"ऋग्वेदः सूक्तं १०.९५" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ११०:
 
पुरू॑रव॒ः पुन॒रस्तं॒ परे॑हि दुराप॒ना वात॑ इवा॒हम॑स्मि ॥
 
किम् । एता। वाचा । कृणव । तव । अहम् । प्र । अक्रमिषम् । उषसाम् । अग्रियाऽइव ।।
 
पुरूरवः । पुनः । अस्तम् । परा । इहि । दुःऽआपना । वातः:ऽइव । अहम् । अस्मि ॥ २ ॥
 
अनया तमुर्वशी प्रत्युवाच । “एता एतया “वाचा केवलया पुनःसंभोगरहितया “किं “कृणव किं करवाव। “अहं त्विदानीं त्वत्सकाशात् “प्राक्रमिषम् अतिक्रान्तवत्यस्मि । अतिक्रमे दृष्टान्तः । “उषसामग्रियेव । बह्वीनामुषसां मध्येऽग्र्याग्रे भवा पूर्वोषाः प्राक्रमीद्यथा तथाहमपीति । यस्मादेवं तस्माद्धे “पुरूरवः त्वं “पुनः अस्मत्सकाशात् “अस्तं गृहं “परेहि परागच्छ । मा मय्यभिलाषं कार्षीः । स्वस्या दुर्ग्रहत्वमाह। “अहं "वातइव वायुरिव “दुरापना दुष्प्रापा दुरापा वा “अस्मि । दुरापा वा अहं त्वयैतर्ह्यस्मि पुनर्गृहानिहीति हैवैनं तदुवाच' (श. ब्रा. ११. ५. १. ७) इति वाजसनेयकम् ॥
 
 
इषु॒र्न श्रि॒य इ॑षु॒धेर॑स॒ना गो॒षाः श॑त॒सा न रंहिः॑ ।
 
अ॒वीरे॒ क्रतौ॒ वि द॑विद्युत॒न्नोरा॒ न मा॒युं चि॑तयन्त॒ धुन॑यः ॥
 
इषुः । न । श्रिये । इषुऽधेः । असना । गोऽसाः । शतऽसाः । न । रंहिः ।।
 
अवीरे । क्रतौ । वि। दविद्युतत् । न । उरा । न । मायुम् । चितयन्त । धुनयः ॥ ३ ॥
 
अनया पुरूरवाः स्वस्य विरहजनितं वैक्लव्यं तां प्रति ब्रूते । “इषुधेः । इषवो धीयन्तेऽत्रेतीषुधिर्निषङ्गः । ततः सकाशात् “इषुः “असना असनायै प्रक्षेप्तुं न भवति “श्रिये विजयार्थम् । त्वद्विरहाद्युद्धस्य बुद्ध्वावप्यनिधानात् । तथा “रंहिः वेगवानहं शत्रुसकाशात् “गोषाः तेषां शत्रूणां गवां संभक्ता "न अभवम् । तथा “शतसाः शतानामपरिमितानां शत्रुधनानां संभक्ता नाभवम् । किंच “अवीरे वीरवर्जिते “क्रतौ राजकर्मणि सति “न “वि “दविद्युतत् न विद्योतते मत्सामर्थ्यम् । किंच “धुनयः कम्पयितारोऽस्मदीया भटाः "उरा उरौ। ‘सुपां सुलुक् ' इति सप्तम्या डादेशः । विस्तीर्णे संग्रामे "मायुम् । मीयते प्रक्षिप्यत इति मायुः शब्दः । 'कृवापाजि° - इत्यादिनोण् । सिंहनादं “न “चितयन्त न बुध्यन्ते । ‘चिती संज्ञाने'। अस्माण्णिचि संज्ञापूर्वकस्य विधेरनित्यत्वाल्लघूपधगुणाभावः । छान्दसो लङ् ॥
 
