"ऋग्वेदः सूक्तं १.१४०" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १३१:
 
"तम् अग्निम् "अग्रुवः अग्रतः स्थिताः । यद्वा । अङ्गुलिनामैतत् । अङ्गुलय इव अकुटिलाः । “केशिनीः केशस्थानीयोर्ध्वभाविकार्ष्ण्योपेता: ज्वालाः “सं “रेभिरे “हि परिरम्भं कुर्वन्ति खलु आलिङ्गन्ति । किंचैवं कुर्वत्यः “मम्रुषीः मृता अङ्गारभावापन्ना अपि ॥ म्रियतेः क्वसुप्रत्ययान्तात्
ङीपि रूपम् ॥ “आयवे आगच्छतेऽग्नये भर्त्रे “पुनः स्वोपद्रवमजानत्यः “ऊर्ध्वाः “प्र “तस्थुः ऊर्ध्वमुखा उन्नताः प्रतस्थिरे मृतप्राया अपि प्रत्युत्थानं कृतवत्य इत्यर्थः । एवं कृतवतीषु सतीषु स भर्ताग्निः “तासां ज्वालानां “जरां वयोहानिं “प्रमुञ्चन् प्रकर्षेण मोचयन् “नानदत् जरापरिहाराय मन्त्रयन्निव अत्यर्थं शब्दयन् । न केवलं जराहानिरेव अपि तु “परं निरतिशयम् “असुं प्राणम् “अस्तृतं काष्ठोदकादिप्रक्षेपेणाप्यहिंसितं “जीवं प्राणधारणसामर्थ्यं “जनयन् उत्पादयन् एति गच्छति । तासां ज्वालाना संनिधिं प्राप्नोति । यथा लोके काश्चन रमण्यो रमणेन सह निर्भरं क्रीडित्वा पश्चात् प्रोषिते तस्मिन् विरहेण जीर्णा म्रियमाणाः पश्चात् तस्मिन्नागते सति स्वदौर्बल्यमगणयित्वा संतोषेण परिष्वङ्गाय चेष्टन्ते । स भर्ता मन्त्रोच्चारणेन जराम् अपनीय उचितप्रदानेन प्राणयन् रक्षति इत्ययं भावोऽत्रानुसंधेयः॥
 
 
पङ्क्तिः १३७:
 
वयो॒ दध॑त्प॒द्वते॒ रेरि॑ह॒त्सदानु॒ श्येनी॑ सचते वर्त॒नीरह॑ ॥
 
अधीवासम् । परि। मातुः । रिहन्। अह । तुविऽग्रेभिः । सत्वऽभिः । याति । वि। ज्रयः ।
 
वयः । दधत् । पत्ऽवते । रेरिहत् । सद। अनु । श्येनी । सचते । वर्तनिः। अह ॥९॥
 
दावाग्निः स्तूयते । अयमग्निः "मातुः भूतानां निर्मातुर्भूमेः "अधीवासम् उपर्याच्छादनस्थानीयं तृणगुल्मौषध्यादिकं “परि परितः “रिहन् लिहन् । “अह इति प्रसिद्धौ । यद्वा । मातुर्भूमेरधीवासम् उपरि धार्यमाणं वस्त्रं परि परितो रिहन् संपादयन् । “तुविग्रेभिः प्रभूतं शब्दयद्भिः प्रभूतगमनैर्वा "सत्वभिः प्राणिभिः सहितः "ज्रयः ज्रयसा जवेन “वि याति विविधं गच्छति। किंच 'पद्वते पादवते द्विपदे चतुष्पदे च “वयः अन्नं तत्तदुचितं “दधत् ददत् । विवने दावानले भीत्या पलायमानान् प्राणिनो व्याघ्रादयो भक्षयन्तीति प्रसिद्धम् । किं कुर्वन् । “सदा सर्वदा तृणादिकं “रेरिहत् दहन। किंच “श्येनी श्यामवर्णः वर्तनिः मार्गो वियान्तम् “अनु अनुक्रमेण “सचते सेवते । यत्र यत्राग्निर्गच्छति तत्र तत्र मार्गोऽपि कृष्णो भवति । “अह इति प्रसिद्धौ ॥
 
