"मैत्रायण्युपनिषत्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १७:
मैत्रायणी कौषितकी बृहज्जाबालतापनी ।
कालाग्निरुद्रमैत्रेयी सुबालक्षुरमन्त्रिका ।
</poem>
ॐ बृहद्रथो ह वै नाम राजा राज्ये ज्येष्ठं पुत्रं
निधापयित्वेदमशाश्वतं मन्यमानः शारीरं
Line २८ ⟶ २९:
प्रश्नमैक्ष्वाकान्यान्कामान्वृणीश्वेति शाकायन्यस्य
चरणवभिमृश्यमानो राजेमां गाथां जगाद ॥ १.१॥
 
भगवन्नस्थिचर्मस्नायुमज्जामांसशुक्रशोणितश्लेष्माश्रुदू
षिते विण्मूत्रवातपित्तकफसङ्घाते दुर्गन्धे
निःसारेऽस्मिञ्च्हरीरे किं कामोपभोगैः ॥ १.२॥
 
कामक्रोधलोभभयविषादेर्ष्येष्टवियोगानिष्टसंप्रयोगक्षु
त्पिपासाजरामृत्युरोगशोकाद्यैरभिहतेऽस्मिञ्च्हरीरे किं
कामोपभोगैः ॥ १.३॥
 
सर्वं चेदं क्षयिष्णु पश्यामो यथेमे
दंशमशकादयस्तृणवन्नश्यतयोद्भूतप्रध्वंसिनः ॥ १.४॥
 
अथ किमेतैर्वा परेऽन्ये महाधनुर्धराश्चक्रवर्तिनः
केचित्सुद्युम्नभूरिद्युम्नेन्द्रद्युम्नकुवलयाश्वयौवनाश्ववद्धिया
Line ४२ ⟶ ४७:
राजानो मिषतो बन्धुवर्गस्य महतीं श्रियं
त्यक्त्वास्माल्लोकादमुं लोकं प्रयान्ति ॥ १.५॥
 
अथ किमेतैर्वा परेऽन्ये
गन्धर्वासुरयक्षराक्षसभूतगणपिशाचोरगग्रहादीनां
निरोधनं पश्यामः ॥ १.६॥
 
अथ किमेतैर्वान्यानां शोषणं महार्णवानां शिखरिणां
प्रपतनं ध्रुवस्य प्रचलनं स्थानं वा तरूणां
Line ५३ ⟶ ६०:
भगवंस्त्वं नो गतिस्त्वं नो गतिः ॥ १.७॥ इति प्रथमः
प्रपाठकः ॥
 
\ह्रुले
 
अथ भगवाञ्च्हाकायन्यः सुप्रीतोऽब्रवीद्राजानं महाराज
बृहद्रथेक्ष्वाकुवंशध्वजशीर्षात्मजः कृतकृत्यस्त्वं
मरुन्नाम्नो विश्रुतोऽसीत्ययं वा व खल्वात्मा ते कतमो
भगवान्वर्ण्य इति तं होवाच इति ॥ २.१॥
 
य एषो बाह्यावष्टम्भनेनोर्ध्वमुत्क्रान्तो
व्यथमानोऽव्यथमानस्तमः प्रणुदत्येष आत्मेत्याह
Line ६३ ⟶ ७२:
परं ज्योतिरुपसंपद्य स्वेन रूपेणाभिनिष्पद्यत एष आत्मेति
होवाचैतदमृतमभयमेतद्ब्रह्मेति ॥ २.२॥
 
अथ खल्वियं ब्रह्मविद्या सर्वोपनिषद्विद्या वा राजन्नस्माकं
भगवता मैत्रेयेण व्याख्याताहं ते
Line ७१ ⟶ ८१:
येनैतद्विधमिदं चेतनवत्प्रतिष्ठापितं प्रचोदयितास्य को
भगवन्नेतदस्माकं ब्रूहीति तान्होवाच ॥ २.३॥
 
यो ह खलु वाचोपरिस्थः श्रूयते स एव वा एष शुद्धः
पूतः शून्यः शान्तो प्राणोऽनीशत्माऽनन्तोऽक्षय्यः स्थिरः
Line ७८ ⟶ ८९:
चेतनवत्प्रतिष्ठापितं प्रचोदयिता चैषोऽस्येति कथमिति
तान्होवाच ॥ २.४॥
 
स वा एष सूक्ष्मोऽग्राह्योऽदृश्यः पुरुषसंज्ञको
बुद्धिपूर्वमिहैवावर्ततेंऽशेन सुषुप्तस्यैव बुद्धिपूर्वं
Line ८६ ⟶ ९८:
चैषोऽस्येति ते होचुर्भगवन्नीदृशस्य कथमंशेन
वर्तनमिति तान्होवाच ॥ २.५॥
 
प्रजापतिर्वा एषोऽग्रेऽतिष्ठत्स नारमतैकः स
आत्मनमभिध्यायद्बव्हीः प्रजा असृजत्त अस्यैवात्मप्रबुद्धा
Line ९३ ⟶ १०६:
पJण्चधात्मानं प्रविभज्योच्यते यः प्राणोऽपानः समान
उदानो व्यान इति ॥ २.६॥
 
अथ योऽयमूर्ध्वमुत्क्रामतीत्येष वाव स प्राणोऽथ
योयमावJण्चं संक्रामत्वेष वाव सोऽपानोऽथ योयं
Line ९९ ⟶ ११३:
निगिरतीति चैष वाव स उदानोऽथ येनैताः शिरा
अनुव्याप्ता एष वाव स व्यानः ॥ २.७॥
 
अथोपांशुरन्तर्याम्यमिभवत्यन्तर्याममुपांशुमेतयोरन्तराले
चौष्ण्यं मासवदौष्ण्यं स पुरुषोऽथ यः पुरुषः
Line १०५ ⟶ १२०:
तस्यैष घोषो भवति यदेतत्कर्णावपिधाय शृणोति स
यदोत्क्रमिष्यन्भवति नैनं घोषं शृणोति ॥ २.८॥
 
स वा एष पJण्चधात्मानं प्रविभज्य निहितो गुहायां
मनोमयः प्राणशरीरो बहुरूपः सत्यसं कल्प आत्मेति स वा
Line ११४ ⟶ १३०:
नेदं शरीरं चेतनवत्प्रतिष्ठापितं प्रचोदयिता
चैषोऽस्येति ॥ २.९॥
 
स वा एष आत्मेत्यदो वशं नीत इव सितासितैः
कर्मफलैरभिभूयमान इव प्रतिशरीरेषु
चरत्यव्यक्तत्वात्सूक्ष्मत्वाददृश्यत्वादग्राह्यत्वान्निर्ममत्वा
च्चानवस्थोऽकर्ता कर्तेवावस्थितः ॥ २.१०॥
 