 
सा वसु॒ दध॑ती॒ श्वशु॑राय॒ वय॒ उषो॒ यदि॒ वष्ट्यन्ति॑गृहात् ।
 
अस्तं॑ ननक्षे॒ यस्मि॑ञ्चा॒कन्दिवा॒ नक्तं॑ श्नथि॒ता वै॑त॒सेन॑ ॥
 
सा । वसु । दधती । श्वशुराय । वयः । उषः । यदि । वष्टि । अन्तिऽगृहात् ।
 
अस्तम् । ननक्षे । यस्मिन् । चाकन् । दिवा। नक्तम् । श्नथिता। वैतसेन ॥ ४ ॥
 
इदमुत्तरं चोर्वशीवाक्यम्। आद्येन पुरात्मना कृतमुषसे निवेदयति । हे "उषः "सा इयमुर्वशी "वसु वासकं "वयः अन्नं "श्वशुराय भर्तुः पुरूरवसः पित्रे “दधती प्रयच्छन्ती तत्र गृहे
स्थिता "यदि पतिं "वष्टि कामयते तदा "अन्तिगृहात् । स्वभर्तृभोगगृहान्तिके यत् श्वशुरस्य भोजनगृहं तदन्तिगृहम्। तस्माद्गृहात्सोर्वशी "अस्तं पतिगृहं "ननक्षे व्याप्नोति । "यस्मिन् गृहे “चाकन् कामयत उर्वशी । सा चोर्वशी “दिवा “नक्तम् अहनि रात्री च "वैतसेन ।' शेपो वैतस इति पुंस्प्रजननस्य' ( निरु. ३. ३१) इति निरुक्तम् । पुंस्प्रजननेन “श्नथिता ताडिता च भवति । एवमुर्वश्यात्मानं परोक्षेण निर्दिदेश ॥
 
 
त्रिः स्म॒ माह्नः॑ श्नथयो वैत॒सेनो॒त स्म॒ मेऽव्य॑त्यै पृणासि ।
 
पुरू॑र॒वोऽनु॑ ते॒ केत॑मायं॒ राजा॑ मे वीर त॒न्व१॒॑स्तदा॑सीः ॥
 
त्रिः । स्म । मा । अह्नः । श्नथयः । वैतसेन । उत । स्म । मे। अव्यत्यै । पृणासि ।
 
पुरूरवः । अनु । ते। केतम् । आयम् । राजा । मे। वीर । तन्वः । तत् । आसीः ॥ ५ ॥
 
अनेन पुरूरवसमेव संबोध्योक्तवती । हे पुरूरवः त्वं "मा माम् "अह्नः अहनि “वैतसेन दण्डेन पुंव्यञ्जनेन "त्रिः त्रिवारम् । द्वित्रिचतुर्भ्यः सुच् ' ( पा. सू. ५.४.१८ )। “श्नथयः "स्म । अश्नथयः अताडयः । ‘कृत्वोऽर्थप्रयोगे (पा. सू. २. ३. ६४) इति कालवाचिनोऽहःशब्दादधिकरणे षष्ठी। “उत अपि च । “स्म इति पूरणः । "अव्यत्यै। सपत्नीभिः सह पर्यायेण पतिमागच्छति सा व्यती। न तादृश्यव्यती। तस्यै "मे मह्यं "पृणासि पूरयसि । एवं बुद्ध्या हे "पुरूरवः “ते तव “केतं गृहम् “अनु "आयम् अन्वगमं पूर्वम् । हे “वीर "राजा त्वं च "मे मम “तन्वः शरीरस्य “तत् तदा “आसीः अभवः । सुखयितेति शेषः । परमप्येवं मन्तव्यं किमिति कातरो भवसीत्युवाच ॥ ॥१॥
 