 
अ॒स्माक॑मग्ने म॒घव॑त्सु दीदि॒ह्यध॒ श्वसी॑वान्वृष॒भो दमू॑नाः ।
 
अ॒वास्या॒ शिशु॑मतीरदीदे॒र्वर्मे॑व यु॒त्सु प॑रि॒जर्भु॑राणः ॥
 
अस्माकम् । अग्ने । मघवत्ऽसु । दीदिहि । अध । श्वसीवान् । वृषभः । दमूनाः ।।
 
अवऽअस्य । शिशुऽमतीः । अदीदेः । वर्मऽइव । युत्ऽसु । परिऽजर्भुराणः ॥ १० ॥
 
हे "अग्ने अस्माकं मघवत्सु अस्मत्संबन्धिषु अन्नवत्सु यागेषु गृहेषु वा “दीदिहि दीप्यस्व । “अध अथानन्तरं “श्वसीवान् श्वसनवान् ज्वालाभिश्चेष्टवान् अस्मस्प्राणनवान् वा “वृषभः वर्षिता अभिमतानां “दमूनाः दानमना दममना दान्तमना वा सर्वत्र भवेति शेषः । स उक्तलक्षणस्त्वं “शिशुमतीः “अवास्य । शिशुशब्देन तदवस्था लक्ष्यते । शैशववतीर्ज्वाला अपक्षेप्य विहाय “अदीदेः भृशं दीप्यस्व । कीदृशस्त्वम् । "युत्सु संग्रामेषु “वर्मेव कवचमिव “परिजर्भुराणः अस्मद्द्वेष्टॄन् पुनःपुनः परिहरन् । यद्वा । युत्सु संग्रामेषु वर्मेव परिजर्भुराणो भव ॥ हस्तेर्यङ्लुगन्तात् व्यत्ययेन शानच् । ‘अभ्यस्तानामादिः' इत्याद्युदात्तत्वम् ॥ उक्तगुणको भव मघवत्सु यज्ञेषु दीप्यस्व ॥ ॥ ६ ॥
 
 
इ॒दम॑ग्ने॒ सुधि॑तं॒ दुर्धि॑ता॒दधि॑ प्रि॒यादु॑ चि॒न्मन्म॑न॒ः प्रेयो॑ अस्तु ते ।
 
यत्ते॑ शु॒क्रं त॒न्वो॒३॒॑ रोच॑ते॒ शुचि॒ तेना॒स्मभ्यं॑ वनसे॒ रत्न॒मा त्वम् ॥
 
इदम् । अग्ने । सुऽधितम् । दुःऽधितात् । अधि । प्रियात् । ऊँ इति । चित् । मन्मनः । प्रेयः । अस्तु । ते ॥
यत् । ते । शुक्रम् । तन्वः । रोचते । शुचि । तेन । अस्मभ्यम् । वनसे । रत्नम् । आ । त्वम् ॥ ११ ॥
 
हे “अग्ने “इदम् अस्मदीयं सोमादिरूपं हविः । कीदृशं तत् । “दुर्धितात् दुष्टं स्थापितात् कठिनात् काष्ठादेः “अधि उपरि “सुधितं सुहितं सुष्ठु दत्तम् । “मन्मनः मननीयात् “प्रियादु चित् तव हृद्यादपि । उशब्दोऽवधारणे । चिच्छब्दोऽपिशब्दार्थः । “ते तव “प्रेयः अतिप्रियतमम् अस्तु । तत्किमित्याह । हे अग्ने “ते तव “तन्वः शरीरस्य घृतेनोज्ज्वलिताया ज्वालायाः “शुचि निर्मलं “शुक्रं दीप्तं “यत् तेजः “रोचते “तेन सह "रत्नं रमणीयं मणिमुक्तादिकं वितरन् “अस्मभ्यं “वनसे अस्मान् संभजस्व ॥ वनतेर्व्यत्ययेनात्मनेपदम् ॥
 
 
रथा॑य॒ नाव॑मु॒त नो॑ गृ॒हाय॒ नित्या॑रित्रां प॒द्वतीं॑ रास्यग्ने ।
 
अ॒स्माकं॑ वी॒राँ उ॒त नो॑ म॒घोनो॒ जनाँ॑श्च॒ या पा॒रया॒च्छर्म॒ या च॑ ॥
 
रथाय । नावम् । उत । नः । गृहाय । नित्यऽअरित्राम् । पत्ऽवतीम् । रासि । अग्ने ।
 
अस्माकम् । वीरान् । उत । नः । मघोनः । जनान् । च। या । पारयात् । शर्म। या । च ॥१२॥
 