स वा एष शुद्धः स्थिरोऽचलश्चालेपोऽव्यग्रो निःस्पृहः
प्रेक्षकवदवस्थितः स्वस्य चरितभुग्गुणमयेन
पटेनात्मानमन्तर्धीयावस्थित इत्यवस्थित इति ॥ २.११॥ इति
द्वितीयः प्रपाठकः ॥
 
\ह्रुले
 
ते होचुर्भगवन्यद्येवमस्यात्मनो महिमानं सूचयसीत्यन्यो
वा परः कोऽयमात्मा सितासितैः कर्मफलैरभिभूयमानः
Line १२८ ⟶ १४७:
द्वन्द्वैरभिभूयमानः परिभ्रमतीति कतम एष इति
तान्होवाच ॥ ३.१॥
 
अस्ति खल्वन्योऽपरो भूतात्मा योऽयं सितासितैः
कर्मफलैरभिभूयमानः सदसदयोनिमापद्यत इत्यवाचीं
Line १४४ ⟶ १६४:
मन्यमानो निबध्नात्यात्मनात्मानं जालेनैव खचरः
कृतस्यानुफलैरभिभूयमानः परिभ्रमतीति ॥ ३.२॥
 
अथान्यत्राप्युक्तं यः कर्ता सोऽयं वै भूतात्मा करणैः
कारयितान्तःपुरुषोऽथ यथाग्निनायःपिण्डो वाभिभूतः
Line १५३ ⟶ १७४:
हन्यमाने नाग्निरभिभूयत्येवं नाभिभूयत्यसौ
पुरुषोऽभिभूयत्ययं भूतात्मोपसंश्लिष्टत्वादिति ॥ ३.३॥
 
अथान्यत्राप्युक्तं शरीरमिदं मैथुनादेवोद्भूतं
संविदपेतं निरय एव मूत्रद्वारेण
Line १५८ ⟶ १८०:
चर्मणावबद्धं विण्मूत्रपित्तकफमज्जामेदोवसाभिरन्यैश्च
मलैर्बहुभिः परिपूर्णं कोश इवावसन्नेति ॥ ३.४॥
 
अथान्यत्राप्युक्तं संमोहो भयं विषादो निद्रा तन्द्री व्रणो
जरा शोकः क्षुत्पिपासा कार्पण्यं क्रोधो नास्तिक्यमङ्य़ानं
Line १६९ ⟶ १९२:
तस्मान्नानारूपाण्याप्नोतीत्याप्नोतीति ॥ ३.५॥ तृतीयः
प्रपाठकः ॥
 
\ह्रुले
 
ते ह खल्वथोर्ध्वरेतसोऽतिविस्मिता अतिसमेत्योचुर्भगवन्नमस्ते
त्वं नः शाधि त्वमस्माकं गतिरन्या न विद्यत इत्यस्य
कोऽतिथिर्भूतात्मनो येनेदं हित्वामन्येव सायुज्यमुपैति
तान्होवाच ॥ ४.१॥
 
अथान्यत्राप्युक्तं महानदीषूर्मय इव निवर्तकमस्य
यत्पुराकृतं समुद्रवेलेव दुर्निवार्यमस्य मृत्योरागमनं
Line १८५ ⟶ २१०:
येऽर्था अनर्था इव ते स्थिताः । येष्वासक्तस्तु भूतात्मा न
स्मरेच्च परं पदम् ॥ ४.२॥
 
अयं वा व खल्वस्य प्रतिविधिर्भूतात्मनो यद्येव
विद्याधिगमस्य धर्मस्यानुचरणं स्वाश्रमेष्वानुक्रमणं
Line १९४ ⟶ २२०:
तपसा प्राप्यते सत्त्वं सत्त्वात्सम्प्राप्यते मनः ।
मनसा प्राप्यते त्वात्मा ह्यात्मापत्त्या निवर्तत इति ॥ ४.३॥
 
अत्रैते श्लोका भवन्ति ॥
यथा निरिन्धनो वह्निः स्वयोनावुपशाम्यति ।
Line २१२ ⟶ २३९:
एतज्ङ्य़ानं च मोक्षं च शेषास्तु ग्रन्थविस्तराः ॥ ८॥
समाधिनिर्धूतमलस्य चेतसो
निवेशितस्यात्मनि यत्सुखं लभेत् ।
न शक्यते वर्णयितुं गिरा तदा
स्वयं तदन्तःकरणेन गृह्यते ॥ ९॥
अपामपोऽग्निरग्नौ वा व्योम्नि व्योम न लक्षयेत् ।
एवमन्तर्गतं चित्तं पुरुषः प्रतिमुच्यते ॥ १०॥
Line २२८ ⟶ २५५:
नमः शान्तात्मने तुभ्यं नमो गुह्यतमाय च ।
अचिन्त्यायाप्रमेयाय अनादिनिधनाय चेति ॥ १५॥ ॥ ४.४॥
 
तमो वा इदमेकमास तत्पश्चात्परेणेरितं विषयत्वं
प्रयात्येतद्वै रजसो रूपं तद्रजः खल्वीरितं विषमत्वं
Line २४२ ⟶ २७०:
सर्वभूतानामधिपतिर्बभूवेत्यसावात्मान्तर्बहिश्चान्तर्बहिस्
ह्च ॥ ४.५॥ चतुर्थः प्रपाठकः ॥
 
\ह्रुले
 
द्विधा वा एष आत्मानं बिभर्त्ययं यः प्राणो
यश्चासावादित्योऽथ द्वौ वा एतावास्तां पJण्चधा
Line २५३ ⟶ २८२:
यः पश्यति मां हिरण्यवत्स एषोऽन्तरे हृत्पुष्कर
एवाश्रितोऽन्नमत्ति ॥ ५.१॥
 
अथ य एषोऽन्तरे हृत्पुष्कर एवाश्रितोऽन्नमत्ति स
एषोऽग्निर्दिवि श्रितः सौरः कालाख्योऽदृश्यः
Line २६० ⟶ २९०:
प्राणादित्यावेतावुपासीतोमित्यक्षरेण व्याहृतिभिः सावित्र्या
चेति ॥ ५.२॥
 
द्वे वाव ब्रह्मणो रूपे मूर्तं चामूर्तं चाथ यन्मूर्तं
तदसत्यं यदमूर्तं तत्सत्यं तद्ब्रह्म यद्ब्रह्म
Line २६६ ⟶ २९७:
प्रोतं चैवास्मिन्नित्येवं ह्याहैतद्वा आदित्य ओमित्येवं
ध्यायंस्तथात्मानं युJण्जीतेति ॥ ५.३॥
 