 
या सु॑जू॒र्णिः श्रेणिः॑ सु॒म्नआ॑पिर्ह्र॒देच॑क्षु॒र्न ग्र॒न्थिनी॑ चर॒ण्युः ।
 
ता अ॒ञ्जयो॑ऽरु॒णयो॒ न स॑स्रुः श्रि॒ये गावो॒ न धे॒नवो॑ऽनवन्त ॥
 
या । सुऽजूर्णिः । श्रेणिः । सुम्नेऽआपिः । हृदेऽचक्षुः । न । ग्रन्थिनी । चरण्युः ।
 
ताः । अञ्जयः । अरुणयः । न । सस्रुः । श्रिये । गावः । न । धेनवः । अनवन्त ॥ ६ ॥
 
पुरूरवसो वाक्यम् । "या "सुजूर्णिः सुजवा एतन्नामिकास्ति तथा या “श्रेणिः या "सुम्नआपिः या “हृदेचक्षुः । नकारः समुच्चये। ताभिश्चतसृभिरालिभूताभिर्मानिनीभिः सहिता “ग्रन्थिनी ग्रन्थनवती संदर्भवती "चरण्युः चरणशीलोर्वश्याजगाम। यद्वा । ग्रन्थिनीत्येतत्सखिभूताप्सरोनामधेयम् । या सुजूर्णिः सुजवोर्वशी सा ताभिः सह जगाम । “ताः अप्सरसः "अञ्जयः आभरणोपेताः "अरुणयः अरुणवर्णाः "न “सस्रुः पूर्ववन्न गच्छन्ति । "श्रियै श्रथणाय “धेनवः नवप्रसूताः "गावो "न गाव इव । आश्रयार्थं यथा गावः "अनवन्त शब्दायन्ते तथा न शब्दयन्तीति व्यतिरेके दृष्टान्तः ।।
 
 
सम॑स्मि॒ञ्जाय॑मान आसत॒ ग्ना उ॒तेम॑वर्धन्न॒द्य१॒ः॑ स्वगू॑र्ताः ।
 
म॒हे यत्त्वा॑ पुरूरवो॒ रणा॒याव॑र्धयन्दस्यु॒हत्या॑य दे॒वाः ॥
 
सम् । अस्मिन् । जायमाने । आसत । ग्नाः । उत। ईम् । अवर्धन् । नद्यः । स्वऽगूर्ताः ।
 
महे । यत् । त्वा । पुरूरवः । रणाय । अवर्धयन्। दस्युऽहत्याय । देवाः ।। ७॥
 
अनयैताभिः सह संसर्गस्त्वयानुभूत इत्युर्वशी वदति । "अस्मिन् पुरूरवसि “जायमाने सति “ग्नाः अप्सरसो देववेश्या अपि "सम् "आसत संगता अभवन् । अथवा जायमाने यज्ञार्थं प्रवर्धमाने सति ग्ना देवपत्न्योऽपि समासत समभवन् । "उत अपि च "ईम् एनं पुरूरवसं “स्वगूर्ताः स्वयंगामिन्यः "नद्यः तासामाश्रयभूता अवर्धयन्। किंच हे "पुरूरवः "यत् यस्मात् "त्वा त्वां "महे महते "रणाय रमणीयाय संग्रामाय “दस्युहत्याय दस्युहननाय "देवाः “त्वाम् अवर्धयन् ॥
 
 
सचा॒ यदा॑सु॒ जह॑ती॒ष्वत्क॒ममा॑नुषीषु॒ मानु॑षो नि॒षेवे॑ ।
 
अप॑ स्म॒ मत्त॒रस॑न्ती॒ न भु॒ज्युस्ता अ॑त्रसन्रथ॒स्पृशो॒ नाश्वाः॑ ॥
 
सचा । यत् । आसु । जहतीषु । अत्कम् । अमानुषीषु । मानुषः । निऽसेवे।।
 
अप । स्म । मत् । तरसन्ती । न । भुज्युः । ताः । अत्रसन्। रथऽस्पृशः । न । अश्वाः ॥८॥
 
