"ऋग्वेदः सूक्तं १.१८७" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १८०:
 
करम्भ
 
 
सोमयज्ञेषु प्रकृतिभूत ज्योतिष्टोमातिरात्रप्रकरणे प्रथमायां सोमसंस्थायामग्निष्टोमे तद्विकृतिषु चैकाहाहीनसत्रेषु १. होत्रा प्रातरनुवाके शस्यमाने अग्नीत् सवनीयान् पुरोडाशान् निर्वपति । तत्र इन्द्राय एकादशकपालपुरोडाशं, हरिभ्यां धानाः, पूष्णे करम्भं हविर्निर्वपति । करम्भो नाम सक्तवो मन्थः। ‘आज्यादिना वा संयुतः करम्भ इत्याचक्षते' (आप० श्रौ० १२।४।१२) (तु०-का० श्रौ० ९।२।१५ विद्याधरः) । २. सवनीय हविर्धानाश्रपणात् पश्चात् कृष्णाजिनावधूननादि कृत्वा द्वितीयं भागं (भ्रष्टयवानां) पेषयित्वा नवे पात्रे तथैवाज्यमानीय जातान् सक्तूनोप्य मन्थन- शलाकया रज्ज्वादिना मथित्वा स्थाल्योष्ठलग्ना विप्रुषोऽन्तः क्षिप्त्वा ‘इन्द्राय त्वा' इति मन्त्रेणाभिमृश्य धानानामुत्तरतो भस्ममिश्रेष्वङ्गारेषु अधिश्रयति । अयं पदार्थ: करम्भ इत्युच्यते । द्र० श्रौ०प०नि० पृ० २६१-६२ । द्र० सवनीयपुरोडाशयाग-, सवनीयधानाश्रपण-, सवनीययागहविर्निवाप-। पं. पीताम्बरदत्त शास्त्री , श्रौतयज्ञप्रक्रिया – पदार्थानुक्रमकोषः, (राष्ट्रियसंस्कृतसंस्थानम्, नवदेहली, २००५ई.)
 
पुराणेषु सार्वत्रिकरूपेण करम्भस्य उल्लेखः शकुनेः पुत्ररूपेण अस्ति। अयं संकेतमस्ति यत् मर्त्यस्तरे ये शकुनाः जायन्ते, ते करम्भाः भवन्ति। क - रम्भः = करम्भः। यः विषयः कः मर्त्यस्तरं रेभयति, आलोड्यति, तत् करम्भः। पैप्पलादसंहिता [[पैप्पलादसंहिता/काण्डम् ०२|२.१]] अनुसारेण अस्य विनियोजनं अधोदिशायाः विषस्य अपनयने भवति। तैत्तिरीयब्राह्मण [[तैत्तिरीयब्राह्मणम् (विस्वरपाठः)/काण्डः ३/प्रपाठकः ०१|३.१.४.७]] अनुसारेण करम्भस्य निर्वपणं आश्लेषा नक्षत्राय भवति।
 
 
 
[https://vedastudy.weebly.com/kayaadhu-karnikaara.html करम्भोपरि पौराणिकसंदर्भाः]
 
[https://vedastudy.weebly.com/karambha.html करम्भोपरि वैदिकसंदर्भाः]
 
 
 
}}
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.१८७" इत्यस्माद् प्रतिप्राप्तम्