अथान्यत्राप्युक्तमथ खलु य उद्गीथः स प्रणवो यः प्रणवः
स उद्गीथ इत्यसावादित्य उद्गीथ एव प्रणव इत्येवं
Line २७६ ⟶ ३०८:
बोधयीत इत्येवं ह्याहैतदेवाक्षरं पुण्यमेतदेवाक्षरं
ज्ङ्य़ात्वा यो यदिच्च्हति तस्य तत् ॥ ५.४॥
 
अथान्यत्राप्युक्तं स्तनयत्येपास्य तनूर्या ओमिति
स्त्रीपुंनपुंसकमिति लिण्गवत्येषाथाग्निर्वायुरादित्य इति
Line २८७ ⟶ ३२०:
भवतीत्येवं ह्याहैतद्वै सत्यकाम परं चापरं च
यदोमित्येतदक्षरमिति ॥ ५.५॥
 
अथ व्यात्तं वा इदमासीत्सत्यं प्रजापतिस्तपस्तप्त्वा
अनुव्याहरद्भूर्भुवःस्वरित्येषा हाथ प्रजापतेः स्थविष्ठा
Line २९८ ⟶ ३३२:
सर्वमन्तर्हितमस्मि।cंश्च सर्वस्मिन्नेषान्तर्हितेति
तस्मादेषोपासीतेति ॥ ५.६॥
 
तत्सवितुर्वरेण्यमित्यसौ वा आदित्यः सविता स वा एवं
प्रवरणाय आत्मकामेनेत्याहुर्ब्रह्मवादिनोऽथ भर्गो देवस्य
Line ३१९ ⟶ ३५४:
कार्यकारणनिर्मुक्तं निर्वचनमनौपम्यं निरुपाख्यं किं
तदण्ग वाच्यम् ॥ ५.७॥
 
एष हि खल्वात्मेशानः शंभुर्भवो रुद्रः
प्रजापतिर्विश्वसृड्ढिरण्यगर्भः सत्यं प्राणो हंसः शान्तो
Line ३२९ ⟶ ३६५:
तपन्तम् । सहस्ररश्मिः शतधा वर्तमानः प्राणः
प्रजानामुदयत्येष सूर्यः ॥ ५.८॥ इति पJण्चमः प्रपाठकः ॥
 
\ह्रुले
 
। अथ प्रपाठक ६ ।
द्विधा वा एष आत्मानं बिभर्त्ययं यः प्राणो
Line ३४१ ⟶ ३७८:
पश्यतीमां हिरण्यवस्थात् स एषोऽन्तरे हृत्पुष्कर
एवाश्रितोऽन्नमत्ति ॥ ६.१॥
 
अथ य एषोऽन्तरे हृत्पुष्कर एवाश्रितोऽन्नमत्ति स एषोऽग्निर्दिवि
श्रितः सौरः कालाख्योऽदृश्यः सर्वभूतान्यन्नमत्तीति कः
Line ३४८ ⟶ ३८६:
प्राणादित्या एता उपासितोमित्येतदक्षरेण व्याहृतिभिः
सावित्र्या चेति ॥ ६.२॥
 
द्वे वाव ब्रह्मणो रूपे मूर्तं चामूर्तं च । अथ यन्मूर्तं
तदसत्यम् यदमूर्तं तत्सत्यम् तद्ब्रह्म तज्ज्योतिः यज्ज्योतिः स
Line ३५३ ⟶ ३९२:
ओमिति तिस्रो मात्रा एताभिः सर्वमिदमोतं प्रोतं चैवास्मीति एवं
ह्याहैतद्वा आदित्य ओमित्येवं ध्यायत आत्मानं युञ्जीतेति ॥ ६.३॥
 
अथान्यत्रापि उक्तमथ खलु य उद्गीथः स प्रणवो यः प्रणवः
स उद्गीथ इति असौ वा आदित्य उद्गीथ एष प्रणवा इति । एवं
Line ३६४ ⟶ ४०४:
एतदेवाक्षरं पुण्यमेतदेवाक्षरं परम् ।
एतदेवाक्षरं ज्ञात्वा यो यदिच्च्हति तस्य तत् ॥ ॥ ६.४॥
 
अथान्यत्राप्युक्तं स्वनवत्येषास्यस्तनुर्या ओमिति स्त्रीपुंनपुंसकेति
लिङ्गवती एषाऽथाग्निर्वायुरादित्य इति भास्वति एषा अथ ब्रह्म
Line ३७८ ⟶ ४१९:
भवन्तीति एवं ह्याहैतद्वै सत्यकाम परां चापरां
च ब्रह्म यदोमित्येतदक्षरमिति ॥ ६.५॥
 
अथाव्याहृतं वा इदमासीत् स सत्यं
प्रजापतिस्तपस्तप्त्वाऽनुव्याहरद्भूर्भुवःस्वरिति ।
Line ३९० ⟶ ४३२:
वै प्रजापतेर्विश्वभृत्तनुरेतस्यामिदं सर्वमन्तर्हितमस्मिन्
च सर्वस्मिन्नेषा अन्तर्हितेति तस्मादेषोपासीता ॥ ६.६॥
 
तत्सवितुर्वरेण्यमित्यसौ वा आदित्यः सविता स वा एवं प्रवरणीय
आत्मकामेनेत्याहुर्ब्रह्मवादिनोऽथ भर्गो देवस्य धीमहीति
Line ४११ ⟶ ४५४:
विज्ञानं कार्यकारणकर्मनिर्मुक्तं निर्वचनमनौपम्यं निरुपाख्यां
किं तदवाच्यम् ॥ ६.७॥
 
एष हि खल्वात्मेशानः शम्भुर्भवो रुद्रः प्रजापतिर्विश्वसृक्
हिरण्यगर्भः सत्यं प्राणो हंसः शास्ता विष्णुर्नारायणोऽर्कः
Line ४२० ⟶ ४६४:
सहस्ररश्मिः शतधा वर्तमानः प्राणः प्रजानामुदयत्येष सूर्यः ॥
॥ ६.८॥
 
तस्माद्वा एष उभयात्मैवं विदात्मन्येवाभिद्यायत्यात्मन्येव
यजतीति ध्यानं प्रयोगस्थं मनो विद्वद्भिष्टुतं
Line ४३८ ⟶ ४८३:
सर्वाः प्रजास्तत्र यत्र विश्वामृतोऽसीति एवं न विधिना
खल्वनेनात्तानत्वं पुनरुपैति ॥ ६.९॥
 