इदमादित्रीण्यैळवाक्यानि । तत्रादितो द्वाभ्यामुर्वशीमन्याश्च सह स्तौति । "यत् यदा "सचा सहायभूतः पुरूरवाः "अत्कं स्वकीयं रूपम् । अत्क इति रूपनाम। "जहतीषु परित्यजन्तीषु “अमानुषीषु देवताभूतास्वप्सरःसु मानुषः सन् "निषेवे अभिमुखं गच्छति तदानीं "ताः अप्सरसः “मत् मत्तः "अप अपसृत्य "अत्रसन्। त्रसतिर्गतिकर्मा । गच्छन्ति । पलायने दृष्टान्तः । "तरसन्ती “भुज्युः “न। तरसन्नाम मृगः । तस्य स्त्री भुज्युर्भोगसाधनभूता स्त्री मृगी । सा यथा व्याधाद्भीता पलायत्ते । किंच "रथस्पृशो "नाश्वाः रथे नियुक्ता अश्वा इव। यथा ते पलायन्ते तद्वत्पलायन्त इति । उर्वश्यानेकाभिरस्माभिः सह भोगमनुभुक्तवानसीयुक्तः प्रत्याचष्टे ॥
 
 
यदा॑सु॒ मर्तो॑ अ॒मृता॑सु नि॒स्पृक्सं क्षो॒णीभि॒ः क्रतु॑भि॒र्न पृ॒ङ्क्ते ।
 
ता आ॒तयो॒ न त॒न्वः॑ शुम्भत॒ स्वा अश्वा॑सो॒ न क्री॒ळयो॒ दन्द॑शानाः ॥
 
यत् । आसु । मर्तः । अमृतासु । निऽस्पृक् । सम् । क्षोणीभिः । क्रतुऽभिः । न । पृङ्क्ते।
 
ताः । आतयः । न । तन्वः । शुम्भत । स्वाः । अश्वासः । न । क्रीळयः । दन्दशानाः ॥९॥
 
"यत् यदा "आसु "अमृतासु अप्सरःसु "मर्तः मनुष्यः पुरूरवाः “निस्पृक् निःशेषेण स्पृशन् “क्षोणीभिः वाग्भिः "क्रतुभिर्न कर्मभिश्च "सं "पृङ्क्ते संपर्कं करोति । नकारः समुच्चयार्थः। "ताः अप्सरसः “आतयः आतिभूतास्तदानीं "स्वाः “तन्वः आत्मीयानि रूपाणि “न “शुम्भत न प्रकाशयन्ति । "अश्वासो “न अश्वा इव "क्रीळयः संक्रीडमानाः "दन्दशानाः दन्दशूका जिह्वाभिरात्मीयाः सृक्का भक्षयन्तः । ते यथा चापल्येन धावन्तः स्वरूपं न प्रयच्छन्ति रथिकाय तद्वदिति दुःखाद्ब्रूते ॥
 
