धामसाचमभिषाचं स्वर्विदम् - ऋ. ३.५१.२
 
स्कन्दपुराणे [[स्कन्दपुराणम्/खण्डः ४ (काशीखण्डः)/अध्यायः ०४१|४.१.४१.११०]] कथनमस्ति यत् यस्य देहः नित्यसोमकलातः पूर्णा अस्ति, तस्योपरि विषस्य प्रभावं न भवति। प्रस्तुते सूक्ते नित्या कलायाः कः विकल्पः अस्ति, अयं अन्वेषणीयमस्ति। किं अयमेव अप्तृणसूर्या अस्ति।
 
 
 
 
अप्तृणसूर्या -- द्र. (अ) विश्वेदेवासो अप्तुरः सुतमा गन्त तूर्णयः - ऋ. १.३.८, (आ) वाजसनिं पूर्भिदं तूर्णिमप्तुरं धामसाचमभिषाचं स्वर्विदम् - ऋ. ३.५१.२।
 
वृश्चिक - आध्यात्मिके क्षेत्रे अयं सर्वविदितं अस्ति यत् यस्य जन्मराशिः वृश्चिकः भवति, तस्य साधना ऊर्ध्वमुखी भवति। सः परिवारस्य, आश्रमस्य स्थापनां न करोति। अगस्त्यस्य साधना वृश्चिक राशेः गुणेभ्यः विपरीतमस्ति।
 
}}
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.१९१" इत्यस्माद् प्रतिप्राप्तम्