अथापरं वेदितव्यमुत्तरो विकारोऽस्यात्मयज्ञस्य यथान्नमन्नादश्चेति
अस्योपव्याख्यानं पुरुषश्चेता प्रधानान्तःस्थः स एव भोक्ता
प्राकृतमन्नं भुङ्क्त इति तस्यायं भूतात्मा ह्यन्नमस्यकर्ता
Line ४७० ⟶ ५१५:
प्रविष्टाः स्पृशतीन्द्रियार्थान् तद्वद् यो न स्पृशति
प्रविष्टान् संन्यासी योगी चात्मयाजी चेति ॥ ६.१०॥
 
परं वा एतदात्मनो रूपं यदन्नमन्नमयो ह्ययं प्राणोऽथ न
यद्यश्नात्यमन्ताऽश्रोताऽस्प्रष्टाऽद्रष्टाऽवक्ताऽघ्रातारसयिता
Line ४८० ⟶ ५२६:
याः कश्चित्पृथिवीशृताः । अतोऽन्नेनैव जीवन्ति अथैतदपि यन्ति
अन्ततः ॥ ६.११॥
 
अथान्यत्रापि उक्तम् सर्वाणि ह वा इमानि भूतान्यहरहः
प्रपतन्त्यन्नमभिजिघृक्षमाणानि सूर्यो रश्मिभिराददात्यन्नं
Line ४८८ ⟶ ५३५:
वर्धन्ते अद्यतेऽत्ति च भूतानि
तस्मादन्नं तदुच्यते ॥ ६.१२॥
 
अथान्यत्रापि उक्तम् \ः विश्वभृद्वै नामैषा तनुर्भगवतो
विष्णोर्यदिदमन्नं प्राणो वा अन्नस्य रसो मनः प्राणस्य
Line ४९६ ⟶ ५४४:
अन्नमेव विजरन्नमन्नं संवननं स्मृतम् । अन्नं पशूनां
प्राणोऽन्नं ज्येष्ठमन्नं भिषक् स्मृतम् ॥ ६.१३॥
 
अथान्यात्रप्युक्तम् \ः अन्नं वा अस्य सर्वस्य योनिः कालश्चान्नस्य
सूर्यो योनिः कालस्य तस्यैतद्रूपं यन् निमेषादिकालात्सम्भृतं
Line ५०९ ⟶ ५५८:
कालात्स्रवन्ति भूतानि कालाद्वृद्धिं प्रयान्ति च ।
काले चास्तं नियच्च्हन्ति कालो मूर्तिरमूर्तिमान् ॥ ॥ ६.१४॥
 
द्वे वाव ब्रह्मणो रुपे कालश्चाकालश्चाथ यः
प्रागादित्यात्सोऽकालोऽकालोऽथ
Line ५१७ ⟶ ५६७:
ब्रह्मनीडमात्मा
चेत्येवं ह्याह
 
कालः पचति भूतानि सर्वाण्येव महात्मनि ।
 
यस्मिन् तु पच्यते कालो यस्तं वेद स वेदवित् ॥ ॥ ६.१५॥
 
विग्रहवानेष कालः सिन्धुराजः प्रजानाम् एष तत्स्थः सविताख्यो
यस्मादेवेमे चन्द्रर्क्षग्रह संवत्सरादयः सूयन्ते अथैभ्यः
Line ५२४ ⟶ ५७७:
तदेतेभ्यस्तस्मादादित्यात्मा ब्रह्माथ कालसंज्ञमादित्यमुपासीतादित्यो
ब्रह्मेत्येकेऽथ एवं ह्याह ।
 
होता भोक्ता हविर्मन्त्रो यज्ञो विष्णुः प्रजापतिः ।
 
सर्वः कश्चित्प्रभुः साक्षी योऽमुष्मिन्भाति मण्डले ॥ ॥ ६.१६॥
 
ब्रह्म ह वा इदमग्र आसीत् एकोऽनन्तः प्रागनन्तो दक्षिणोऽनन्तः
प्रतीच्यनन्त उदीच्यनन्त ऊर्ध्वान् चाऽवान् च सर्वतोऽनन्तः
Line ५३८ ⟶ ५९४:
यश्चायं हृदये यश्चासावादित्ये स एष एका इत्येकस्य हैकत्वमेति
य एवं वेद ॥ ६.१७॥
 
तथा तत्प्रयोगकल्पः प्राणायामः प्रत्याहारो ध्यानं धारणा
तर्कः समाधिः षडङ्गा इत्युच्यते योगः अनेन यदा पश्यन्पश्यति
रुक्मवर्णं कर्तारमीशं पुरुषं ब्रह्मयोनिम् तदा विद्वान्पुण्यपापे
विहाय परेऽव्यये सर्वमेकीकरोति एवं ह्याह \ः
 
यथा पर्वतमादीप्तं नाश्रयन्ति मृगद्विजाः ।
 
तद्वद्ब्रह्मविदो दोषा नाश्रयन्ति कदाचन ॥
॥ ६.१८॥
 
अथान्यत्राप्युक्तम् \ः यदा वै बहिर्विद्वान्मनो नियम्येन्द्रियार्थान्
च प्राणो निवेशयित्वा निःसङ्कल्पस्ततस्तिष्ठेत् अप्राणादिह
यस्मात्सम्भूतः प्राणसंज्ञको जीवस्तस्मात्प्राणो वै तुर्याख्ये
धारयेत्प्राणम् इत्येवं ह्याह \ः
 
अचित्तं चित्तमध्यस्तमचिन्त्यं गुह्यमुत्तमम् ।
 
तत्र चित्तं निधायेत तच्च लिङ्गं निराश्रयम् ॥ ॥ ६.१९॥
 
अथान्यत्राप्युक्तम् \ः अतः परास्य धारणा तालुरसनाग्रनिपीडना
द्वाङ्मनःप्राणनिरोधनाद्ब्रह्म तर्केण पश्यति यदात्मनाऽऽत्मान
Line ५५६ ⟶ ६१९:
दृष्ट्वा निरात्मा भवति निरात्मकत्वादसङ्ख्योऽयोनिश्चिन्त्यो
मोक्षलक्षणमित्येतत्परं रहस्यम् इत्येवं ह्याह \ः
 
चित्तस्य हि प्रसादेन हन्ति कर्म शुभाशुभम् ।
 
प्रसन्नात्मात्मनि स्थित्वा सुखमव्ययमश्नुता इति ॥ ॥ ६.२०॥
 
अथान्यत्राप्युक्तम् \ः ऊर्ध्वगा नाडी सुषुम्नाख्या
प्राणसञ्चारिणी
Line ५६६ ⟶ ६३२:
निरात्मकत्वान्न सुखदुःखभाग्भवति केवलत्वं लभता इत्येवं
ह्याह \ः
 