 
वि॒द्युन्न या पत॑न्ती॒ दवि॑द्यो॒द्भर॑न्ती मे॒ अप्या॒ काम्या॑नि ।
 
जनि॑ष्टो अ॒पो नर्य॒ः सुजा॑त॒ः प्रोर्वशी॑ तिरत दी॒र्घमायुः॑ ॥
 
विऽद्युत् । न । या । पतन्ती । दविद्योत् । भरन्ती । मे। अप्या । काम्यानि ।
 
जनिष्टो इति । अपः । नर्यः । सुऽजातः । प्र । उर्वशी। तिरत । दीर्घम् । आयुः ॥१०॥
 
अनयोर्वशीं स्तौति । "या उर्वशी “विद्युन्न विद्युदिव "पतन्ती गच्छन्ती "दविद्योत् द्योतते । किं कुर्वती। “अप्या। अप इत्यन्तरिक्षनाम । तत्संबन्धीनि व्याप्तानि वा “काम्यानि अस्मदभिमतान्युदकानि वा "मे मह्यं "भरन्ती संपादयन्ती । यदा आगतायास्तस्याः सकाशात् "अपः व्याप्तः कर्मसु कर्मवान् वा "नर्यः नरेभ्यो हितः "सुजातः सुजननः पुत्रः "जनिष्टो अजनिष्ट उत्पद्यते तदानीं मम "उर्वशी "दीर्घमायुः “प्र “तिरत प्रवर्धयति । ‘प्रजामनु प्र जायसे तदु ते मर्त्यामृतम्' (तै. ब्रा. १. ५. ५. ६) इति हि मन्त्रः ॥ ॥ २ ॥
 
 
ज॒ज्ञि॒ष इ॒त्था गो॒पीथ्या॑य॒ हि द॒धाथ॒ तत्पु॑रूरवो म॒ ओजः॑ ।
 
अशा॑सं त्वा वि॒दुषी॒ सस्मि॒न्नह॒न्न म॒ आशृ॑णो॒ः किम॒भुग्व॑दासि ॥
 
जज्ञिषे । इत्था । गोऽपीथ्याय । हि। दधाथ । तत् । पुरूरवः । मे। ओजः ।
 
अशासम् । त्वा । विदुषी । सस्मिन् । अहन् । न। मे। आ । अशृणोः । किम् । अभुक् । वदासि ॥ ११ ॥
 
“इत्था इत्थं "गोपीथ्याय । गौः पृथिवी। पीथं पालनम् । स्वार्थिकस्तद्धितः । भूमे रक्षणीय “जज्ञिषे “हि जातोऽसि खलु पुत्ररूपेण । 'आत्मा वै पुत्रनामा ' इति श्रुतेः। पुनस्तदेवाह । हे "पुरूरवः “मे ममोदरे मयि "ओजः अपत्योत्पादनसामर्थ्यं "दधाथ मयि निहितवानसि । "तत् तथास्तु । अथापि स्थातव्यमिति चेत् तत्राह । अहं "विदुषी भावि कार्यं जानती “सस्मिन्नहन् सर्वस्मिन्नहनि त्वया कर्तव्यं "त्वा त्वाम् "अशासं शिक्षितवत्यस्मि । त्वं "मे मम वचनं “न “आशृणोः न शृणोषि। “किं त्वम् "अभुक् अभोक्तापालयिता प्रतिज्ञातार्थमपालयन् “वदासि हये जाय इत्यादिकरूपं प्रलापम् । वदेर्लेट्याडागमः। दिवसे त्रिवारं यभस्व एडकद्वयमस्माकं पुत्रत्वेन परिकल्पय अपत्योत्पादनपर्यन्तं वसामि नग्नं त्वां यदाद्राक्षं तदा गच्छामीत्येवंरूपो मिथःसमयः ‘उर्वशी हाप्सराः पुरूरवसमैळं चकमे तं ह विन्दमानोवाच त्रिः स्म माह्नो वैतसेन दण्डेन' ( श. ब्रा. ११. ५.१ ) इत्यादि वाजसनेयकमुदाहृतम् ॥
 
 
क॒दा सू॒नुः पि॒तरं॑ जा॒त इ॑च्छाच्च॒क्रन्नाश्रु॑ वर्तयद्विजा॒नन् ।
 
को दम्प॑ती॒ सम॑नसा॒ वि यू॑यो॒दध॒ यद॒ग्निः श्वशु॑रेषु॒ दीद॑यत् ॥
 
कदा । सूनुः । पितरम्। जातः । इच्छात् । चक्रन्। न । अश्रु । वर्तयत्। विऽजानन् ।
 
कः । दंपती इति दम्ऽपती । सऽमनसा । वि । यूयोत् ।। अध । यत् । अग्निः । श्वशुरेषु । दीदयत् ॥ १२ ॥
 
