"जैमिनीयं ब्राह्मणम्/काण्डम् १/१११-१२०" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
<poem><span style="font-size: 14pt; line-height: 200%">प्रजापतिः प्रजा असृजत। ता अप्राणा असृजत। ताभ्य एतेनैव साम्ना प्राणम् अदधात्। प्राणो वै गायत्रम्। सर्वम् आयुर् एति य एवं वेद। ताः प्राणं विविदाना रक्षांस्य् अन्वसचन्त। ता एतद् एव साम गायन्न् अत्रायत। यद् गायन्न् अत्रायत तद् गायत्रस्य गायत्रत्वम्। त्रायत एनं सर्वस्मात् पाप्मनो य एवं वेद
 
तद् ऊर्ध्वम् इव गेयम्। ऊर्ध्वो वै स्वर्गो लोकः। स्वर्गस्यैव लोकस्य समष्ट्यै। त्र्यावृद् गेयम्। त्रयो वा इमे लोकाः। एषां लोकानाम् आप्त्यै। त्रयुदासं गेयम्। त्रयो वै प्राणापानव्यानाः। तेषां संतत्यै। सम् अस्मै प्राणापानव्यानास्तायन्ते य एवं वेद। त्र्यावृद् गेयम्। त्रयो वा इमे लोकाः। एषां लोकानां संतत्यै। सम् अस्मा इमे लोकास् तायन्ते य एवं वेद॥1.111॥
पङ्क्तिः ६५:
 
 
</span></poem>