परः पूर्वं प्रतिष्ठाप्य निगृहीतानिलं ततः ।
 
तीर्त्वा पारमपारेण पश्चाद्युञ्जीत मूर्ध्वनि ॥ ॥ ६.२१॥
 
अथान्यत्राप्युक्तम् \ः द्वे वा व ब्रह्मणी अभिध्येये
शब्दश्चाशब्दश्च
Line ५८३ ⟶ ६५२:
गताः तत्र तेऽपृथग्धर्मिणोऽपृथग्विवेक्या यथा सम्पन्ना
मधुत्वं नानारसा इत्येवं ह्याह \ः
 
द्वे ब्रह्मणि वेदितव्ये शब्दब्रह्म परां च यत् ।
 
शब्दब्रह्मणि निष्णातः परं ब्रह्माधिगच्च्हति ॥ ॥ ६.२२॥
 
अथान्यत्राप्युक्तम् \ः यः शब्दस्तदोमित्येतदक्षरम्
यदस्याग्रं तच्च्हान्तमशब्दमभयमशोकमानन्दं तृप्तं
स्थिरमचलममृतमच्युतं ध्रुवं विष्णुसंज्ञितं सर्वापरत्वाय
तदेता उपसीतेत्येवं ह्याह \ः
 
योऽसौ परापरो देवा ॐकारो नाम नामतः ।
 
निःशब्दः शून्यभूतस्तु मूर्ध्नि स्थाने ततोऽभ्यसेत् ॥ ॥ ६.२३॥
 
अथान्यत्राप्युक्तम् \ः धनुः शरीरम् ओमित्येतcच्हरः
शिखास्य मनः तमोलक्षणं भित्वा तमोऽतमाविष्टमागच्च्हति
Line ५९७ ⟶ ६७२:
विद्युति विभाति अथ खल्वेनं दृष्ट्वाऽमृतत्वं गच्च्हतीत्येवं
ह्याह \ः
 
ध्यानमन्तःपरे तत्त्वे लक्ष्येषु च निधीयते ।
 
अतोऽविशेषविज्ञानं विशेषमुपगच्च्हति ॥
 
मानसे च विलीने तु यत्सुखं चात्मसाक्षिकम् ।
 
तद्ब्रह्म चामृतं शुक्रं सा गतिर्लोक एव सः ॥ ॥ ६.२४॥
 
अथान्यत्राप्युक्तम् \ः निद्रेवान्तर्हितेन्द्रियः शुद्धितमया
धिया स्वप्न इव यः पश्यतीन्द्रियबिलेऽविवशः प्रणवाख्यं
Line ६०६ ⟶ ६८६:
च सोऽपि प्रणवाख्यः प्रणेता भारूपः विगत निद्रः विजरः
विमृत्युर्विशोको भवतीत्येवं ह्याह \ः
 
एवं प्राणमथोङ्कारं यस्मात्सर्वमनेकधा ।
 
युनक्ति युञ्जते वापि यस्माद्योग इति स्मृतः ॥
 
एकत्वं प्राणमनसोरिन्द्रियाणां तथैव च ।
 
सर्वभावपरित्यागो योग इत्यभिधीयते ॥ ॥ ६.२५॥
 
अथान्यत्राप्युक्तम् \ः यथा वाप्सु चारिणः शाकुनिकः
सूत्रयन्त्रेणोद्धृत्योदरेऽग्नौ जुहोत्येवं वा व
Line ६१८ ⟶ ७०३:
चैतद्रुद्रस्य रुद्रत्वमेतत्तदपरिमितधा चात्मानं विभज्य
पूरयतीमां लोकानित्येवं ह्याह \ः
 
वह्नेश्च यद्वत्खलु विस्फुलिङ्गाः सूर्यान्मयूखाश्च तथैव
वह्नेश्च यद्वत्खलु विस्फुलिङ्गाः सूर्यान्मयूखाश्च तथैव तस्य
तस्य
 
प्राणादयो वै पुनरेव तस्माद् अभ्युच्चरन्तीह यथाक्रमेण ॥
॥ ६.२६॥
 
अथान्यत्राप्युक्तम्\ःब्रह्मणो वा वैतत्तेजः परस्यामृतस्याशरीरस्य
यच्च्हरीरस्यौष्ण्यमस्यैतद्घृतमथाविः सन् नभसि निहितं
Line ६२९ ⟶ ७१६:
यथाग्न्ययस्कारादयो
नाभिभवन्ति प्रणश्यति चित्तं तथाश्रयेण सहैवमित्येवं ह्याह \ः
 
हृद्याकाशमयं कोशमानन्दं परमालयम् ।
 
स्वं योगश्च ततोऽस्माकं तेजश्चैवाग्निसूर्ययोः ॥ ॥ ६.२७॥
 
अथान्यत्राप्युक्तम् \ः भूतेन्द्रियार्थानतिक्रम्य ततः प्रव्रज्याज्यं
धृतिदण्डं धनुर्गृहीत्वाऽनभिमानमयेन चैवेषुणा तं ब्रह्म
Line ६४४ ⟶ ७३४:
तिष्ठमानम् दृष्ट्वाऽवृत्तचक्रमिव सञ्चारचक्रमालोकयति
इत्येवं ह्याह \ः
 
षड्{}भिर्मासैस्तु युक्तस्य नित्यमुक्तस्य देहिनः
 
अनन्तः परमो गुह्यः सम्यग्योगः प्रवर्तते ॥
 
रजस्तमोभ्यां विद्धस्य सुसमिद्धस्य देहिनः
 
पुत्रदारकुटुम्बेषु सक्तस्य न कदाचन ॥ ॥ ६.२८॥
पुत्रदारकुटुम्बेषु सक्तस्य न कदाचन ॥ ॥ ६.२८॥
एवमुक्त्वाऽन्तर्हृदयः शकायन्यस्तस्मै नमस्कृत्वाऽनया
ब्रह्मविद्यया राजन् ब्रह्मणः पन्थानमारूढाः पुत्राः
Line ६५४ ⟶ ७४९:
एतद्गुह्यतमं नापुत्राय नाशिष्याय नाशान्ताय कीर्तयेदिति
अनन्यभक्ताय सर्वगुणसम्पन्नाय दद्यात् ॥ ॥ ६.२९॥
 
ॐ शुचौ देशे शुचिः सत्त्वस्थः सदधीयानः सद्वादी
सद्ध्यायी सद्याजी स्यादिति । अतः सद्ब्रह्मणि सत्यभिलाषिणि
Line ६७३ ⟶ ७६९:
तमसः पारं गमिष्यति । अत्र हि सर्वे कामाः समाहिता
इत्यत्रोदाहरन्ति \ः
 