इदं पुरूरवसो वाक्यम् । “कदा कस्मिन् काले “सूनुः तवोदरजातः सन् “पितरं माम् “इच्छात् इच्छेत् । इषु इच्छायाम्'। लेटि शपि इषुगमियमां छः' इति छादेशः । 'लेटोऽडाटौ ' इत्यडागमः। कदा वा “विजानन् पितरं मामधिगच्छन् “चक्रन् क्रन्दमानः “नाश्रु वर्तयत्। नेति चार्थे । किंच “कः किंविधः सन् सूनुः “समनसा समनसौ समनस्कौ “दंपती जायापती त्वां मां च “वि “यूयोत् विश्लेषयेत् । ‘यु मिश्रणामिश्रणयोः'। यौतेश्छान्दसः शपः श्लुः । तुजादित्वाभ्यासस्य दीर्घः । “अध अधुना “यत् यदा “अग्निः तव हृदयस्थितस्तेजोरूपो गर्भः “श्वशुरेषु “दीदयत् दीप्यते । दीदयतिर्दीप्तिकर्मेति नैरुक्तो धातुः ॥
 
 
प्रति॑ ब्रवाणि व॒र्तय॑ते॒ अश्रु॑ च॒क्रन्न क्र॑न्ददा॒ध्ये॑ शि॒वायै॑ ।
 
प्र तत्ते॑ हिनवा॒ यत्ते॑ अ॒स्मे परे॒ह्यस्तं॑ न॒हि मू॑र॒ मापः॑ ॥
 
प्रति । ब्रवाणि । वर्तयते । अश्रु । चक्रन् । न । क्रन्दत् । आऽध्ये । शिवायै ।
 
प्र । तत् । ते । हिनव । यत् । ते । अस्मे इति । परा । इहि । अस्तम् । नहि। मूर । मा । आपः ॥ १३ ॥
इदमुर्वशीवाक्यम् । हे पुरूरवः त्वां “प्रति “ब्रवाणि प्रतिवच्मि । त्वदपत्यम् “अश्रु वाष्पं “वर्तयते वर्तयिष्यति । “आध्ये आध्याते वस्तुनि “शिवायै शिवे कल्याणे समुपस्थिते सति “चक्रन् रुदन्नश्रूणि विमुञ्चन् “न “क्रन्दत् । नकारश्चार्थे । रोत्स्यति चेत्यर्थः । “तत् त्वदपत्यं “ते तुभ्यं “हिनव प्रहिणोमि “यत् अपत्यं “ते तव संबन्धि “अस्मे अस्मासु निहितम् । त्वं “परेह्यस्तम्। अस्तमिति गृहनाम। स्वगृहं प्रतिगच्छ । हे “मूर मूढ “मा मां “नहि “आपः न प्राप्नोषि। हिनवेत्यत्र हिनोतेः ‘छन्दसि लुङ्लङ्लिटः' इति भविष्यदर्थे लङि मिपोऽमादेशः । गुणः । अन्त्यलोपश्छान्दसः ।। बहुलवचनादडभावः। आपः । ‘आप्लृ व्याप्तौ' । लिटि तिङां तिङो भवन्ति' इति थलो णल् ॥
 
