"ऋग्वेदः सूक्तं १.१८७" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १६२:
 
 
 
}}
 
== ==
{{टिप्पणी|
 
[http://puranastudy.byethost14.com/pur_index26/pva7.htm वाताप्योपरि पौराणिकसंदर्भाः]
 
[http://puranastudy.byethost14.com/pur_index26/vatapi.htm वाताप्योपरि टिप्पणी]
 
शाङ्खायनब्राह्मणे [[कौषीतकिब्राह्मणम्/अध्यायः २७|२७.४]] कथनमस्ति -- इन्द्रो वै वातापिः । स ह वातम् आप्त्वा शरीराण्यर्हन् । वैदिकवाङ्मयानुसारेण, वातः प्राणानां अनिरुक्तं रूपं, समष्टिरूपं अस्ति। वाततः निरुक्तप्राणस्य सर्जनं इन्द्रस्य कार्यमस्ति। अन्तरिक्षे या वायुः वहति, तत् प्राणानां एव समष्टिरूपमस्ति। यं वायुं वयं नासिकया गृह्णीमः, तदपि प्राणानां समष्टिरूपमस्ति। अस्य वायोः ग्रहणं फुफ्फुसेभिः भवति। फुफ्फुसेभ्यः वायुतः प्राणवायोः ग्रहणं भवति। तस्य प्राणवायोः वितरणं देहस्य कोषे - कोषे भवति। अयं सामान्या स्थितिः अस्ति। विशिष्टायां स्थित्यां, अयं प्राणवायुः अन्नस्य कार्यमपि करोति। यदि देहे इन्द्रदेवस्य विद्यमानता अस्ति, तर्हि सः वायुतः अन्नस्य सर्जनं कर्तुं समर्थः अस्ति। अन्यथा, यथा सर्वविदितं अस्ति, केवलं वायुपानेन स्थूलदेहस्य क्रमिकक्षयः भवति। अयं प्रतीयते यत् प्रस्तुतसूक्ते वातापे पीव इद्भवेति कथनस्य अयमेव कारणमस्ति।
 
 
पुराणेषु सार्वत्रिकरूपेण इल्वल एवं तस्य अनुज वातापि दानवयोः कथा अस्ति। इल्वलः श्राद्धेषु वातापिं पाचयित्वा ब्राह्मणेभ्यः अन्नरूपेण प्रयच्छति। तदनन्तरं इल्वलः वातापेः आह्वानं करोति एवं वातापिः ब्राह्मणानां उदरं भङ्क्त्वा बहिरागच्छति। यदा अगस्त्यमुनिना वातापेः भक्षणं कृतमासीत्, तदा वातापिअसुरस्य पुनरुज्जीवनं सम्भवं नाभवत्। प्रथमदृष्ट्या, इल्वल एवं वातापि दानवयोः मध्ये न कोपि सामञ्जस्यं प्रतीयते। किन्तु, कथासरित्सागरे [[कथासरित्सागरः/लम्बकः ८/तरङ्गः २|८.२.३७७]] उल्लेखमस्ति यत् वातापिः जन्मान्तरे प्रज्ञाढ्यनामकः मन्त्रीरूपेण उत्पन्नः भवति। इल्वलसंज्ञायां इला, इळा, अचेतनमनः निहितमस्ति। वातापिसंज्ञायां प्रज्ञा निहितमस्ति। पुराणानुसारेण, इला एवं प्रज्ञा श्रद्धायाः दुहिते आस्ताम्। शांखायनआरण्यके ७.१८ कथनमस्ति - प्रज्ञा पूर्वरूपम्, श्रद्धा उत्तररूपम् कर्म संहिता सत्यं सन्धानम्। पातंजलयोगसूत्रे ऋतम्भरा प्रज्ञायाः उल्लेखमस्ति। एषा प्रज्ञैव वाततः, अनिरुक्तेभ्यः प्राणेभ्यः अन्नस्य निर्माणं कर्तुं शक्यते। वातापेः असुरस्य असुरत्वं किमस्ति। यदि वाततः प्रज्ञायाः सर्जनं न भवेत्, तत् वातापेः असुरत्वं प्रतीयते। अगस्त्यमुनिः वातापेः असुरत्वस्य पाचनं केन प्रकारेण करोति। भागवतपुराणे [[श्रीमद्भागवतपुराणम्/स्कन्धः ४/अध्यायः १|४.१.३६]] उल्लेखमस्ति यत् अगस्त्यः पुलस्त्यस्य पुत्रमस्ति एवं तस्य अपरसंज्ञा जठराग्निरस्ति। अयं प्रतीयते यत् यावत् जठराग्निः उदरमध्ये स्थानिकः अस्ति, तावत् अयं अगस्त्यः न अस्ति। यदा जठराग्न्याः विस्तारं देहे अन्यत्रापि भवति, तदा अयं देहस्य शोधकः भवति, देहसमुद्रस्य असुराणां भक्षकः भवति। तदैव अयं अगस्त्यसंज्ञा धारयितुं शक्यते। अयं संभवमस्ति यत् अयं अगस्त्यसंज्ञका जठराग्निः वाततः प्रज्ञायाः सर्जनं कर्तुं शक्यते। श्राद्धस्य संज्ञा अन्नमपि अस्ति। अतएव, प्रज्ञातः श्रद्धायाः सर्जनं भविष्यति, श्रद्धातः श्राद्धस्य।
 
}}
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.१८७" इत्यस्माद् प्रतिप्राप्तम्