यदा पञ्चावतिष्ठन्ते ज्ञानानि मनसा सह ।
 
बुद्धिश न विचेष्टते तामाहुः परमां गतिम् ॥
 
एतदुक्त्वान्तर्हृदयः शाकायन्यस्तस्मै नमस्कृत्वा यथावदुपचारी
कृतकृत्यो मरुदुत्तरायणं गतो न ह्यत्रोद्वर्त्मना गतिः एषोऽत्र
ब्रह्मपथः सौरं स्द्वारं भित्त्वोर्द्ध्वेन विनिर्गता इत्यत्रोदाहरन्ति
\ः
 
अनन्ता रश्मयस्तस्य दीपवद्यः स्थितो हृदि ।
 
सितासिताः कद्रुनीलाः कपिला मृदुलोहिताः ॥
 
ऊर्ध्वमेकः स्थितस्तेषां यो भिभित्वा सूर्यमण्डलम् ।
 
ब्रह्मलोकमतिक्रम्य तेन यान्ति परां गतिम् ॥
 
यदस्यान्यद्रश्मिशतमूर्ध्वमेव व्यवस्थितम् ।
 
तेन देवनिकायानां स्वधामानि प्रपद्यते ॥
 
ये नैकरूपाश्चाधस्ताद्रश्मयोऽस्य मृदुप्रभाः ।
 
इह कर्मोपभोगाय तैः संसरति सोऽवषः ।
 
तस्मात्सर्गस्वर्गापवर्गहेतुर्भगवानसावादित्य इति ॥
॥ ६.३०॥
 
किमात्मकानि वा एतानीन्द्रियाणि प्रचरन्त्युद्गन्ता चैतेषामिह
को नियन्ता वेत्याह । प्रत्याहात्मात्मकानीत्यात्मा ह्येषामुद्गन्ता
Line ६९९ ⟶ ८०८:
यथैवेह बीजस्याङ्कुरावाथधूमार्चिर्विष्फुलिङ्गा इवाग्नेश्चेति
अत्रोदाहरन्ति \ः
 
वह्नेश्च यद्वत्खलु विष्फुलिङ्गाः
 
सूर्यान्मयूखाश्च तथैव तस्य ।
 
प्राणादयो वै पुनरेव तस्मा
 
दभ्युच्चरन्तीह यथाक्रमेण ॥ ॥ ६.३१॥
 
तस्माद्वा एतस्मादात्मनि सर्वे प्राणाः सर्वे लोकाः सर्वे वेदाः
सर्वे देवाः सर्वाणि च भूतान्युच्चरन्ति तस्योपनिषत्सत्यस्य सत्यमिति
Line ७१२ ⟶ ८२६:
पुराणम् विद्या उपनिषदः श्लोकाः सूत्राण्यनुव्याख्यानानि
व्याख्यानान्यस्यैवैतानि विश्वा भूतानि ॥ ६.३२॥
 
पञ्चेष्टको वा एषोऽग्निः संवत्सरः तस्येमा इष्टका यो
वसन्तो ग्रीष्मो वर्षाः शरद्धेमन्तः स
Line ७२७ ⟶ ८४२:
करोति यथात्मविदुत्क्षिप्य ब्रह्मणे प्रायच्च्हत्
तत्रानन्दी मोदी भवति ॥ ६.३३॥
 
पृथिवीगार्हपत्योऽन्तरिक्षं दक्षिणाग्निर्द्यौराहवनीयः
तत एव पवमानपावकशुचय आविष्कृतमेतेनास्य
Line ७३७ ⟶ ८५३:
यो बुद्ध्यन्तस्थो ध्यायीह मनःशान्तिपदमनुसरत्यात्मन्येव
धत्तेऽत्रेमे श्लोका भवन्ति \ः
 
१ यथा निरिन्धनो वह्निः स्वयोनावुपशाम्यते
 
तथा वृत्तिक्षयाच्चित्तं स्वयोनावुपशाम्यते ।
 
२ स्वयोनावुपशान्तस्य मनसः सत्यकामतः
 
इन्द्रियार्थविमूढस्यानृताः कर्मवशानुगाः ।
 
३ चित्तमेव हि संसारम् तत्प्रयत्नेन शोधयेत्
 
यच्चित्तस्तन्मयो भवति गुह्यमेतत्सनातनम् ।
 
४ चित्तस्य हि प्रसादेन हन्ति कर्म शुभाशुभम्
 
प्रसन्नात्मात्मनि स्थित्वा सुखमव्ययमश्नुते ।
 
५ समासक्तं यथा चित्तं जन्तोर्विषयगोचरे
 
यद्येवं ब्रह्मणि स्यात्तत्को न मुच्येत बन्धनात् ।
 
६ मनो हि द्विविधं प्रोक्तं शुद्धं चाशुद्धमेव च
 
अशुद्धं कामसम्पर्कात् शुद्धं कामविवर्जितम् ।
 
७ लय विक्षेपरहितं मनः कृत्वा सुनिश्चलम्
 
यदा यात्यमनीभावं तदा तत्परमं पदम् ।
 
८ तावन्मनो निरोद्धव्यं हृदि यावत्क्षयं गतम्
 
एतज्ज्ञानं च मोक्षं च शेषान्ये ग्रन्थविस्तराः ।
 
९ समाधिनिर्धौतमलस्य चेतसो निवेशितस्यात्मनि यत्सुखं भवेत्
 
न शक्यते वर्णयितुं गिरा तदा स्वयं तदन्तःकरणेन गृह्यते ।
 
१० अपामापोऽग्निरग्नौ वा व्योम्नि व्योम न लक्षयेत्
 
एवमन्तर्गतं यस्य मनः स परिमुच्यते ।
 
११ मन एव मनुष्याणं कारणं बन्धमोक्षयोः
 
बन्धाय विषयासंगिं मोक्षो निर्विषयं स्मृतम् ।
 
अतोऽनग्निहोत्र्यनग्निचिदज्ञानभिध्यायिनां ब्राह्मणः
पदव्योमानुस्मरणं विरुद्धम् तस्मादग्निर्यष्टव्यः चेतव्यः
स्तोतव्योऽभिध्यातव्यः ॥ ६.३४॥
 