 
सु॒दे॒वो अ॒द्य प्र॒पते॒दना॑वृत्परा॒वतं॑ पर॒मां गन्त॒वा उ॑ ।
 
अधा॒ शयी॑त॒ निरृ॑तेरु॒पस्थेऽधै॑नं॒ वृका॑ रभ॒सासो॑ अ॒द्युः ॥
 
सुऽदेवः । अद्य । प्रऽपतेत् । अनावृत् । पराऽवतम् । परमाम् । गन्तवै । ऊँ इति ।
 
अध । शयीत । निःऽऋतेः । उपऽस्थे । अध । एनम् । वृकाः । रभसासः । अद्युः ॥१४॥
 
अथ परिदूनः पुरूरवा उवाच । “सुदेवः त्वया सह सुक्रीडः पतिः “अद्य “प्रपतेत् । अत्रैव प्रपततु । अथवा “अनावृत् अनावृत्तः सन् “परमां “परावतं दूरादपि दूरदेशं “गन्तवै गन्तुं महाप्रस्थानगमनं कुर्यात् । “अध अथवा यत्रकुत्रापि गन्तुमसमर्थः निर्ऋतेः पृथिव्याः “उपस्थे “शयीत शयनं कुर्यात् । यद्वा । निर्ऋतिः पापदेवता । तस्या उपस्थे उत्संगे संनिधौ म्रियतामित्यर्थः। “अध अथवा “एनं “वृकाः आरण्याः श्वानः रभसासः वेगवन्तः “अद्युः भक्षयन्तु । अत्र वाजसनेयकं - सुदेवोऽद्योद्वा बध्नीत प्र वा पतेत्तदेनं वृका वा श्वानो वाद्युरिति हैव तदुवाच' (श. ब्रा. ११. ५. १.८) इति ॥
 
 
पुरू॑रवो॒ मा मृ॑था॒ मा प्र प॑प्तो॒ मा त्वा॒ वृका॑सो॒ अशि॑वास उ क्षन् ।
 
न वै स्त्रैणा॑नि स॒ख्यानि॑ सन्ति सालावृ॒काणां॒ हृद॑यान्ये॒ता ॥
 
पुरूरवः । मा। मृथाः । मा । प्र । पप्तः । मा। त्वा । वृकासः । अशिवासः । ॐ इति । क्षन्।
 
न । वै । स्त्रैणानि । सख्यानि । सन्ति । सालावृकाणाम् । हृदयानि । एता ॥ १५ ॥
 
तमितरा प्रत्युवाच । हे “पुरूरवः त्वं मा "मृथाः मृतिं मा प्राप्नुहि । म्रियतेर्लुङि थासि ‘ह्रस्वादङ्गात् इति सिचो लोपः। तथा “मा “प्र “पप्तः अत्रैव पतनं मा कार्षीः। पतेर्लुङि लृदित्त्वात् ‘पुषादि° ' इत्यादिना च्लेरङ्। ‘पतः पुम्' इति पुम्। तथा “त्वा त्वाम् “अशिवासः अशुभाः “वृकासः वृकाः “मा “उ “क्षन्। उ इत्येवकारार्थे। अक्षन् । माभ्यवहारयन्तु । किमित्येवमस्मदुपर्याग्रहं करोषि । मा कार्षीरित्यर्थः । अदेर्लुङि ‘लुङ्सनोर्घस्लृ' (पा. सू. २. ४. ३७) इति घस्लादेशः। ‘मन्त्रे घस' इति च्लेर्लुक्। 'गमहन इत्यादिनपधालोपः । ‘शासिवसि°' इत्यादिना षत्वम् ।' खरि च' इति चर्त्वम् । बाहुलकादडभावः। अथ स्वस्नेहस्यासारतमाह। “स्त्रैणानि स्त्रीणां कृतानि “सख्यानि “न “वै “सन्ति । न सन्ति खलु। अभावे कारणमाह। "एता एतानि सख्यानि “सालावृकाणां “हृदयानि तेषां हृदयानि यथा वत्सादीनां विश्वासापन्नानां घातुकानि तद्वत् । अत्र वाजसनेयकं-- मैतदादृथा न वै स्त्रैणँ सख्यमस्ति पुनर्गृहानिहीति हैवैनं तदुवाच' ( श. ब्रा. ११. ५. १. ९) इति ॥ ॥ ३ ॥
 
 
यद्विरू॒पाच॑रं॒ मर्त्ये॒ष्वव॑सं॒ रात्रीः॑ श॒रद॒श्चत॑स्रः ।
 
घृ॒तस्य॑ स्तो॒कं स॒कृदह्न॑ आश्नां॒ तादे॒वेदं ता॑तृपा॒णा च॑रामि ॥
 
यत् । विऽरूपा । अचरम् । मर्त्येषु । अवसम् । रात्रीः । शरदः । चतस्रः ।।
 
घृतस्य । स्तोकम् । सकृत् । अह्नः । आश्नाम् । तात् । एव । इदम् । ततृपाणा । चरामि ॥१६॥
 