हे “अग्ने “उत अपि च “रथाय रंहणाय "गृहाय सर्वस्यायतनभूताय “नः अस्माकं यजमानाय “नावं संसारोत्तारिकां सोमयागात्मिकां नावम् । 'यज्ञो वै सुतर्मा नौः ' ( ऐ. ब्रा. १. १३ ) इत्यादिषु श्रुतिषु नौरूपत्वेन स्तुतत्वात् । कीदृशीं ताम् । “नित्यारित्रां नियतर्त्विग्रूपोदकाकर्षणकाष्ठसाधनोपेतां “पद्वतीम् ॥ ‘ह्रस्वनुड्भ्याम्' इति मतुप उदात्तत्वम् ।। द्रव्यदेवतामन्त्रादिरूपपादोपेताम् । ईदृशीं यज्ञात्मिकां नावं “रासि देहि संपादय । रातिर्दानकर्मा ‘ दासति राति (नि. ३. २०. ४ ) इति तन्नामसु पाठात् । सैव विशेष्यते । "उत अपि च "या नौः "अस्माकं “वीरान अस्मत्संबन्धिनः पुत्रादीन् मघोनः हविर्लक्षणान्नवतः करोति । "जनांश्च यजमानानस्मानपि या नौः “पारयात् पारयेत् उत्तारयेत् ॥ पारयतेर्लेटि आडागमः ॥ जननमरणादिबहुदुःखात्मकस्य पारं निरतिशयसुखास्पदं ब्रह्मलोकं प्रापयेत् । एष वः पुण्यः सुकृतो ब्रह्मलोकः' (मु. उ. १.३.६) इति यागाद्यनुष्ठानवता श्रूयमाणत्वात्। एवं प्रापय्य “च या नौः "शर्म सुखं निरतिशयं ब्रह्म प्रापयेत् ‘परस्यान्ते कृतात्मानः प्रविशन्ति परं पदम् ' इत्युक्तत्वात् । चित्तशुद्ध्युत्पादनद्वारा विविदिषन्ति यज्ञेन दानेन' (बृ. उ. ४. ४. २२ ) इति श्रुतेः ।।
 
 
अ॒भी नो॑ अग्न उ॒क्थमिज्जु॑गुर्या॒ द्यावा॒क्षामा॒ सिन्ध॑वश्च॒ स्वगू॑र्ताः ।
 
गव्यं॒ यव्यं॒ यन्तो॑ दी॒र्घाहेषं॒ वर॑मरु॒ण्यो॑ वरन्त ॥
 
अभि । नः । अग्ने । उक्थम् । इत् । जुगुर्याः । द्यावाक्षामा । सिन्धवः । च । स्वऽगूर्ताः ।
 
गव्यम् । यव्यम् । यन्तः । दीर्घा । अहा । इषम् । वरम् । अरुण्यः । वरन्त ॥ १३ ॥
 
हे अग्ने "नः "उक्थं शस्त्रम् "अभि "जुगुर्याः आभिमुख्येन स्तुहि प्रोत्साहय सम्यक् शस्तमित्यङ्गीकुरु॥ ‘गॄ शब्दे'। लिङि ‘बहुलं छन्दसि' इति विकरणस्य श्लुः । ‘बहुलं छन्दसि' इति उत्वम् ॥ तथा “द्यावाक्षामा द्यावापृथिव्यावपि यज्ञसाधनसंपादनेन प्रोत्साहयताम् । तथा “सिन्धवः स्यन्दनशीला नद्यः च "स्वगूर्ताः स्वयमेव गामिन्यः “गव्यं गोसंभवं क्षीरादिकं गवां तृणाद्युत्पादनद्वारा "यव्यम् । उपलक्षणमेतत् । यवव्रीह्यादिजन्यं पुरोडाशादिकं "यन्तः प्रापयन्तः प्रोत्साहयन्तु । तथा "अरुण्यः अरूणवर्णगोयुक्ताः ॥ मत्वर्थीयो लुप्यते ॥ अरुण्यसाधनभूताः उषसः । तद्धेतुत्वात् ताच्छब्द्यम् । "दीर्घाहा सर्वाण्यहानि सर्वकालम् "इषम् इष्यमाणमन्नरसादिकं "वरं वरणीयं श्रेष्ठम् अन्यदपि यागसाधनं वरन्त प्रापयन्तु ।। ‘वृङ् संभक्तौ ' । अन्तर्भावितण्यर्थात् छान्दसो लङ् । व्यत्ययेन शप् ॥ साधयन्तु । एतत्सर्वमग्नेः प्रसादात् इत्यग्नेरेव स्तुतित्वात् आग्नेयत्वमविरुद्धम् ॥ ॥७॥
 
 
 
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.१४०" इत्यस्माद् प्रतिप्राप्तम्