नमोऽग्नये पृथिवी क्षिते लोकस्मृते लोकम्स्मै यजमानाय धेहि
 
नमो वायवेऽन्तरिक्षक्षिते लोकस्मृते लकमस्मै यजमानाय धेहि
 
नम आदित्याय दिविक्षिते लोकस्मृते लोकमस्मै यजमानाय धेहि
 
नमो ब्रह्मणे सर्वक्षिते सर्वस्मृते सर्वमस्मै यजमानाय धेहि
 
हिरण्मयेन पात्रेण सत्यस्यापिहितं मुखम्
 
तत्त्वं पूषन्नपावृणु सत्यधर्माय विष्णवे
 
योऽसा आदित्ये पुरुषः सोऽसा अहम् एष ह वै सत्यधर्मो यदादित्यस्य
आदित्यत्वं तच्च्हुक्लम् पुरुषम् अलिङ्गम् नभसोऽन्तर्गतस्य
Line ७७६ ⟶ ९२२:
नभसोऽन्तर्गतस्य तेजसोऽंशमात्रम् एतद्यदादित्यस्य मध्ये
यजुर्दीप्यत्यौमापोज्योतिरसोऽमृतंब्रह्म भूर्भुवः स्वरोम् ।
 
अष्टपादं शुचिं हंसं त्रिसूत्रमणुमव्ययम्
 
द्विधर्मोऽन्धं तेजसेन्धं सर्वं पश्यन्पश्यति
 
नभसोऽन्तर्गतस्य तेजसोऽन्शमात्रमेतद्यदादित्यस्य मध्ये उदित्वा
मयूखे भवत एतत्सवित्सत्यधर्म एतद्यजुरेतत्तप
Line ७८६ ⟶ ९३५:
समाहिता
इत्यत्रोदाहरन्ति --
 
अंशुधारय इवाणुवातेरितः संस्फुरत्यसावन्तर्गः सुराणाम्।
 
यो हैवंवित्स सवित् स द्वैतवित् सैकधामेतः स्यात्तदात्मकश्च ।
 
ये विन्दव इवाभ्युच्चरन्त्यजस्रम् विद्युदिवाभ्रार्चिषः परमे व्योमन् ।
 
तेऽर्चिषो वै यशस आश्रयवशाज्जटाभिरूपा इव कृष्णवर्त्मनः ॥ ६.३५॥
 
द्वे वाव खल्वेते ब्रह्मज्योतिषो रूपके शान्तमेकं समृद्धं चैकम् ।
 
अथ यच्छान्तं तस्याऽऽधारं खम् अथ यत्समृद्धमिदं तस्यान्नम्
 
तस्मान्मन्त्रौषधाज्यामिषपुरोडाशस्थालीपाकादिभिर्यष्टव्यमन्तर्वेद्याम्।
 
आस्न्यवशिष्टैरन्नपानैश्चाऽऽस्यमाहवनीयमिति मत्वा तेजसः समृद्ध्यै पुण्यलोकविजित्यर्थायामृतत्वाय चात्रोदाहरन्ति -
 
अग्निहोत्रं जुहुयात्स्वर्गकामो यमराज्यमग्निष्टोमेनाभियजति
 
सोमराज्यमुक्थेन सूर्यराज्यं षोडशिना स्वाराज्यमतिरात्रेण
 
प्राजापत्यमासहस्रसंवत्सरान्तक्रतुनेति ।
 
वर्त्याधारस्नेहयोगाद्यथा दीपस्य संस्थितिः ।
 
अन्तर्याण्डोपयोगादिमौ स्थितावात्मशुची तथा ॥
॥ ६.३६॥
 
तस्मादोमित्यनेनैतदुपासीतापरिमितं तेजस्तत्त्रेधभिहितमग्नावादित्ये
प्राणेऽथैषा नाड्यन्नबहुमित्येषाग्नौ हुतमादित्यं गमयति अतो यो
रसोऽस्रवत् स उद्गीथं वर्षति तेनेमे प्राणाः प्राणेभ्यः प्रजा
इत्यत्रोदाहरन्ति --
 
यद्धविरग्नौ हूयते तदादित्यं गमयति तत्सूर्यो रश्मिभिर्वर्षति
तेनान्नं भवति अन्नाद्भूतानामुत्पत्तिरित्येवं ह्याह ।
 
अग्नौ प्रास्ताहुतिः सम्यगादित्यमुपतिष्ठते ।
 
आदित्याज्जायते वृष्टिर्वृष्टेरन्नं ततः प्रजाः ॥
॥ ६.३७॥
 
अग्निहोत्रं जुह्वानो लोभजालं भिनत्ति अतः संमोहं छित्वा न क्रोधान्स्तुनष्वानः काममभिध्यायमानस्ततश्चतुर्जालं
ब्रह्मकोशं भिन्ददतः परमाकाशमत्र हि सौर सौम्याग्नेयसात्विकानि मण्डलानि भित्त्वा ततः शुद्धः
सत्त्वान्तरस्थमचलममृतमच्युतं ध्रुवं विष्णुसंज्ञितम् सर्वापरं धाम सत्यकामसर्वज्ञत्वसंयुक्तम् स्वतन्त्रम्
चैतन्यम् स्वे महिम्नि तिष्ठमानं पश्यति अत्रोदाहरन्ति --
 
रविमध्ये स्थितः सोमः सोममध्ये हुताशनः ।
 
तेजोमध्ये स्थितं सत्त्वं सत्त्वमध्ये स्थितोऽच्युतः ॥
 
शरीरप्रादेशाङ्गुष्ठमात्रमणोरप्यणुं ध्यात्वाऽतः परमतां गच्छति अत्र हि सर्वे कामाः समाहिता इति अत्रोदाहरन्ति --
अङ्गुष्ठप्रादेशशरीरमात्रं प्रदीपप्रतापवद्द्विस्त्रिधा हि।
तद्ब्रह्माभिष्टूयमानं महो देवो भुवनान्याविवेश ।
ॐ नमो ब्रह्मणे नमः ॥ ॥ ६.३८॥
 
इति षष्ठः प्रपाठकः ॥
 
 
7
Line ८३० ⟶ १,००२:
सर्वसृक् सर्वस्यात्मा सर्वभुक् सर्वस्येशानः
सर्वस्यान्तरान्तरः ॥ ७.१॥
 
इन्द्रस्त्रिष्टुप् पञ्चदशो बृहद्ग्रीष्मो व्यानः सोमो रुद्रा दक्षिणत
उद्यन्ति तपन्ति वर्षन्ति स्तुवन्ति पुनर्विशन्ति अन्तर्विवरेण
ईक्षन्ति \ः अनाद्यन्तोऽपरिमितोऽपरिच्च्हिन्नोऽपरप्रयोज्यः
स्वतन्त्रोऽलिङ्गोऽमूर्तोऽनन्तशक्तिर्धाता भास्करः ॥ ७.२॥
 