“यत् यदा “विरूपा मनुष्यसंपर्काद्विगतसहजभूतदेवरूपा पत्यानुकूल्येन नानारूपा वा “मर्त्येषु मनुष्येषु “अचरं तदानीं “रात्रीः प्ररमयित्रीः “चतस्रः “शरदः “अवसं न्यवसम् । अत्यन्तसंयोगे द्वितीया । तदानीं “घृतस्य “स्तोकं “सकृदह्न “आश्नाम् । “तादेव तेनैव स्तोकेनाहम् “इदं संप्रति “तातृपाणा तृप्ता सती “चरामि ॥
 
 
अ॒न्त॒रि॒क्ष॒प्रां रज॑सो वि॒मानी॒मुप॑ शिक्षाम्यु॒र्वशीं॒ वसि॑ष्ठः ।
 
उप॑ त्वा रा॒तिः सु॑कृ॒तस्य॒ तिष्ठा॒न्नि व॑र्तस्व॒ हृद॑यं तप्यते मे ॥
 
अन्तरिक्षप्राम् । रजसः । विऽमानीम् । उप । शिक्षामि । उर्वशीम् । वसिष्ठः ।।
 
उप । त्वा । रातिः । सुकृतस्य । तिष्ठात् । नि। वर्तस्व । हृदयम् । तप्यते । मे ॥ १७ ॥
 
“अन्तरिक्षप्रां स्वतेजसान्तरिक्षस्य पूरयित्रीं तथा “रजसः रञ्जकस्योदकस्य “विमानीं निर्मात्रीम् “उर्वशीं “वसिष्ठः समानानां मध्येऽतिशयेन वासयिताहम् “उप “शिक्षामि वशं नयामि। “सुकृतस्य शोभनकर्मणः “रातिः दाता पुरूरवाः “त्वा त्वाम् “उप “तिष्ठात् उपतिष्ठतु । "मे “हृदयं “तप्यते। अतो “नि "वर्तस्व । एवं राजोवाच ॥
 
 
इति॑ त्वा दे॒वा इ॒म आ॑हुरैळ॒ यथे॑मे॒तद्भव॑सि मृ॒त्युब॑न्धुः ।
 
प्र॒जा ते॑ दे॒वान्ह॒विषा॑ यजाति स्व॒र्ग उ॒ त्वमपि॑ मादयासे ॥
 
इति । त्वा । देवाः । इमे । आहुः । ऐळ । यथा । ईम् । एतत् । भवसि । मृत्युऽबन्धुः ।।
 
प्रऽजा । ते। देवान् । हविषा । यजाति । स्वःऽगे । ऊँ इति । त्वम्। अपि। मादयासे ॥१८॥
 
हे “ऐळ पुरूरवः “त्वा त्वाम् “इमे “देवाः “इति “आहुः । “मृत्युबन्धुः मृत्योः बन्धकः मृत्योर्बन्धुभूतो वा मृत्युवशमप्राप्नुवंस्त्वं “यथें यथा “एतद्भवसि भविष्यसि “प्रजा प्रकर्षेण जायमानस्त्वं “ते तव संबन्धिनो यष्टव्यान् “देवान् “हविषा “यजासि यजसि । “स्वर्ग “उ स्वर्गं एव “त्वमपि “मादयासे मादयसेऽस्माभिः सह । एवमाहुरित्यर्थः । यस्मादेवं करोषि तस्मादभिलाषं हित्वा सुखी भवेति सेयं पुरूरवसं प्रत्युवाच ॥ ॥ ४ ॥
 
 
 
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.९५" इत्यस्माद् प्रतिप्राप्तम्