मरुतो जगती सप्तदशो वैरूपम् वर्षा अपानः शुक्र
आदित्याः पश्चादुद्यन्ति तपन्ति वर्षन्ति स्तुवन्ति पुनर्विशन्ति
अन्तर्विवरेणेक्षन्ति तच्च्हान्तमशब्दमभयमशोकमानन्दम् तृप्तम्
स्थिरमचलममृतमच्युतम् ध्रुवम् विष्णुसंज्ञितम् सर्वापरं
धाम ॥ ७.३॥
 
विश्वे देवा अनुष्टुबेकविंशो वैराजः शरत्समानो वरुणः साध्या
उत्तरत उद्यन्ति तपन्ति वर्षन्ति स्तुवन्ति पुनर्विशन्ति
अन्तर्विवरेणेक्षन्ति अन्तःशुद्धः पूतः शून्यः शान्तोऽप्राणो
निरात्मानन्तः ॥ ७.४॥
 
मित्रावरुणौ पङ्क्तिस्त्रिणवत्रयस्त्रिंशो शाक्वररैवते हेमन्त
शिशिरा उदानोऽङ्गिरसश्चन्द्रमा ऊर्ध्वा उद्यन्ति तपन्ति
Line ८४९ ⟶ १,०२४:
प्रणेतारम्
भारूपम् विगतनिद्रम् विजरम् विमृत्युम् विशोकम् ॥ ७.५॥
 
शनिराहुकेतुरगरक्षोयक्षनरविहगशरभेभादयोऽधस्तादुद्यन्ति
तपन्ति वर्षन्ति स्तुवन्ति पुनर्विशन्ति अन्तर्विवरेणेक्षन्ति
यः प्राज्ञो विधरणः सर्वान्तरोऽक्षरः शुद्धः पूतः भान्तः
क्षान्तः शान्तः ॥ ७.६॥
 
एष हि खल्वात्मन्तर्हृदयेऽणीयानिद्धोऽग्निरिव
विश्वरूपोऽस्यैवान्नमिदं
Line ८६५ ⟶ १,०४२:
हृदये यश्चासावादित्ये स एष एकः तस्मै ते विश्वरूपाय सत्ये
नभसि हिताय नमः ॥ ७.७॥
 
अथेदानीं ज्ञानोपसर्गा राजन्मोहजालस्यैष वै योनिः यदस्वर्गैः
सह स्वर्गस्यैष वाट्ये पुरस्तादुक्तेऽप्यधः स्तम्बेनाश्लिष्यन्ति
Line ८७९ ⟶ १,०५७:
भ्राम्यन्लोको न जानाति वेदविद्यान्तरन्तु यत् ॥
॥ ७.८॥
 
बृहस्पतिर्वै शुक्रो भूत्वेन्द्रस्याभयायासुरेभ्यः
क्षयायेमामविद्यामसृजत्
Line ८८५ ⟶ १,०६४:
वदन्ति अतो नैनामभिधीयेतान्यथैषा बन्ध्येवैषा रतिमात्रं
फलमस्या वृत्तच्युतस्येव नारम्भणीयेत्येवं ह्याह \ः
 
दूरमेते विपरीते विषूची अविद्या या च विद्येति ज्ञाता ।
 
विद्याभीप्सितुं नचिकेतसं मन्ये न त्वा कामा बहवो लोलुपन्ते ॥
 
विद्यां चाविद्यां च यस्तद्वेदोभयं सह ।
 
अविद्यया मृत्युं तीर्त्वा विद्यया अमृतमश्नुते ॥
 
अविद्यायामन्तरे वेष्ट्यमानाः स्वयं धीराः पण्डितं मन्यमानाः ।
 
दन्द्रम्यमानाः परियन्ति मूढा अन्धेनैव
नीयमाना यथान्धाः ॥ ॥ ७.९॥
 
देवासुरा ह वै य आत्मकामा ब्रह्मणोऽन्तिकं प्रयाताः तस्मै
नमस्कृत्वोचुः भगवन् वयमात्मकामाः स त्वं नो ब्रूहीति
Line ९०२ ⟶ १,०८८:
नावैदिकमधीयीतायमर्थः
स्यादिति ॥ ७.१०॥
 
एतद्वा व तत्स्वरूपं नभसः खेऽन्तर्भूतस्य यत्परं
तेजस्तत्त्रेधाभिहितमग्ना आदित्ये प्राण एतद्वा व तत्स्वरूपं
Line ९११ ⟶ १,०९८:
अथ कस्मादुच्यते वैद्युतो यस्मादुच्चारितमात्र एव सर्वं शरीरं
विद्योतयति तस्मादोमित्यनेनैतदुपासीतापरिमितं तेजः ।
 
१ पुरुषश्चक्षुषो योऽयं दक्षिणोऽक्षिण्यवस्थितः ।
 
इन्द्रोऽयमस्य जायेयं सव्ये चाक्षिण्यवस्थिता ॥
 
२ समागमस्तयोरेव हृदयान्तर्गते सुषौ ।
 
तेजस्तल्लोहितस्यात्र पिण्ड एवोभयोस्तयोः ॥
 
३ हृदयादायाति तावच्चक्षुष्यस्मिन्प्रतिष्ठिता ।
 
सारणी सा तयोर्नाडी द्वयोरेका द्विधा सती ॥
 
४ मनः कायाग्निमाहन्ति स प्रेरयति मारुतम् ।
 
मारुतस्तूरसि चरन्मन्द्रं जनयति स्वरम् ॥
 
५ खजाग्नियोगाद् हृदि सम्प्रयुक्तमणोर्ह्यणुर्द्विरणुः कण्ठदेशे ।
 
जिह्वाग्रदेशे त्र्यणुकं च विद्धि विनिर्गतं मातृकमेवमाहुः ॥
 
६ न पश्यन्मृत्युमं पश्यति न रोगं नोत दुःखताम् ।
 
सर्वं हि पश्यन्पश्यति सर्वमाप्नोति सर्वशः ॥
 
७ चाक्षुषः स्वप्नचारी च सुप्तः सुप्तात्परश्च यः ।
 
भेदाश्चैतेऽस्य चत्वारस्तेभ्यस्तुर्यं महत्तरम् ॥
 
८ त्रिष्वेकपाच्चरेद्ब्रह्म त्रिपाच्चरति चोत्तरे ।
 
सत्यानृतोपभोगार्थाः द्वैतीभावो महात्मन इति
 
द्वैतीभावो महात्मन इति ॥ ॥ ७.११॥
 
इति सप्तमः प्रपाठकः ॥
ॐ आप्यायन्त्विति शान्तिः ॥
इति मैत्रायण्युपनिषत्समाप्ता ॥
 
</poem>
 
== अधिकाध्ययनाय ==
"https://sa.wikisource.org/wiki/मैत्रायण्युपनिषत्" इत्यस्माद् प्रतिप्राप्तम्